सर्वदेवदेव्यष्टोत्तरशतनमनमुक्ताञ्जलिः
१ परम गुरुस्तुति
ओंकाररूपं । ओंकारोपासकतत्परं ।
ओंकारस्पंदनकारकं । ओंकार तेज बल व्यापकं ।
ओंकार लीन सर्वभाषांतर्मूलं ।
ओंकारव्याप्त सप्तस्वरविन्यासलोलं ।
ओंकारांतर्गत सर्वाक्षराकारं ।
ओंकार दीप्तिमय सर्वरूपाकारं ।
अकार उकार मकारेति अक्षरत्रय शक्तिघनं ।
वैश्वानर तैजस प्राज्ञस्थानव्यापकं शब्दब्रह्मरूपं अंतरतमगुरुं भावयामि ॥
२ सद्गुरु ध्यानं
साक्षात् परब्रह्मेति प्रकीर्तितं ।
ब्रह्महरिहरेति समाख्यातं ।
सिद्धीश्वरेति विख्यातं ।
सुगुणाभरणभूषितं साधकगणवेष्टितं ।
कृपानेत्रराजितं । दिव्यचक्षुसहितं । साधक दिव्यचक्षून्मीलन मुदितं । तपस्स्वाध्यायरंजितं । शिष्यवृंदाराधितं । दैवाराधनरतं ।
सुज्ञानप्रियवांछितं
श्री सद्गुरुं ध्यायामि ॥
३ गुरु स्तव
अध्यात्मचिंतन प्रेरकं ।
अध्यात्मसाधन कारकं ।
जीवरहस्य बोधकं ।
जीवनविधान निर्देशकं ।
जीवदात भगवद्भक्तिपथदर्शकं ।
वंदे त्रिमूर्त्र्यात्मकं ।
अहंभाव वर्जकं ।
आत्मदौर्बल्य नाशकं ।
करणमैत्रि साधकं ।
योगतंत्रानुशासकं ।
शिष्यगुणशक्ति नियामकं ।
चराचरस्थ प्राणदर्शकं ।
योगानुभव सोपान सूचकं ।
प्राप्तसिद्धि रोमांचकं ।
संशय निवारकं ।
सद्गुरुं वंदे त्रिमूर्त्र्यात्मकं ।
४ सरस्वती स्तोत्र
हे मंदस्मित वदनारविंदे ।
श्री शारदे ।
समस्त भौतिकाध्यात्मिक शास्त्रविशारदे ।
ब्रह्मतत्त्वविदे ।
कच्छपिवीणा
वादनकोविदे ।
ब्रह्मदेव सृष्टि कर्मस्फूर्तिप्रदे ।
ऐंकारजप साफल्यदे ।
वरदे ।
त्वमेव शरणं ॥
५ श्री सरस्वती स्तुति
शुभ्रवस्त्रधरि । वीणापुस्तकमालाधरि ।
चतुर्मुख प्रियकरि ।
ऐंकार वृक्षवल्लरि ।
हे सरस्वति कृपासागरि ।
परंधाम प्राप्तिकरि ।
विज्ञानाधीश्वरि । सुज्ञानदीपांकुरि ।
निगमागमरहस्याकरि ।
ललितकलानंदरत्नाकरि ।
धैर्यस्थैर्यकरि ।
चिरसत्यदर्शनकरि ।
दह मम जडत्वं ।
वर्धय मम अंतःसत्वं ॥
६ प्रणव स्तुति
ओंकार वाचकं । ब्रह्मदर्शकं ।
भेदगह्वरतारकं ।
समस्तनाद तरंगोत्पादन कारकं ।
ईश्वर संपर्क साधकं ।
समस्ताभिदानाभिदेयव्यापकं ।
अधिकतम शक्तियुत कंपनरूपकं । अनाहतनादव्यापकं ।
परापश्यंती मध्यमा वैखरीरूप प्रकटितं ।
आद्यंतरहितं ।
सर्वदेशकालस्थितं ।
कार्यकारणचक्रांतर् स्थितं ।
साकारनिराकार भेदरहितं ।
विश्वस्पंदनम् आश्रयामि ॥
७ आचार्य स्मरणं
ध्यान समाधि तल्लीनं ।
ओंकारनादलीनं ।
संन्यासाश्रम निधानं ।
पर्णकुटीरवासिनं ।
अज्ञानतिमिरहरणं ।
शिष्योद्धरणं । पवित्रचरणं ।
कर्मभक्तिज्ञान मर्मविवेचनं ।
शमदमादि संपद्भूषणं ।
आचार्यदेवं स्मरामि ।
सर्वदालोक सेवातोषणं ।
अभ्यासवैराग्यनिष्ठ भवतारणं ।
श्रद्धाभक्तिसहित जन्मपावनं ।
ब्रह्मतत्वनिरूपणं ।
ब्रह्मभावरंजनं ।
निरंजनं । आचार्यदेवं अनुदिनं प्रातःस्मरामि ।
आचार्यदेवं अनुदिनं सायंस्मरामि ॥
८ सद्गुरु वंदनं
आत्मज्ञानबोधकं ।
आत्मशुद्धिकारकं ।
आत्मदैन्यनिवारकं । भावमैत्रिसाधकं ।
जीवसंस्कारप्रेरकं ।
साधन विधानानुशासकं ।
शिष्यगुणावगुण विमर्शकं ।
भ्रांति नाशकं ।
चराचरस्थचैतन्यशक्ति प्रदर्शकं ।
असुरगुणांतकं ।
भक्तिभावोद्दीपकं ।
त्रिमूर्त्यात्मकम् ।
सद्गुरुं वंदे ॥
९ विश्वगुरु नमनं
कविपुंगव वर्णितं । यतिवरेण्य ध्यानं ।
प्राज्ञमणि व्याख्यात महिमायुतं ।
सुधीमणिज्ञातं । महर्षिगण सेवितं ।
शिष्यवृंदोपासितं ।
भक्तगण संदर्शितं ।
दीनजनाश्रितं । कलोपासक सत्ववर्धकं ।
सुज्ञानप्रदातं । विज्ञान निरतं । त्रिगुणातीतं ।
धीमनोसाक्षीभूतं ।
सर्वजनहितं । विश्वगुरुं नमामि ॥
१० श्री गुरुस्मरणं
सद्गुरु वरिष्ठ । श्रोत्रीय ब्रह्मनिष्ठ ।
परमश्रेष्ठ । चिद्गुह प्रविष्ट । त्वां अनुक्षणं स्मरामि । दयामय परमशिष्ट ।
सद्धर्मपालनार्थं दैवीगुणान् प्रयच्छ ।
चित्तशुद्धिलाभार्थं तवभक्तिभाग्यं प्रयच्छ ।
आत्मज्ञानार्थं करणनिग्रहबलं प्रयच्छ ।
जन्मसाफल्यार्थं ध्यान निष्ठां प्रयच्छ ॥
त्वया विना कोमम आश्रित पारिजातः?
तव स्मरणं विना को मम कृपाचिंतामणिः ॥
११ गुरु प्रार्थना
हे गुरुदेव! प्रत्यक्ष परदेव!
कोस्ति त्वत्सम कारुण्य निधिः । मंदहास वदन । आश्रित पावन । पुनीत चरण । ज्ञान घन सदा प्रसन्न चित्तोसि मंदस्मितवदनावन ।
शिष्योद्धारण साधकशक्ति संचालकोसि ।
दृग्दृश्य विवेचनं बोधयित्वा ।
ध्यानयोगपथे मां गमय समाधीश्वर
श्रवण मनन निधिध्यासन सिद्धोसि
आत्मबुद्धि प्रचोदय
तमसोमा ज्योतिर्गमय हे विज्ञानेश्वर
तवमहिमां शृत्वा आकर्षितोस्मि शरणागतोस्मि
विदित्वा तव बोधन विधान तंत्रं ।
दृष्ट्वा तव शिष्यवात्सल्यं
हर्षितोस्मि सुविचाररत्नाकर! सिद्धीश्वर!
