अक्षर आकार:

श्रीसर्वमङ्गलामहाबलेश्वरस्तवः

Shri Sarvamangalamahabaleshvarastavah

श्रीसर्वमङ्गलामहाबलेश्वरस्तवः

(श्रीगोकर्णक्षेत्रे) सर्वाणि मङ्गलान्यपि यत्त्वं प्रददासि नम्रजनतायै । तस्मादाख्या समभून्मातस्तव सर्वमङ्गलेत्येव ॥ १॥ मातुः सुतेषु करुणा सहजा न हि कारणान्तराद्भवति । रहितेऽपि भक्तिगन्धेनातनु करुणां मयीह करुणाब्धे ॥ २॥ पराङ्गनां नौमि सुराङ्गनेड्यां महेशवामाङ्कनिवासशीलाम् । परां हि सिद्धिं त्वरितं मनुष्याः प्रयान्ति यस्याः प्रणतेः कदाचित् ॥ ३॥ विलोक्य चन्द्रं हि चकोरमुख्याः प्रयान्ति तृप्तिं तु कदाचिदम्ब । तवास्यचद्रं तु विलोक्य नम्राः प्रयान्ति तृप्तिं न कदापि लोके ॥ ४॥ महाबलेशमाहात्म्यं वक्तुं शक्रोति कः पुमान् । यद्भयादर्यमाप्यस्य पश्चाद्भाग उदेष्यति ॥ ५॥ चित्रं तव चारित्रं मच्चित्ते भाति गौरीश । देवोऽपि महान्भूत्वा गोकर्णे वससि यस्मात्त्वम् ॥ ६॥ हारो भवतु हारोऽयमिति बुद्‍ध्या समर्पितः । त्वया हर गृहीतेऽस्मिन्हारत्वं नान्यथा खलु ॥ ७॥ हारेऽस्मिन्हारपदं रूढं जागर्ति यौगिकं नैव । परिगृह्य यौगिकं तत्सम्पादय पार्वतीनाथ ॥ ८॥ महाविभवदायक प्रणमतां जनानां द्रुतं महाहरिमुखामरप्रणतपादपङ्केरुह । महाघतिमिरच्छटादिनमणे कृपाम्भोनिधे महाबल महाप्रभो मयि कृपामपारां कुरु ॥ ९॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीसर्वमङ्गलामहाबलेश्वरस्तवः सम्पूर्णः ।