१२ गणेश स्तवं
गिरीशपुत्रीजं । स्कंदाग्रजं । विघ्नराजं । विरजं । अजं । ब्रह्मतेजं । प्रथम पूजित चरण सरोजं गणराजं । भजेहं ॥ मातंगाननं । मूषकवाहनं । सूक्ष्मावलोकनं । भवारण्य पथ प्रदर्शनं । धीप्रदानं आसुरीगुणनिवारणं । दैवीगुणवर्धनं । भजेहं ॥ लंबोदरं । अज्ञानहरं । कलिकलुषविदूरं । कलाक्षेत्रविहारं । विद्यासारं । भजेहं ॥
१३ गणनाथ ध्यानं
एकदंतं । मूलाधार चक्रनिवसंतं । अनंतं । प्रतिपादित सर्वसिद्धांतं । महाशांतं । धीमंतं ।
'गं' बीजाक्षरोपासितं ।
संकटवशवृंदाश्रितं । चिंतितविश्वहितं । अपराजितं । शाश्वतं । पाशांकुशधर करांबुजभूषितं । मूषकासुराराधितं । सिद्धिबुद्धिसेवितं । सर्वयज्ञदान तपारंभादिपूजितं । मुनिगणदेवगणाश्रितं । शिवमनोहरसुतं ।
तं गणनाथं सततं भजेहं ॥
१४ गणपति वंदनं
हे द्युतिमय शरीर । पाशांकुशधर । गणेश्वर । गुणेश्वर । विघ्नहर । महोदर । शिवपार्वतीसुकुमार कलुषविदूर । सद्विचार रत्नाकर । रक्षमां ॥
मातंगानन । मूषकवाहन । ज्ञान निकेतन । मूलाधार चक्रसदन । भवभंजन रक्षमां ॥
हे अज । चतुर्भुज । षण्मुखाग्रज । महातेजस्विपूजित पदपंकज रक्षमां ॥
१५ सरस्वती स्तुति
श्रेया । अक्षया । अंतरंग सुखोदया ।
शुभोदया । अजया । विजया । दुर्विज्ञेया । आस्तिक समुदाय सद्धर्मोदया । कैवल्यालया । खिन्नचित्त परितापोपाया । तापसध्येया । शुभोदया । गायक कवि विचक्षणज्ञेया । साधकनिरपाया । मनीषिवृंदसुप्रिया । विद्यालया । त्यागधनालया । आनंदमयकोशदीप्तिवलया । साम्यदृष्टिप्रिया । चतुर्मुखप्रिया । सरस्वत्येव मम प्राणप्रिया ॥
१६ व्यास स्तुति
ब्रह्मविद्वरिष्ठं । शिष्योद्धरण निष्ठं । ब्रह्मतत्व बोधक वरिष्ठं । साधित ध्यान समाधि योग स्पष्टं । निवारित सर्वारिष्टं । ज्ञानविज्ञान तुष्टं । वेदविभजन यज्ञसाफल्य तुष्टं । अष्टादशपुराणरचन धन्य मुनींद्र श्रेष्ठं । शुकमहामुनि ब्रह्मभाव संतुष्टं । भगवद्गीताग्रंथावतरण कारण परमशिष्टं । सद्गुरु विशिष्टं । ज्ञानक्षेत्र सुप्रतिष्ठं । शिरसा नमामि ॥
१७ नारायण संस्मरणम्
पुरुषोत्तम । आकाशोपम । सर्वोत्तम । कैवल्यधाम । भावसंघर्षण विराम । आत्माराम । भक्तिसागरसोम । भंडनभीम । वैकुंठधाम । पूर्णकाम । नीलमेघश्याम । विहितसर्वानन्य भक्तवृंद योगक्षेम । परंधाम । क्षमस्व मम सर्वापराधान्
त्वमेवैकः मम सर्वस्वं । हे निर्मम ! निष्काम ॥
१८ श्रीराम स्तुति
भानुकुलांबुधिरजनीकरं । अयोध्याधीश परमप्रियकुमारं । जनकात्मजामनोहरं । गुणगंभीरं । सुधीरं । अनुपमशूरं । धर्माधारं । वामनावतारं । श्रीधरं । कौसल्यानंदकरं । भरतानुग्रहकरं । शतृघ्नवात्सल्यधरं । पतितोद्धारं । स्मरामि लक्ष्मणसेवित सदाचारं । पितृवाक्यपरिपालनार्थं
कृतविपिन वास निर्धारं । दिव्यचारित्र्याधारं । रावण संहारं । दैत्यानां तांडव निर्मूलनकरं । एकपत्नीव्रतधरं । स्मरामि ॥
हनुमत्सेवित भक्तिसारं । कोदंडधरं । मत्स्यकूर्मवराहादि दशावतारं । धीरलवकुश प्रावीण्य नंदन विहारं । प्रपन्नहृदयेश्वरं । सर्वजीव पावनकरं । श्रीरामं सुंदराकारं स्मरामि मुहुर्मुहुः ॥
१९ श्रीराम स्तवं
दशास्य मर्दनं । दशावतार रूपनारायणं । जनकात्मजारमणं । जनकवाक्यपरिपालनं । कौसल्यानंदनं । दशरथ भूपति प्राणसमानं । धर्मपरायणं । वंदे इनकुलशरधिनंदनं । सकलसुगुणाभरणं । अयोध्यासाम्राज्य परिपालनं । एकार्धांगिनीव्रत परिपालनं । जन्मपावनं । भूतभावनं । कृपालोचनं । प्रसन्नवदनं । विजितकरणं । सुधीश्रीभूषणं । अज्ञानहरणं । पतितपावन चरणं । संतवरिष्ठार्पित जीवनं । वंदे
२० हनुमत् स्तुति
श्रीरामचंद्र सेवारमणं । अंजनादेवि हर्षवर्धनं । सागरलंघनं । सेतुबंधनं । सीतामातान्वेषणं । लंकादहनं । श्रीराम सेवार्थ वानरव्यूह नयनं । संजीविनी पर्वतानयनं । लक्ष्मण प्राणरक्षणं । विजितकरणं । अणिमा महिमालघिमागरिमादि सिद्धि प्रदर्शनं । महासंतं । वंदे भागवतं वंदे ॥
२१ श्रीराम नमनम्
श्रीरामं । मोक्षधामं । आत्मारामं । आप्तकामं सत्यकामं । इनकुलसोमंगातुं मोदयामि । सद्धर्मसुगुणगणयुतं । सच्चरितं । नित्यमुदितं । शांतनेत्र प्रकाशितं । नवरत्नहारकिरीट शोभितं । जानकी प्राण नाथं । अयोध्यापुरपति सुतं । मूर्तप्रजाप्रेमाद्भुतं । मर्यादा पुरुषोत्तमेति प्रकीर्तितं । धनुश्शरसहितं । गातुं मोदयामि ॥
भरतानुजं । लक्ष्मण शतृघ्नाग्रजं । मारुती सेवित पदसरोजं । विरजं । गातुं मोदयामि ॥
राजप्रासादस्थित तपोरतं । तारकमंत्रोपासकाश्रितं । मातृत्रय चरणांबोज समभक्ति प्रदर्शितं । वर्णयितुं मोदयामि ॥
२२ दक्षिणामूर्ति स्तोत्र
हे दक्षिणामूर्तिम् । परमगुरुमूर्तिम् प्रार्थयामि । अविद्यागुहे बंधितोऽस्मि । अनित्यवस्तुस्पृहे अविरतोऽस्मि । असत्य मोदतरंगे
विचलितोऽस्मि । अशुद्धभावोत्तुंगे सम्मोहितोस्मि ।
अनुक्षणचिंतित विचारगंगापाने ।
अनुदिनकृत सृजन कर्मशील गाने ।
अनुभवालये परिपरिघटन दर्शनयाने
तिष्ठोऽस्मि तु मायावृतोऽस्मि ।
मामुद्धरतु भगवान् शीघ्रं परशिवः माम् दैन्यभावपूर्णं ॥
२३ चतुर्मुख ब्रह्मस्मरणम्
हे सृष्टिकर्ता चतुरानन ।
शोभासदन । चराचरभावन । भारतीचित्तरंजन । नमामि कमलनाभनंदन । कमलासन ।
त्वमेव सूक्ष्मदर्शि । समदर्शि । त्वमेव दूरदर्शि । दीर्घदर्शि ।
त्वमेव तत्वदर्शि । सम्यग्दर्शि ।
त्वमेव भुवनत्रय पितामाता ।
त्वमेव विधाता । तपस्वि वरदाता ।
युगयुगांतरेऽपि अविरत सृष्टिकर्मनिरत
पूर्वकल्पज्ञानसहित । प्रमादरहित ।
स्वपरभेदरहित । त्वमेव चिंतनीयः स्मरणीयः वंदनीयः ॥
२४ सरस्वती स्तुति
विरिंचि प्रियवल्लभां । शुभां । शारदांबां । दिव्यज्ञानप्रभां । शुद्धभक्तिसुलभां । भज हे मानस ॥
षड्दर्शनगिरिश्रेणि विहारिणीं । वीणापाणिं ।
सत्यदर्शनरागिणीं । मयूरवाहिनीं ।
असीमविद्याप्रकाशप्रसारिणीं ।
अनंत ज्ञान क्षेत्रांतर्यामिनीं ।
वैदिक संप्रदाय परंपरावन परायणीं ।
भज हे मानस अनवरतं
भज हे मानस भक्त्या अनवरतं ॥
२५ ललितास्तव
वेद दीक्षा समन्वित समुपासिते । श्रीललिते ।
मूर्तामूर्तभुवनमाते । दिव्यज्ञानसंपद्प्रदाते ।
अनुपमलावण्य शोभिते । चतुर्हस्तसंयुते ।
पाशांकुशहस्ते । सुवासिनिसंपूजिते । कैवल्यदाते । त्वांदर्शयामि मोदयामि च ।
त्रिलोकैक समाराधिते । व्रतनेमनिष्ठ सिद्धिदाते ।
मंदस्मिते । चिदानलसंभूते । जीवकारुण्यभरिते । सुरचाप सदृशभ्रूयुते । आपादमस्तकालंकृते । श्रीमत्सिंहासनाधीश्वरि श्रीमाते । त्वांदर्शयामि मोदयामि च ॥
२६ ईश स्तुति
गमकचमक नमकाराध्यं । तपोमानस साध्यं ।
भक्ति प्रपत्ति पूर्णवेद्यं ।
सदा चिंतयामि । निवेदयामि
तस्य चरणराजीवे
मम पद्यं
तस्य ध्यानमात्रेण तस्य कृपामात्रेण
सर्वं भवति साध्यं । हृद्यं । मम चंचलचित्तस्य किंचिदपि असाध्यं ।
अल्पज्ञोऽहं न जानामि किं वद्यं किंग्राह्यं ।
सः एव महेश्वरः । नटशेखरः । त्रिशूलधरः ।
नीलकंठः पार्वतीहर्षकरः । अवतुमां उद्धरतु माम् ॥
२७ शिवमहिमास्तुति
उडुपतिशेखरेण । अजरेण । अमरेण । विशिष्टनागाभरणधरेण । विषधरेण । भस्मभूषित शरीरेण । सदानंदकारणेन विनाकथं प्राप्तमस्ति भक्ति ज्ञानवैराग्यभावनं । दक्षिणामूर्तिरूपेण । ध्यानासक्तेन । तपोधारालीनेन ।
गंगाश्रित जटाजूटधरेण । उमा रमणमहेश्वरेण । कैलास सदनेन समाधीश्वरेण विना धर्माचरणयुत निष्काम भक्तिः कथं प्राप्तमस्ति ॥
२८ ईश स्तुति
साक्षात् ब्रह्मस्वरूपं । जीवेश्वर रूपं । कैलासाधिपं । हिमाद्रिप संजाताधिपं । गणाधिप देवसेनाधिप प्रतापाधिपं । शतृतपं आराधयामि स्थापयित्वा अर्पणदीपं । फालनयनं । सर्वदा तपस्वी वरप्रदानं ।
ध्यानसमाधिलीनं । सृष्टिस्थितिलयसंतुलनं । कर्मभाव सम्मिश्रण संस्कार फलप्रदानं । ढक्कानिनाद तल्लीनं । चिद्पुर सदनं । प्रमथ गण सेवाधीशं । भक्ति ज्ञानयोग संधानं । वैराग्य निधानं । आराधयामि आघ्रापयामि स्तव धूपं ॥
२९ राजराजेश्वरी स्तोत्र
क्षणक्षणपरिवर्तित विश्व वीक्षणी ।
श्रीराजराजेश्वरी । सिंहवाहनी । गुणगणवैलक्षण्य स्थापिनी । गुणावगुण द्विपक्षकदनसाक्षिणी ।
आकाश वायु पावकवारि पृथ्विव्यापिनी । विविध संस्कृति विवर्धिनी अवतुमां ॥
विकृतिनिरोधिनी प्रकृतिरक्षिणी । सत्यान्वेषक धृत्युत्साह प्रदायिनी ।
विश्वतैजस प्राज्ञरूपिणी । तुरीय धामस्वामिनि । कालत्रयातीत सनातनी । रंजनी । अवतुमां ॥
नित्यशुद्ध बुद्धमुक्तरूपिणी ।
दुराचारवश परिवर्तिनी । दौर्भाग्य शील परिरक्षिणी ।
दुश्चरित मानस पावनि अवतुमां विश्ववात्सल्यवर्षिणी ॥
३० नारायण स्तुति
नळिनी सख सहस्रप्रकाशं । वैकुंठ लोकाधीशं । महालक्ष्मीशं । सुरेश्वर नरेश्वरेशं । भक्तचित्कमल विकासं । तुंबुरुनारद गानतोषं । सनकसनंदनादि मुनिवंदित महिमाविशेषं । सच्चिद्विलासं । सगुणसविशेषं । निर्गुण निर्विशेषं । मधुरभाषं । धर्म परायणतासंकाशं । नेत्राकर्षकवेषं । सद्भावसुविचार समुल्लासं । पीतवासं ।
मनोहर केशं सर्वथा ध्यायेत् सर्वदा ॥
३१ नारायण स्तव
संपत्प्रदाधिप । धराधिप । स्वर्गमर्त्यपाताळाधिप ।
ऋषिमुनितपस्वीदेव
नरेंद्रभूप । असमानप्रताप । दूरीकृतपरिताप । परंतप । धर्मार्थ काममोक्ष प्रदीप । यादवकुलसुदीप । वेदज्ञानसंदीप । पालय मां ॥
योगमार्गप्रदीपक । त्यागयोगप्रेरक । आत्मसंभावित परिवर्तक । दितितनुजवंशसंहारक । भक्तिभावपूरक । दैवीगुणगणव्यापक । धर्मसंस्थापक । भुवन मोहक । कस्तूरी तिलक । दृपदनंदिनीरक्षक । अजामिळोद्धारक । पंचतन्मात्रात्मक । पंचभूतोत्पादक । वैजयंतीमालाधर मोहक । परिपालय मां ॥
३२ श्रीमहाविष्णुध्यानं
श्रीमन्नारायणं । क्षीरसमुद्रेश पुत्रिकारमणं । वैकुंठलोकनिवासिनं । क्षीरांबुनिधिशयनं ।
दुष्टशिक्षणं चक्रिणं । शिष्टरक्षणं किरीटिनं । गदिनं । कमलधारिणं । कांतिमय देहिनं । प्रपत्तिपूर्ण
ध्रुवरक्षणं । पराभक्तप्रह्लाद दर्शन मोद कारणं ध्यात्वा रमामि ॥
दृपदात्मजामान रक्षणं । गजेंद्र मोक्षप्रदानं । प्रसन्नमनस्क कृपालोचनं । नेत्रप्रिय वदनं । भक्तसंकट हरणं । कैवल्यनिधानं ध्यात्वा रमामि ॥
सर्वजीव विधातं । सगुण निर्गुणोपासितं । सर्वजीवाश्रितं । अव्याकृतं । हिरण्यगर्भरूपस्थितं । विराड्रूपविराजितं । कमलासनपितं । ध्यात्वा रमामि । तुलसीवनमालाभूषितं । परमशांतं । अनंतं । धर्मविवेचनारंजितं । पीतांबरभूषितं ध्यात्वारमामि ।
३३ सरस्वती स्तोत्र
सात्विक साधक कृपावर्षिणी । तत्वचिंतनशील ज्ञानवर्धिनी । दुरित शमनी । मनोचांचल्य निवारिणी । चतुरानन रमणी । विद्यासाम्राज्य स्थापिनी । एकैवास्ति सरस्वती विश्वजननी ॥
विस्मयकरविकासधर्मसंचालिनी । मृदुपाणी ।
द्वैतविशिष्टाद्वैतानुभव प्रबोधिनी । अद्वैत तत्वप्रतिपादिनी । कल्याणी ।
एकैकास्ति जननी सरस्वति सरसिजनयनी । प्रार्थय भावय तां अद्यैव हे मानस
प्राणस्पंदने ॥
३४ शारदा स्तुति
शुक्लवस्त्रधारिणीं । शुक्लराजीवासन रागिणीं । सुप्तशक्तिजागरिणीं । सरसिजोद्भवभामिनीं । सरसिजनयनीं । ज्ञानपिपासावारिणीं । प्राज्ञशिरोमणि गणाश्रित चिंतामणीं । वीणापाणीं । संदेहालस्यप्रमाद दूरिणीं । साधक जन्मपावनीं । शरणागतावनीं । सतत साधनानिरत धीशक्तिवर्धिनीं । मम हृत्कमले पूजयामि । सुविचार पुष्पैःपूजयामि ॥
३५ श्री शारदा स्तोत्र
वीणापाणि । कोकिलवाणि । सारसदळनयनि । त्रिलोकतिमिरापहारिणि । त्रिदेहाविद्यानाशिनि । शुभ्रवसनधारिणि । श्वेतहंसवाहनि । ब्रह्मभामिनि । आत्मविद्या
प्रकाशानंददायिनि ।
जपमालापुस्तकधारिणि ।
सत्यलोकवासिनि । चित्तप्रसादरहस्यभेदिनि । नादचिंतामणि नवरसाब्धियान
विनोदिनि ।'रसऋषि'
धामभाग्यप्रसादिनि । नवनवोन्मेषशालिनि प्रतिभोद्दीपिनि । पालयतु मां परापराविद्यारूपिणि ॥
३६ श्री सरस्वती स्तोत्र
१ या देवी संवित्सागरी ।
दिव्यज्ञान सुधाकरी । नमस्तस्यैनमस्तस्यै
नमस्तस्यै नमो नमः ॥
२ या देवी सृजनशीलचित्तापहरी । ब्रह्मदेव मनोहरी
नमस्तस्यैनमस्तस्यै
नमस्तस्यै नमो नमः ॥
३ या देवी ब्रह्मविद्या प्रसारिणी गुप्तगामिनी ।
नमस्तस्यैनमस्तस्यै
नमस्तस्यै नमो नमः ॥
४ या देवी सृजनसौधामिनी विद्याप्रिय धीप्रचोदिनी
नमस्तस्यैनमस्तस्यै
नमस्तस्यै नमो नमः ॥
५ या देवी वीणानाद तरंगिणी ।
रागतान मोदिनी ।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः ॥
६ या देवी स्वरनीराजनरंजनी । सद्ग्रंथसारप्रबोधिनी ।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः ॥
७ या देवी नटनरचनचित्र
कलातोषिणी । मयूरवाहिनी ।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः ॥
८ या देवी शुक्लांबरधारिणी । चतुरास्यरमणी ।
नमस्तस्यैनमस्तस्यै
नमस्तस्यै नमो नमः ॥
३७ शारदा स्तुति
यां विद्यादायिनीं चतुर्मुखभामिनीं
सत्यलोकवासिनीं सुरेंद्रादि दिविजाः स्तुवंति । यां ज्ञान विज्ञानरताः पुष्कल दिव्यैःस्तवैः स्तुत्त्वा तुष्यंति रमंति च । यां तुंबुरुनारद बृहस्पत्यादि देवर्षयः गायंति भक्तिलोकसंचारे ।
तां सरस्वतीं । कलानंदरसस्रवंतीं ।
भगवतीं ।
शिरसा नमाम्यहम्
मनसा ध्यायाम्यहम् ॥
३८ सरस्वती स्तुति
श्वेतवसनान्वितां । अभ्यासातिशय दर्शितां । आत्मजिज्ञासानुरागविदितां । पामरत्रातां । कच्छपिवीणानिस्वनरंजितां । गायन नर्तन वाचन चिंतन मुदितश्रितां । सरसिजोद्भव सहितां । सरस्वतीं आराधयामि
धीमणिवेष्टितां । ऋषिमुनिकवि
वरप्रदातां । अंतर्मुखाराधितां । बहिर्मुख सुपूजितां ।
त्रिभुवन मातरम् आराधयामि ।
३९ सरस्वती स्तुति
मधुमतीं । रसवतीं । सरसवतीं । नवरसवतीं ।
ब्रह्मसतीं । सुमतीं । श्रीमतीं । श्रीमहासरस्वतीं । प्रातःस्मरामि विद्यातुरेण ॥ समाहित चित्ताराधिते । सप्तस्वरविन्यास मुदिते । सुविस्मयकर दशनादमय नादयोगसंप्रीते । ऐंकारजपतृप्ते । त्वां स्मरामि हे जगन्माते । सत्त्वाधिक्यतां अभीप्स्य ध्यायामि ॥
४० सरस्वती स्तुति
हे संगीत साम्राज्य स्थापिनि । हे साहित्य स्वाराज्य स्वामिनि । स्वरविन्यासरतकंपनरोमांचनकारिणि । रागतानपल्लविलीन धीशक्ति वर्धिनि । कमलासन राणि । वाग्दीप प्रज्वलिनि । मौनरागालापिनि । दशनादश्रवणपथचालिनि । चिद्गुहांतर्वासिनि । आत्मत्त्वप्रतिपादिनि । सच्चिदानंद रूपिणि । हे जननि । मयूरगामिनि । सरस्वति धन्योऽस्मि त्वां नमस्कृत्वा भूयो भूयो हे सत्व संवर्धिनि ॥
४१ सरस्वती भावनं
सत्यलोकवासिनीं । शुभ्रवस्त्रधारिणीं । सरोरुहदळनयनीं । नयनकांतिप्रसारिणीं । ज्ञानप्रियाकर्षिणीं । सुमतिप्रकाशिनीं । सर्वचित्तवृत्तिधर्मनिरोधमर्मभेदिनीं । जपमालापुस्तकधारिणीं । पुनरावृत्तिपुनरध्ययन प्रचोदिनीं । सात्विकरूपिणीं । शुद्धचित्तप्रसादिनीं । राजसतामसभावकलुषनिवारिणीं । दुरितशमनीं । शीघ्रोद्धारिणीं । श्रीशारदां जननीं । भावयामि तामनुदिनं ॥
४२ गोविंद स्तव
धर्ममूर्तिं ।
धर्म मार्गप्रवर्तकं ।
धर्मपालकं । धर्माधारं । धर्मस्थापकं । धर्मरहस्यवेत्तं । धर्मिष्ठ
समुदायरक्षकं । धर्मशास्त्रप्रदीपकं । धर्माधर्म
निर्णायकं । धर्मनीतिन्यायप्रियं । धर्मनंदनादि पंचपांडव परमाप्तं । धर्मभ्रष्टपरिवर्तकं ।
जगद्गुरु गोविंदं भज हे मानस ॥
४३ सरस्वती स्तुति
निरालंब सुखदायिनीं । निःश्रೆयस पथप्रदर्शिनीं । विविधभाव वाद्यगोष्ठिरागिणीं । महासरस्वती जननीं ।
वीणावादनरंजनीं । राजीवासनप्रियरमणीं । स्वराक्षरालंकारयुत कृतिहर्षिणीं । आत्मविद्याप्रकाशिनीं सदा आश्रयामि ।
योगींद्रभ्रामरीगुहांतर्दर्शितां । ब्रह्मगोविंदचंद्रशेखरदिविजगणवंदितां । विद्याधिदेवतां । श्वेतांबरान्वितां । कलोपासक समर्चितां । रसिकशिखामणिवृंदसमाराधितां । नित्यमुदितां । जपमालापुस्तकभूषितहस्तां । सदा ध्यायामि मातरं ॥
४४ सरस्वती प्रार्थना
नादयोग संप्रीते । समाहितचित्त
समाराधिते । सप्तस्वरविन्यास समुदिते । अक्षराकारोपासिते । सुस्मिते । सुविस्मयकर दशनाद
श्रवणभाग्यदाते । माते प्रयच्छ प्रयच्छ मां अंतर्मुखत्वां महासरस्वति । तुंबरुनारदशुकशौनकवर्णितेभगवतिपरापरविद्यावति । नवरसवति प्रयच्छ प्रयच्छ मां
ज्ञानसंपन्नतां हे भगवति ॥
४५ शारदास्तव
हे ललितकला स्वाराज्य पालिनि । सर्वशास्त्रविराड्रूपिणि । समस्त जीवकुलभाषांतर्यामिनि । लेखनवाचनलोकस्वामिनि । नादगगन विहारिणि । आबालगोप
भावोद्देश दर्शिनि । सर्वविचारभावस्पंदनमर्मप्रबोधिनि । सुगुण नवरत्नसंयोजनि । सत्यप्रतिपादनातरंगिणि । सप्तस्वरभेदग्रहणधीशक्तिप्रबोदिनि । श्रद्धाभक्तिं देहिमे ॥
हे कीरवाणि । माणिक्यवीणापाणि । ब्रह्मराणि । सच्चिदानंद प्रोल्लासिनि । दिविजवनिताचिंतामणि । वेदोपनिषद्नंदन विहारिणि । सारसदळनयनि । सत्यलोकवासिनि । सर्वाक्षरमालाधारिणि । रम्यश्वेतहंसवाहनि । श्रद्धाभक्तिं देहि मे ॥
४६ नारायण ध्यानं
समदर्शिगेयं । ध्यानयोगि ध्येयं । स्थितप्रज्ञ ज्ञेयं । नित्यस्मरणीयं । पराभक्तवर्णनीयं । कर्मयोगि सेवनीयं । ब्रह्मचिंतनप्रियोपासनीयं । गृहस्थसंन्यासिवेद्यं । ब्राह्मीस्थितिप्रियातिप्रियं । वैरभावयुत जयविजय अहर्निशि ध्येयं । सर्वजीवगम्यं । सर्वकाल सौम्यं । सर्वभक्तप्रियं । सर्वथासदयं । वचसा सततं पठनीयं श्रीमन्नारायणं विजयं । अप्रमेयं । अजेयं संस्मृत्य संस्मृत्य हृष्यामि मुहुर्मुहुः
४७ वासवी स्तुति
ओंकार पंजरशुकां । अहिंसाव्रतनायिकां । श्रीमद् वासविकन्यकां । मृदुलहृत्पुंडरीकां । करधृत पद्मकुट्मलचारुशुकां । आश्रितोद्धारकां । भवाब्धितारकां । संवित्प्रदायकां । कुसुमांबकुसुमाख्यवरपुत्रिकां । विरूपाक्षाराधितवात्सल्यचंद्रिकां । अग्निप्रवेश दीक्षाप्रेरकां । वह्निप्रविष्टद्युत्तरशत सबांधवसद्गतिकारकां । योगमायाकन्यकां । शिरसानमामि पुनरपि पुनरपि दर्शयामि ॥
४८ श्री राम स्तुति
दशास्य मर्दनं । दशावतार रूपनारायणं । जनकात्मजारमणं । जनकवाक्यपरिपालनं । कौसल्याहर्षवर्धनं । दशरथभूपालप्राणसमान नंदनं । भानुकुलसागर नंदनं । अयोध्यासाम्राज्यपरिपालनं । ध्यात्वा मूकोऽस्मि ॥
धर्मपरायणमं । सकलसुगुणभूषणं । एकार्धांगिनीव्रतपरिपालनं । लक्ष्मणशतृघ्नभरतप्रेमनंदनविहरणं । भूतभावनं । साधकजन्मपावनं । कृपालोचनं । ध्यात्वा मूकोऽस्मि ॥
मंदस्मितवदनं । प्रसन्नमानसभवबंधहरणं । विजितकरणं । अज्ञानहरणं । पतितपावनं । संतवरिष्ठार्पितजीवनं । हनुमत्सेवित कंजचरणं । श्रीराम रघुरामेति भक्तचित्तविहरणं । ध्यात्वा ध्यात्वा स्वेदाश्रुकंपनानुभवे मूकोऽस्मि ॥
४९ श्रीकृष्णस्तुति
वेणुवादनचतुर । नव विधभक्तमंदार । पीतांबरधर दामोदर । यशोदानंदकिशोर । यमुनातटविहार । कौस्तुभमणिहारधर । निरुपमधीर । लोकोत्तरशूर । असदृश साहस वीर । धर्म ध्वजारोहणतत्पर । परमोदारासलीलामोदकर । भवगोचर । भवभीकर । सुंदराकार । रक्षमां । सर्वदासर्वत्र रक्षमां ॥
५० सरस्वती स्तुति
सप्तस्वरार्चन प्रमुदिते । अक्षरमाला विराजिते । रागतानपल्लवि नीराजन पूजिते । ब्रह्मदेवसंयुते । अपराजिते । स्फटिकमणि
जपमालाहस्ते । प्राज्ञशिखामणि समूहवंदिते । आत्मज्ञानमार्ग गामीसमुपासिते ।
शुभ्रदुकूलान्विते । श्वेतराजीवस्थिते । परमहंसयोगीश्वरदर्शिते । गुरुकुलाराध्यमाते । सुरेश्वरादि देवगणाश्रिते ।
वीणानादलहरिक्रीडातोषिते । त्वत्कृपामात्रेण आनंदलीनोऽस्मि ॥
५१ पार्वती वंदनं
दशनाडिगामिनि । आत्मतत्वप्रकाशिनी । कैलाशृंगविहारिणी । स्वयंसिद्धतत्वबोधिनी । नंदीभृंगीवृंदसेवामोदिनी । विनायकषण्मुख क्रीडाह्लादिनी । मदनांतकार्धांगिनी । हिमाद्रीशनंदिनी । केसरिवाहनी । कृपासुधावर्षिणीपराशक्तिरूपिणी । शिवतांडव सहनर्तिनी । लास्यप्रमोदिनी । समस्तचराचराकर्षिणी । संरक्षिणी । संपोषिणी । परिपालिनी । भुवनैकजन नी । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिप्रदायिनी । सत्यशिवसुंदररूपिणी । कदंबवनसंचारिणी । शुद्धिं करोतु मम भाववाहिनीं । विचारवाहिनीं ॥
५२ वासवी स्तुति
सर्व जीवानुग्रहकारकां ।
अहिंसाव्रतसुदीपिकां । श्रीमद्वासवी कन्यकां । सुकोमल हृदय पुंडरीकां । मधुरमनोहर मुखां । नयनप्रिय चंपकनासिकां । धृतहस्तशुकां । संवित्प्रदायकां । घनशैल पुरनायिकां । शोकवारिधि तारकां । संस्मृत्य संस्मृत्य हृष्यामि प्रतिदिनं
तुष्यामि प्रतिक्षणं ॥
५३ वासवी स्तुति
सौमनस्य सौख्यसंवर्धिनि । शरणागत चिंतामणि । क्षमाशैत्यानुभवकारिणि । अहिंसाभावतरंगिणि । समस्तपंडितपामरयोगक्षेमवाहनी ।
चराचरजीवचैतन्यसंचालिनि । कन्यकामणि । सुधीमणि । आजन्म प्राणसंरक्षिणि । जीवोद्धारिणि । उद्वाहुवंशजन्मधारिणि
शरणागतचिंतामणि ।
गतिस्त्वं गतिस्त्वं त्वमेव सर्वदा
गतिस्त्वं जननि त्वमेका मोदप्रदा ॥
५४ हे भगवान्
हे भगवान् त्वमदृश्यवानपि विश्वाकारः
त्वमस्पृश्यो स्पर्श सुखप्रदातः
त्वमवाङ्मानसगोचरोऽपि शब्दतरंगसागरः मानसभाव विलासकारणः
त्वंनिष्चेष्टितोऽपि प्रकृतिः त्वया क्रियामयः
त्वमतिदूरः त्वमतिसमीपः
नामरूप कर्मरहितोसि दशावतार महिमावंतः
जन्मस्थानरहितोसि सर्वदेशवासरहितः
त्वं बंधुरहितः बंधरहितः सर्वानुबंधपूरितः
त्वमेकाकी सर्वजीवरूपः सर्वदेशख्यातः
कथं तव वैचित्र्यग्रहणं साध्यं?
५५ सरस्वती सन्निधानं
भारतीं । धीपथगामिनिं । भागीरथीं । भगवतीं ।
ब्रह्मसतीं । प्रणम्य हर्षितोऽस्मि । श्वेतदुकूलवतीं । दिव्यमधुमतीं । नवरसवतीं । रसवतीं । समरसवतीं । स्मृत्वा पुलकितोऽस्मि । श्रद्धान्वित ज्ञानार्थि साधनानुकूलवतीं । ध्यात्वा शांतमानसोऽस्मि । शृतिस्मृतिसारस्रवंती । पराविद्यावतीं । सद्धर्मवतीं । अगोचर प्रभावतीं ज्ञात्वा धन्योऽस्मि ।
५६ पार्वती स्तुति
विश्वसुंदरि । रत्नमंजरि । नित्यसत्यानंदकरि । विश्वांबरि । गजानन षडानन ममतासागरि । विषकंधर मनोहरि । त्रिशूलधरि । नयनमनोहरि । मंगळकरि । पर्वतेशकुमारि । कोमलशरीरि । त्वमेव माहेश्वरि । चित्तशोधनकरि । जीवपावनकरि त्वमेव जगन्माते । ममजीवत्राते । मम हृदय पुराधीश्वरि जीवनदाते ॥
५७ सरस्वती ध्यानं
वेदोपनिषद्गीतासारवतीं । अनुपमलावण्यवतीं ।
वीणावादनलीनकलावतीं । सद्धर्मवतीं । ज्ञानवतीं । सत्यवतीं । अव्यक्तप्रभावतीं । विदित्वा विदित्वा जितमनस्कोसी । शाश्वतीं । हंसगमनरतीं । महामतीं । विश्वसृष्टिकार्यमग्न
चतुर्मुख प्रियसतीं । रसलोकपीयूष स्रवंतीं । विद्यार्जनालोलानुशासनवतीं । सात्विक गुणवतीं । महाकांतिवतीं । स्मृत्वा ध्यात्वा पावनचित्तोऽस्मि ॥
५८ ललिता परमेश्वरी स्तुति
हे ललितापरमेश्वरि । करुणाकरि । महोदरि । विश्वंभरि । विश्वांबरि । समाधिऋषिगोचरि । समाधिगोचरि । भूरिभाग्यलहरि । त्रिभुवनेश्वरि । श्रीमत्सिंहासनेश्वरि । त्वया विना का मम पावनकरी । सुषुम्नानाडिगामिनि ।
विविधाभरणवसन
विराजिनि । सुहासिनि,सुकेशिनि । दशप्राणगति नियंत्रिणि । कर्मपीडिताश्रितावनि । कृष्णकपर्दिनि । त्रैलोक्यकुटुंबिनि । सुवासिनि पूजामोदिनि । योगसागरनिर्मग्न
चिंतामणि । पतितपावनि । दुरितदूरिणि । त्वया विना मम का पावनकरी ॥
५९ दुर्गा स्तोत्र
त्रिदेहांतर्गतात्म स्वरूपिणि । नागवेणि । भक्तिनंदन विहारिणि । शक्ति वन संचारिणि । धीबलोद्दीपिनि । अद्भुत कुंडलिनि । विश्व प्राण संजीविनि ॥
चिद्पावक संजाते । आत्मज्ञ संस्पर्शिते ।
त्रिजगन्माते । त्रिगुणातीते । त्रिमूर्ति वंदिते । त्रि तापानल संत्रस्ताश्रित संत्राते । सर्वालंकृते । अरुण दुकूलान्विते । नंदि भृंगि परि सेविते । धर्म स्थापक संजात शुभ दाते । अनिमिष वृंदस्तुते दुर्गादेवि पाहिमां ॥
६० शारदा स्तुति
श्रुतिलय भावसंयुक्त नादरंजनि । श्रुति स्मृति वाणि वीणापाणि । गीर्वाणि । 'ऐं'बीजाक्षर जपहर्षिणि । चतुरास्य भार्यामणि । अक्षर मालाग्रंथदारिणि । सत्यलोकवासिनि । परम सत्य प्रतिपादिनि । मयूरवाहिनि । गान विचक्षण कविपुंगव
धीमणि वर्णन कला प्रसादिनि । कमलनाभ कमलासन हरसुर ऋषि मुनिगणनुत महिमा पुष्करिणि । मम वरदा भव पराविद्या प्रकाशिनि ॥
६१ दुर्गा स्तुति
त्रिदेह व्यापिनि । त्रिभुवन जननि । अनंत विभूति धारिणि रुंड मालिनि । भयंकरासुर
विध्वंसिनि । शिष्टजनपरि पोषिणि । दयार्द्र लोचनि । परतत्त्व स्वरूपिणि । पराशक्तिजननि । सच्चिदानंदरूपिणि । वर्णाश्रम विधायिनि । गुणत्रय विलास विनोदिनि । ब्रह्म विष्णु महेश्वर सुरगणदत्त समस्त शक्ति तेजायुध धारिणि । अष्टादश भुज विराजिनि । विशिष्ट वसना भूषण शोभिनि । सिंहवाहिनि । दुर्गे त्वां कथं दर्शयामि जानामि कथं
आराधयामि ॥
६२ वासवी स्तुति
सत्याराधकेप्सित प्रपूरिणीं । आर्द्रहृदयोपास्य विराड्रूप प्रदर्शिनीं । चिदेकरसरूपिणीं । नवरस स्वादु तरंगिणीं । कुसुमांब सौख्यकारणीं । भवतारिणीं । कृपावीक्षणीं । अहिंसोद्यम संचालिनीं । वैश्यवंशोद्धारिणीं । मनुकुलपावनीं । सर्वजीव हितकारिणीं । समाधि ऋषिवर दायिनीं । कुसुमाख्य वंद्यनंदिनीं । दिव्यावतारिणीं । पೆनुगೊंड प्रतिष्ठित दिव्य वनितामणीं । विशिष्ट कन्यामणीं । गोलोक स्वामिनीं । कन्यकापरमेश्वरीं
जननीं । अर्चयित्वा भावयित्वा धन्योऽस्मि ॥
६३ पार्वती स्तुति
समस्त पदार्थ पावन करि । जीव कोटि रक्षण करि । दीन दयाकरि । आराधक कृपा सागरि । रजत गिरीश्वरि । हिम शैल सुकुमारि । चंद्र मौळेश्वर हृदयेश्वरि ।
माधुर्य रत्नाकरि । नेत्र मनोहरि । माधुरि । शंकरि । विष्णु सहोदरि । विश्वेश्वरि । ध्यान मात्र गोचरि । मातंग वदन षडानन धीशक्ति मोदकरि । पार्वति जय करि । प्रसन्ना भव । मम सुप्रसन्ना भव ॥
६४ हिमगिरि नंदिनि स्तुति
हिमगिरि पाल प्रिय नंदिनि । कृष्ण कपर्दिनि । देव वनितामणि । पतिव्रता चिंतामणि । मंजुळ भाषिणि नटराज रमणि । कैलास गिरिवास हर्षिणि । मंद हासिनि । सकल सद्ग्रंथ ज्ञान प्रदायिनि । सर्वशक्ति संचालिनि । योग शक्तिविवर्धिनि । सर्व वस्तु स्वभाव नियंत्रिणि । दैत्य कुल विनाशिनि । विघ्नेश जननि पालय मां ॥
६५ दुर्गास्तव
चिद्पावक संभवे । दिविज कार्योद्भवे । विभवे । उदय रवि कोटि प्रभे । द्युति मयि । रयि । प्राणमयि । आनंदमयि । परा नंददायि । दुर्गे तारय भवशरधीं ॥
नाना युध शस्त्र धारिणि । नाना विध शास्त्र शरीरिणि । नाना शक्तिगुण रूप नाम क्रियांतर्गत प्रकृतिरूपिणि । नाना विध सृजन रचन बल प्रसारिणि । राक्षस वंश ध्वंसिनि । राक्षस पत्नि मोक्ष दायिनि । दुर्गे तारय भव शरधीं ॥
६६ ललिता स्तुति
समस्त जीव पोषणकरी । समस्त सस्य प्राणि मनुज दिविज समुदाय सृजनकरी । समस्त कर्म क्षेत्र दोष पावन करी । कैलास शिख राधीश्वरी । गिरि राजकुमारी । कन्याकुमारी राजराजेश्वरी । सुचरि तेश्वरी । श्री ललिता परमेश्वरी । तारयतु भवांबुनिधीं । हृदय गुहनिवासिनी । स्थावर जंगम चैतन्यदायिनी ।
इच्छाशक्ति ज्ञानशक्ति संचालिनी । त्रिगुण लास्य साक्षिणी । आसुरी गुणा र्भटवह्नि जिह्वा दर्शिनी । दैव गुण शैत्य स्पर्श दायिनी । तारयतु भवांबुनिधीं ॥
६७ दुर्गास्तव
श्री ललितां । पर देवतां । परशिव वनितां । सुस्मितां । पंडितनुतां । पामर श्रितां । आबालगोपवि दितां । हिमाद्रि सुतां । तां दुर्गां कथं शक्नोमि गातुं ॥
चारुनवदुर्गारूपिणीं । असुर परंपरा निर्मूलन कारणी, अनुपमलीलानंदिनीं । दया नयनीं । शोक भयग्रस्तभक्तावनीं । रक्त विरक्ता शक्ता शक्त समदर्शिनीं । तां दुर्गां कथं वर्णयितुं शक्नोमि ॥
६८ पार्वती स्तव
पर्वतराज सुपुत्रिकां । कैलासाधिप भर्तृकां । श्री चक्र नगर नायिकां । चारुचंपक सुनासिकां । जीवदुरित दुःख शामकां । ज्ञानिबुधजन मेधाविलासरसिकां एकैकां । प्रणवात्मिकां । मनन शक्ति मथन शक्ति संचालिकां । प्रार्थय मानस ज्ञान भिक्षांदेहीति प्रार्थय ॥
६९ दुर्गा स्तुति
षट्चक्रमेरुस्थितां । योगिसंभावितां । भक्तसंस्पर्शितां । ज्ञानिसंदर्शितां । आबाल वृद्धश्रितां । सर्वप्राणि पुनश्चेतन कृतां । षड्दर्शन शिखरश्रेणि समाराधितां । दुर्गां मातां प्रार्थय ।
ब्रह्मांड भांडोदरीं । महोदरीं । मनोचक्षु हरीं । पुण्य फल भोगप्रदान करीं । सौंदर्य सागरीं । महिषमर्दिनीं । भंडासुर सूदनीं । चंडमुंडासुर शस्त्र प्रत्यस्त्रवर्षिणीं । विद्वद्गोष्ठि प्रमोदिनीं । दुर्गा जननीं प्रार्थय ॥
७० श्रीमन्नारायण स्तुति
देवगुरु देवर्षि महर्षि समाराधितां ।
संरक्षित शरणागतं । राजर्षि सद्दर्शितं । साधुसमुदाय परित्राण निरतं । श्री महालक्ष्मि सेवानंदितं
सर्वजीव भ्रामरी गुहांतर्वासिनं । दुरित विनाशनं । भूदेवी भारहरणं । दिव्यपंकज चरणं । सुदर्शन चक्रधारिणं । पांचजन्य शंखधारिणं । शरणागतोद्धारणं । श्रीमन्नारायणं नित्योपासयामि ॥
देवकी वसुदेव नंदनं । यशोदानंदानंद सुख वर्धनं । भाव शुद्धि पथदर्शनं । जीव भाव हरणं । कमलनयनं । नरकेसरि रूपावतरणं । प्रह्लाद दर्शन प्रदानं । परमप्रिय सखिराधारमणं । कैवल्यनिकेतनं । श्रीमन्नारायणं नित्योपासयामि ॥
७१ श्री कृष्ण स्तुति
मधुरनयन वदन वचन कर चरण शोभितं ।
ब्रह्मांड हितं । संगरहितं । सर्वांगकांतिसहितं । गीताबोधामृतदातं । यादवकुलेंद्र
प्रियतम सुतं । तुलसी मालाभूषितं । शंखचक्रगधा कमलधर चतुर्हस्तं पीतांबर विराजितं । गोपिकावृंदवेष्टितं । योग प्रक्रिया निष्णातं । अनुराग बंध पुलकितं । रोमांचकाद्भुत चरितं । स्वरभंग कंपनादि भाव विकार मुद प्रदातं । चित्र विचित्रासुर ध्वंसनरतं । स्वस्वरूपानुसंधान विधान बोधन निरतं । तं परम पुरुषरूपोपासितं स्मरामि । ध्यायामि । शिरसा नमामि ॥
७२ नारायण स्तुति
स्वयंभू श्रीधर । स्वप्रकाश श्रीकर । स्वयंगोचर । शुभकर । स्वयंचालित प्राणाधार । स्वयं कर्म निरत जीवोद्धार । स्वयं कल्पित कोटि कोटि नामाकार । चराचर व्याप्त निराकार ।
स्वयंरूपित सात्विक राजस तामस गुणसार । त्रिगुणदूर । स्वयं संभव दशावतार । स्वयंबद्ध देह पंजर । निर्विकार । श्रीदेवी चित्तोल्लासकर । सहस्र जिह्वतल्पशयनकर । योगसाधक तिमिरापहर । पक्षि राजा रूढ चर । वाचालं करोषि मूकं ।
मूकं करोषि वाचालं ॥
७३ वासवी स्तोत्रं
१. या परदेवी त्याग संपन्ना । सुप्रसन्ना ।
सा श्री वासवी रक्षतु मां परिरक्षतु मां ॥
२. या प्रकृतिदेवी नित्यहरिद्वर्णा । सा संस्कृतिदेवि रक्षतु मां संरक्षतु मां ॥
३. या दयामयी समाधिहृत्कमल सदना
समस्त जीव रक्षणा ।
सा तेजोमयी रक्षतु मां
संरक्षतु मां ॥
४. या देवी अहिंसा निष्ठा शालिनी ।
सर्द्धर्मपालिनी ।
सा आदिदेवि रक्षतु मां
संरक्षतु मां ॥
५. या पराशक्ति तत्पद प्रदर्शिनी
त्वंपद प्रकाशिनी
सा आदिशक्ति श्रेयोमार्गे गमयतु मां ॥
७४ भवानी स्तोत्रं
परात्परि । तलोदरि । महोदरि । विश्वंभरि । विश्वांबरि । सत्यानंदकरि । माधुर्य रत्नाकरि । मृदुल गुणसागरि । चित्त प्रसादकरि । महा विष्णु सोदरि । कैलास गिरीश्वरि । श्वेत गिरींद्र कुमारि । स्तव कुसुम मालाधरि । अर्धनारीश्वर मनोहरि । परापरा प्रकृति रूपधरि । पंचभूतात्मक विश्व चेतनकरि । भक्त कैवल्य प्राप्तिकरि । मम माते विश्वमाते अंतः शक्तिदाते सार्वकालिक श्रेयस्करि ॥
७५ श्री कृष्ण स्तवं
भावयामि वसुदेवकिशोरं । केशवं माधवं । दामोदरं । सहस्राराद्रिशिखर सद्दर्शितं । चिद्गुहवासितं । सहस्रकोटि भानुप्रकाशं । सर्वगुणेशं । यादव कुलेशं । हृषीकेशं । लक्षीशं । वैकुंठेशं । भावयामि ॥
दैवशिखामणिं । प्राज्ञगुरु चिंतामणिं । धर्म कर्म मर्मज्ञ सुधीमणिं । श्यामल शरीरं । मातुल कंसहरं । व्याकुल चित्तपांडव संकट हरं । वेणुगान चतुरं । गीतसुधाकरं । गीतामृत कुंभधरं । मोहाशोकापहरं ॥
७६ श्रीधर स्तुति
वंदे क्षीराब्धि सुकुमारि चित्तापहरं ।
क्षीरांभोनिधि मथनाधारं । सर्वकरण सुंदरं । सर्वलोकाधीश्वरं । समस्त स्थावर जंगमात्मक विश्वरूपधरं । जीवोद्धारं । वेदज्ञानसारं । शांताकारं । प्राणाधारं । साकारं । निराकारं । श्रीधरं । धर्मक्षेत्र संचारं । साधक दुरित विदूरं ।
मोदकरं । दामोदरं । असुरसंहारं शुभंकरं नित्यं भजेऽहं ॥
७७ श्रीमन्नारायण स्तुति
श्रीमन्नारायणं । धरहस्त शंखगधा सुदर्शनं । अभयप्रद पंकज चरणं । क्षीराब्धि कन्यकासेवित चरणं । कारुण्य पूर्ण नयनं । त्रिकाल भुवन पालनं । त्रितापानल शमनं । अणुमहद्व्यापिनं । मोहनं । अद्भुत पीतांबर कस्तुऊरी तिलक वैजयंतिमालाधारिणं । अनुक्षणं हृत्कमले ध्यायामि ॥
७८ श्री महाविष्णु स्तव
गगनोपमं । आत्मारामं । वैकुंठधामं । मेघश्यामं । दैत्यकुलविरामं । परशुरामं । श्रीरामं पुरुषोत्तमं । पतित पावक चरण पद्मं । संचालित कर्मचक्रनियमं । वेदन विमोचक यमं । श्रीमहालक्ष्मिहृदयधामं श्रीमहाविष्णुं हृत्कोशे ध्यायामि ॥
७९ नारायण भावनं
रमा मनोहरं । श्रीधरं । श्रीकरं । सम्यग्दर्शनकरं । यशःकीर्तिकरं । चतुर्दशभुवनाधारं । कौस्तुभमणिहारं । क्षीरसमुद्रेशनंदिनिसेवितसारसचरणं । साधुरक्षणं । दिनकरनिशाकरनयनं । ब्रह्मविद्याप्रदानं । शेषतल्पशयनं । गरुडगमनं । धूर्तशिक्षणं । भावशुद्धिमर्मपथबोधनं वृष्टिभावहरणं । नरकेसरि रूपावतरणं । पराभक्तप्रह्लादह्लादवर्धनं । कमलवदनं । कैवल्यनिकेतनं । भवव्याधिप्रशमनं । सर्वदा स्मरामि ॥
८० त्वमेव सर्वं हरि
१. सुविशेष गुणशक्ति वसनाभरणोऽसि हरि त्वं ।
निर्विशेष परब्रह्म सच्चिद्रूपोऽसि मुरारि त्वं ॥
२. षोडशकलापूर्णो दशावताररूपोत्वं । निष्कलो निस्तुलो निष्कळंको त्वं ॥
३. सगुणसाकार नामरूप सहितो त्वं ।
अजस्त्वं विरजस्त्वं निर्विकारो निरींद्रियो त्वं ।
४. कर्मधर्मरहितो त्वं संस्कारफलरहितो त्वं ।
सृष्टि स्थितिलयकारणोत्वं देहरहितो त्वं ॥
५. अच्युतो अखंडो अमरो निरवयवो श्रीधरो त्वं ।
कथं त्वं विश्वस्य प्रेरकः कारकः च तारकः
न जानामि देव प्रीत्या बोधय परया कृपया ॥
८१ नारायणस्तुति
श्रीमन्नारायणं । मुक्तिसदनं । शापग्रस्त जय विजय मोक्षप्रदानं । मोहकनीलमेघ
श्याम वर्णं । नित्यमंदहासवदनं । शिव विरिंचिदत्तवरकारण दुर्मदयुक्त दैत्य भंजनं । प्रारब्धपीडित स्थैर्यवर्धनं । भक्ति ज्ञानवैराग्य प्रदानं । मधुसूदनं । गंगोदित दिव्यकंज चरणं । हृत्कोशे स्मरामि ॥
८२ केशव वंदनं
जडचेतनात्मकलोकनिर्मापकं । सकलवस्तुस्थिति पालकं । धर्मकर्मनियामकं । कंदर्पजनकं । मनोबुद्धिप्राण देह नियंत्रकं । धर्मशास्त्र प्रवर्तकं । धर्मसंस्थापकं । नतजनोद्धारकं । केशवं हृत्कोशे स्मरामि ॥ नित्याकर्षक प्रकृति व्यापकं । प्रतिजीवानुशासकं । दैन्यचिंतावारकं । पुण्य कर्म प्रेरकं । नाकसृजनकारकं । माधवं हृत्कोशे स्मरामि ॥
८३ नारायण स्मरणं
नळिनाप्त कोटि प्रकाशं । वैकुंठ पुराधीशं । उडुपतिभगिनीशं । देहकरणेशं । सद्भाव सुविचार संकाशं । सुदर्शनचक्र भूषं । शंखनाद तोषं । सुरेशनरेश ऋषिगुणेशं । शरणागत हृदय विकासं । काव्य गद्य गानचित्र तोषं । राग लय तान वेणुवादन विशेषं । सगुण सविशेषं । निर्गुण निर्विशेषं । धर्म परायण संतोषं । मनोहर वेषं । सच्चिद्विलासं । पीतांबरवासं । मधुरभाषं । मधुरानगरवासं । मनोहर केशं । सर्वदा स्मरेत् सर्वथा ॥
८४ लक्ष्मी स्तुति
ज्ञान सलिल धारावाहिनि ।
व्याकुलचित्त परिताप दूरिणि । स्थितिकर्ता गोविंद मनोल्लासिनि । क्षीरांबुधि राज नंदिनि तव नीराजनं । पंचशरजननि । दारिद्र्य ध्वंसिनि । कीरसंभाषिणि । त्रिभुवनैक मोहिनि । कांतिवर्धिनि । तव नीराजनं ॥ शुभांगि । वामांगि । कनकांगि । सरसांगि । कोमलांगि । तव नीराजनं ॥
८५ षण्मुख स्तुति
हे षण्मुख । सुरसैन्य नायक । भवतारक । कामितार्थप्रदायक । व्याधिवारक । आश्रित पावक । शोकमोह
पापनिवारक । उमा महेश्वर प्रियनंदन । मयूर वाहन । कारण जन्म धारण । वटु वेष धारण । वॡ देवसेना रमण । तारकासुर मर्दन । त्रिपुंड्र धारण । शरवण भवेति ख्यात । अग्नि संजात । संतानकामीपूजित । षट् कृत्तिका पालित षडानन रूपित । बाल सुब्रह्मण्येति नागराज रूपाराध्य कुमारस्वामी स्थापय ज्ञानदीपं ममहृदये ॥
८६ नारायण स्तुति
यस्मिन् विश्वमिदं दृश्यं । येनेदं विश्वमदृश्यं
येन गगनं व्याप्यति सर्वं
येन पवनः शोषयति सर्वं
येन पावकः दहति सर्वं
येन क्लेदयति सर्वमापः
येन सततं विश्वे भासयते सर्वं
तेन श्रीमन्नारायणेन विना
तव न जन्म न मृत्युर्नजीवनः
तस्मिन्नेव मनस्थापय
तस्मिन्नेव बुद्धिं निवेशय हे अल्पज्ञ ॥
८७ सरस्वती स्तुति
यां चतुर्वेदात्मकां । आहतानाहतनादात्मकां । ब्रह्मज्ञानात्मिकां । परापराविद्या पथप्रदर्शकां । यां जीव जीव धीप्रेरकां । ज्ञानार्जनोद्दीपकां । शोक भय शरधि तारकां । तरतमविवेचन दायकां । यां जीव संघर्षण शामकां । भावसंकर्षण चंद्रिकां । द्वेषविषाप हरां । समता सुधाकरां । तां चतुर्मुख ब्रह्म भर्तृकां तत्व निरूपकां
सुज्ञान विज्ञान संदीपिकां महासरस्वतीं दयावतीं प्रणमाम्यहं ॥
८८ लक्ष्मी स्तुति
अरुणांबरीं । हिरण्यवर्णांबरीं । अतिशयरूपलावण्यरत्नाकरीं । दुग्ध समुद्रेश कुमारीं । दुग्धसागर शयन मानस संचारीं । स्निग्धभाव तरंग विहारीं । देवदेवेश्वरीं । कथमाराध्य तृप्तोऽस्मि समस्त जीवा भयंकरीं । पापराशि निर्मूलनकरीं । सर्वाक्षयकारीं । भवदुःखदूरीकरीं । अष्टदारिद्र्य दुरित शमनकरीं । सर्वाक्षयकारीं । भवदुःखदूरीकरीं । अष्टदारिद्र्य दुरित शमनकरीं । कमलेश्वरीं । वैकुंठ धामेश्वरीं श्री महालक्ष्मीं कथमाराध्य तृप्तोस्मि ॥
८९ लक्ष्मी वंदनं
नळिनदळ लोचने । नळिनानने । नळिनासने । नळिनचरणे । नळिनहस्ते । नळिनहृदये । अरुणवस्त्रान्विते । श्रद्धाभक्ति निष्ठाप्रदाते । कृपया मामुद्धर । प्रेयोपथ संचालिनि । भोगभाग्य स्वरूप प्रबोधिनि । धर्मार्थकामदायिनि । चतुराश्रमपोषिणि । गोविंदरमणि ।
असतो मा सद्गमय
तमसो मा ज्योतिर्गमय
कृपया मामुद्धर
९० लक्ष्मी स्तुति
अपूर्व लावण्य पूर्णे । कांचनवर्णे ।
अन्नपूर्णे । दयापूर्णे । परिपूर्णೆ । केशवचरण सेवारति पूर्णे । कृपया पालय । दुग्दांबुधि समुद्रेशकुमारि । श्री मधुसूदन हृदयविहारि । चित्तक्षोभाहरि । प्रत्यक्ष वराभयकरि । समस्त संपत्प्रदानदुरंधरि । विश्वपालन पोषणकरि । वैकुंठाधीश्वरि । अष्टैश्वर्यरूपधरि त्वरया माम् समुद्धर ॥
९१ लक्ष्मीस्तव
जनार्दन स्वामि मनोरंजनि । ईप्सितप्रपूरिणि ।
विश्वैक संरक्षिणि । धनधान्य प्रवर्धिनि । जीवकुल पावनि । बहुविध नवरत्न भूषिणि । नाना विध संकट दूरिणि । जीव संस्कारकारिणि । शब्दस्पर्शरूपरसगंधभोगप्रसादिनि । पुण्यकार्योल्लास वर्धिनि । नित्योत्साहधृतिबलदायिनि । अवतु मां । जीवन संभ्रम मोद वीक्षणि । व्रतनिष्ठव्याधिहारिणि । गृहस्थाश्रम धर्म पालन बल संवर्धिनि । मनोन्मणि । कैवल्यपथगामीसंचालिनि । अवतु मां ॥
९२।श्री कृष्ण स्तुति
यशोदानंदनंदनं । देवकी तितिक्षा क्षमा वर्धनं । मुरळीवादन मोदप्रदानं । मोक्षप्रदानं । परमप्रियसखि राधारमणं । गोपिका वृंद संकर्षणं । कंसचाणूर मर्दनम् । यादव वंश पावनम् । कुब्जांगनोद्धरणं । अजामिळ स्मरण मंत्र तोषणं । संमोहक वदनं । मयूर पिंछालंकृत मोहनम् । चारु वसनाभरण धारिणम् । कौंतेय परिरक्षणं । धर्मरक्षणं । साधु संरक्षणं । असुर शिक्षणं । जगद्गुरुं नारायणं नमामि ॥
९३ लक्ष्मी ध्यानं
वैकुंठ निलयां । दयालयां । सद्भक्तसंभाव्यां ।
धनार्थि संपूज्यां । धर्मार्थि शुभोदयां । दीनसुखोदयां । मोक्षार्थि सुज्ञेयां । सुविषयार्थि नित्य ध्येयां । सुज्ञान शीलगेयां । शमदमसंपन्नप्रियां । नय विनय विधेयतादि सुगुणाश्रयां । अनुभव ज्ञानोदयां । रक्त विरक्त यात्रिक ध्येयां । नारायण हृदय कमलालयां । नित्यं आश्रयामि माधव चरणकमल कुसुमे ॥
९४ शिवस्तुति
सामगानलोलं । नर्तन शीलं । तपस्वी वत्सलं । त्रिशूलं । आबाल गोपपालं । ध्यात्वा धन्योऽस्मि ॥
कैलासाद्रीश्वरं । हिमाद्रिजाचित्तहतं । फणिहारं । नीलकंदरं । जटाजूटधरं । निशाकरशेखरं । गंगाधरं । गजचर्मांबरं । मन्मथप्राणहरं । महेश्वरं । शंकरं । विश्वलयकर्तारं । भक्तिशक्तिदातारं । दर्शयित्वा धन्योस्मि ॥
अक्षयं । अव्ययं । अजेयं । अमेयं । ऋषिमुनिध्येयं । तांडवप्रियं । नित्यांतर्मुखत्वप्रियं ।
लोकेश्वरं तपोगोचरं शंकरं नमस्कृत्वा भूयो भूयो धन्योऽस्मि ॥
९५ सरस्वती स्तुति
श्री सरस्वतीं । मयूरवाहिनीं । श्वेतवस्त्रान्वितां । श्वेतपद्मासनां । जपमाला पुस्तक हस्तां । गीतसुधानुतां । अभयां । अक्षयां । अहर्निशं उपास्महे ।
अव्ययां अजेयां अमेयां अप्रमेयां । अगोचर
पदार्थ नामरूपाकार रहस्य निलयां ब्रह्मस्वरूपानुसंधान ध्येयां गेयां अहर्निशं उपास्महे
९६ चंद्रशेखर स्तुति
चंद्रशेखर । समाधीश्वर । लययोगेश्वर । लयकर । गंगाधर । रजतशैलेंद्रजार्धनारीश्वर । नागेंद्रहार । विषकंधर । त्रिशूलधर । पंचबाणासुहर । परमेश्वर । त्वमेव म मगुरुः ममांतर्गुरुः । सुचित्रांबराभरणयुतं । प्रमथगणवेष्टितं । ऋषिमुनितपस्वीगणकीर्तितं । मयूरवाहन मूषकवाहनधीशक्तिसंमोदितं । रुद्रभूमिवासितं । तपोव्रतवरदातं । तांडवनृत्यनिरतं । डमरुनिनादरंजितं । अपराजितं । त्वमेव
ममगुरुर् ममांतर्गुरुः ॥
९७ षण्मुख स्तुति
हे षण्मुख । सुर सैन्य नायक । कामितप्रदायक । उमाचंद्रमौळिप्रियकारक । वॡदेवसेनसुखसंवर्धक । व्याधिनिवारक । तारकासुरसंहारक ।
मम वरदो भव ॥
मयूरवाहन । कारणजन्मधारण । वेलायुधधारण । कृतविश्वपर्यटन । वटुवेषधारण । त्रिपुंड्रभूषण । शरणागतावन । संतानप्रदान । ममवरदोभव ॥
शरवणभवेति संपूजित । अग्निसंजात । षट् कृत्तिकापालित । विनीतचित्तपूजित । बालसुब्रह्मण्य । विद्वत्पूर्ण । तेजोपूर्ण आत्मज्ञानपूर्ण मम वरदो भव सन्निहितो भव ॥
९८ महेश्वरस्तुति
समस्तभुवनस्य पितरं मातरं । सर्वशक्तिदातारं । कैलास शैलविहारं । त्रिशूलधरं । पापविदूरं । रिपुकुलसंहारं । कर्मचक्रधरं । नंदीभृंगी नाट्यमोदकरं । प्रारब्धकर्मशेषहरं । हरं । लयकरं । कुमारगुरुश्रीगणनाथपितरं । सुमशरहरं । अरिवीरभयंकरं । लिंगाकारं । निर्विकारं । भक्ताशुगोचरं । गंगाधरेश्वरं । अद्भुत तांडव नृत्यशेखरं । मनोबल प्रयच्छेति प्रार्थयामि ॥
९९ श्री लक्ष्मी स्तुति
नवरत्न किरीट कंकण केयूर धारिणी । सप्तवर्णमय नवनवाभूषण
विराजिनी । अरुणवस्त्रविराजिनी । हरिणी । मृगलोचनी । अब्धिजातभगिनी । सर्वमनोरथ
दायिनी । पूर्वकर्मपरिपाकजर्झरित संरक्षिणी । उपासक जन पावनी । प्राणसंरक्षक
शक्तिदायिनी । आराधक चिंतामणी । अवतुमां अंतस्सुखदायिनी ॥
क्षीर शरधि प्रभुनंदिनी । मनोन्मणीं । इक्षुचापजननी । सुरेंद्राग्निवरुणयमादि दिविजगण स्वामिनी । श्रीमन्नारायण चरणसेवारागिणी । श्रीधरवक्ष स्थल वासिनी । कमल पुष्पधारिणी । कमल लोचनी । कमलासन जननी । श्री महा लक्ष्मी अवतुमां अंतस्सुखदायिनी ॥
१०० श्री गणेश स्तुति
ओंकार नादानुरक्तं । महागण नायकं । सर्वाभीष्टप्रदायकं । सर्वकार्यारंभादिवंदितं । उमाशंकर सुखकारकं । गजकर्णकं । गजमुखं । गीतसुधाप्रियां । उपास्महे । स्मरामहे । भजामहे ॥
१०१ दक्षिणामूर्ति स्तोत्रं
आदिगुरु मूर्तिं त्रिमूर्तिं
धारण ध्यान समाधि मार्गे सद्गमयेति प्रार्थयामि ॥
चतुर्वेद मूर्तिं सामगानमूर्तिं
भक्ति ज्ञान वैराग्यभीप्से ज्योतिर्गमयेति आश्रयामि ॥
दक्षिणामूर्तिं वैराग्यमूर्तिं
सतताभ्यासरक्तचित्ते ज्ञेयं गमयेति तपस्यामि ॥
तपोमूर्तिं तांडवमूर्तिं स्थापयामि चिंतयामि
अहर्निशं भावयामि आराधयामि ॥
तं कृपामूर्तिं कारुण्यमूर्तिं हृदयराजीवे ध्यायामि ॥
१०२ वासविदेवी स्तुति
हे वासविदेवी! त्वमेव ब्रह्मदेवः
त्वमेव महादेवः
त्वमेव देवादिदेवः
संकल्पमात्रेण करोषि सर्वं ।
इच्छामात्रेण यच्छसि सर्वं ।
स्वल्पभक्ति मात्रेण प्रसादयसि चित्तं ।
सत्यासत्यविवेचनार्थं
मद् हृदये ज्ञानसाम्राज्यं स्थापय ।
धर्माधर्मभेद
ज्ञानार्थं
मयि धीद्युति स्वाराज्यं पालय ।
जडचेतन विभजनार्थं
नित्यानित्य तारतम्य ग्रहणार्थं
मयि त्यागसाम्राज्यं स्थापय हे निरामये
पालय पोषय हे यशोदये ।
कर्तृत्व भोक्तृत्वमोचनार्थं
विशेष सुगुणैश्वर्यं देहि देहि श्रीघ्रम् देहि महोदये ॥
१०३ गायत्री ध्यानं
ब्रह्म तेजो विवर्धिनि । ब्रह्मास्त्र रूपिणि ।
ब्रह्मलोकनिवासिनि ।
परब्रह्मरूपिणि ।
पंचभूतरूपिणि । पंचमुखि । त्रिलोचनि । पंचक्लेशहारिणि । प्रणतार्तिविनाशिनि ॥
ज्ञानरूपे वेदवाणि भारति शास्त्रसारमयि
विद्यारूपे पुण्यजननि सरस्वति निगमानुभवमयि
मूढत्व सुदूरिणि गूढपथ संचालिनी गाढतत्व
साक्षात्कारिणि धीप्रचोदिनि लौकिकप्रकाशदायिनि
अंतर्कांति प्रसारिणि गायत्रि सावित्रि त्वमेव समस्त विश्व प्रसवित्रि ॥
१०४ सरस्वती ध्यानं
या देवी श्रीशारदा पीठवासिनी ।
ज्ञान विज्ञान जननी ।
या देवी निखिल जगत्पावनी ।
अखिल ऋषि पुंगव प्रतिभोद्दीपिनी ।
या देवी दिव्यानुपमांतश्री प्रदायिनी ।
या परानाद स्वामिनी । गीतसुधावनी ।
या देवी योगशक्तिसंचालिनी । कुंडलिनी । सर्वाक्षरमालिनी । तां नमामि । ऐंकार जप प्रसादिनीं ।
लोकजननीं । श्री महासरस्वतीं । काया वाचा मनसा आश्रयामि
काया वाचा मनसा आराधयामि ॥
१०५ प्रणवध्यान
ओं ओं ओं परब्रह्मात्मकं । सर्व वस्तु वाचकं । सर्वयोगसाधक शक्तिदायकं । सर्वकर्म दोषनिवारकं । अभ्यासनैरंतर्य प्रेरकं । सर्वभाषाविज्ञानरूपकं । अकार उकार मकार मात्रात्मकं । विश्वस्पंदन कारकं । अनाहतनादात्मकं । परा पश्यंती मध्यमा वैखरी नादात्मकं । ओमित्येकाक्षरं । शब्द ब्रह्मेति भक्त्याजपेत् ।
ओमित्येकाक्षरं शब्दब्रह्मेति भूयो भूयो भक्त्या जपेत् ॥
१०६ काशी नगरेश्वरि अन्नपूर्णेश्वरि नित्यानंदकरि प्राणिकोटि जठराग्नि शमनकरि
प्राणिकोटि तेज स्थैर्य धैर्य वीर्य
सौंदर्यकरि गौरी कौमारी आत्मबलं देहिमे
हिमाचलवंश यशस्करि नवरत्नमय आभूषणधरि षड्रुचि पूर्णान्न सेवन मोदकरि
जीवसंतोषकर मातृहृदयधरि
योगोत्साह वर्धिनि राग पाश विमोचिनि
सूर्य चंद्र वह्नि सम तेजस्विनि
बलं देहिमे
आत्म बलं देहिमे
१०७ मधुसूदन स्तोत्रं
स्वयं भू मधुसूदन । स्वयंचालित जगत्सृष्टि कारण । अणुमहदंतर्चेतन । देहवाहन प्राणप्रदान । जीव जन्म ,शैशव, कौमार्य जराकारण,स्मरामि सदा ॥
आयुर्व्याधि मरण नियामक । धर्माधर्म संचय बल प्रदायक । कृतक वर्णरूप गुणकर्मवेष निर्णायक । नटन नाटक रंगाभिनय रंजक । जीवभाव हाव मर्म भेदक । चलन वलन मुद्रा भंगि विधिविधान निर्देशक साधकमनो नियंत्रक स्मरामि सदा ॥
परमपदसोपानारोहि रक्षक । समदर्शि साधु पोषक,त्रिकाल जीवकारुण्यपूर्ण नियंत्रक । क्षण क्षण भक्ताकर्षक जन्मजन्म जीव सख स्मरामि सदा ॥
१०८ मामवतुवीणापाणी सर्वदा
हे चारित्र्यशुद्धि रक्षिणी । त्रिगुण भेदज्ञ योगशक्तिदायिनी । अंतःकरण वृत्ति साफल्यदायिनी । बहुविध संस्कार जागरिणी । भाव पावित्र्य पालिनी । जाग्रत्स्वप्नेति सत्यप्रतिपादिनी । ज्ञानस्वरूपिणी । ज्ञेयस्वरूपिणी मामवतु सदा ॥
परंधामनिवासिनी । साधक संजीविनी साधक चिंतामणी । भक्तहृदयांतर् स्पर्शमणी ।
आत्यंतिक सुखस्वरूपिणी । जीव विमोचिनी । मुक्ति प्रदायिनी । मामवतु सदा ॥
दृश्यजगपावनी, सर्वपरमाणु तरंगिणी प्रतिस्पंदन शोधिनी । प्रतिभावोद्दीपिनी । प्रति विचार प्रकाशिनि, अनुभवपाक साक्षिणी । नवनवलोक विहारिणी नवरसानुभवदायिनी मामवतु सदा
हे गीर्वाणी वीणापाणी सत्यलोकवासिनी चतुर्मुखब्रह्म
भामिनी कांतिवलय प्रसारिणी नव नवोन्मेष शालिनी निर्वैरत्वमहिमावैभव प्रदर्शिनी । जननी मामवतु सर्वदा ॥
इति सर्वदेवदेव्यष्टोत्तरशतनमनमुक्ताञ्जलिः समाप्ता ।
सोशल मीडिया पर शेयर करें:
सहेजें एवं डाउनलोड करें (Save & Export):