अक्षर आकार:

श्रीसरस्वत्यष्टोत्तरशतनामावलिः ३

Shri SarasvatyashtottarashatanamavaliH 3

श्रीसरस्वत्यष्टोत्तरशतनामावलिः ३

चतुर्भुजां महादेवीं वाणीं सर्वाङ्गसुन्दरीम् । श्वेतमाल्याम्बरधरां श्वेतगन्धानुलेपनाम् ॥ प्रणवासनमारूढां तदर्थत्वेन निश्चिताम् । सितेन दर्पणाभेण वस्त्रेणोपरिभूषीताम् । शब्दब्रह्मात्मिकां देवीं शरच्चन्द्रनिभाननाम् ॥ अङ्कुशं चाक्षसूत्रं च पाशं वीणां च धारिणीम् । मुक्ताहारसमायुकां देवीं ध्यायेत् चतुर्भुजाम् ॥ ॐ वाग्देव्यै नमः । ॐ शारदायै नमः । ॐ मायायै नमः । ॐ नादरूपिण्यै नमः । ॐ यशस्विन्यै नमः । ॐ स्वाधीनवल्लभायै नमः । ॐ हाहाहूहूमुखस्तुत्यायै नमः । ॐ सर्वविद्याप्रदायिन्यै नमः । ॐ रञ्जिन्यै नमः । ॐ स्वस्तिकासनायै नमः । १० ॐ अज्ञानध्वान्तचन्द्रिकायै नमः । ॐ अधिविद्यादायिन्यै नमः । ॐ कम्बुकण्ठ्यै नमः । ॐ वीणागानप्रियायै नमः । ॐ शरणागतवत्सलायै नमः । ॐ श्रीसरस्वत्यै नमः । ॐ नीलकुन्दलायै नमः । ॐ वाण्यै नमः । ॐ सर्वपूज्यायै नमः । ॐ कृतकृत्यायै नमः । २० ॐ तत्त्वमय्यै नमः । ॐ नारदादिमुनिस्तुतायै नमः । ॐ राकेन्दुवदनायै नमः । ॐ यन्त्रात्मिकायै नमः । ॐ नलिनहस्तायै नमः । ॐ प्रियवादिन्यै नमः । ॐ जिह्वासिद्ध्यै नमः । ॐ हंसवाहिन्यै नमः । ॐ भक्तमनोहरायै नमः । ॐ दुर्गायै नमः । ३० ॐ कल्याण्यै नमः । ॐ चतुर्मुखप्रियायै नमः । ॐ ब्राह्म्यै नमः । ॐ भारत्यै नमः । ॐ अक्षरात्मिकायै नमः । ॐ अज्ञानध्वान्तदीपिकायै नमः । ॐ बालारूपिण्यै नमः । ॐ देव्यै नमः । ॐ लीलाशुकप्रियायै नमः । ॐ दुकूलवसनधारिण्यै नमः । ४० ॐ क्षीराब्धितनयायै नमः । ॐ मत्तमातङ्गगामिन्यै नमः । ॐ वीणागानविलोलुपायै नमः । ॐ पद्महस्तायै नमः । ॐ रणत्किङ्किणिमेखलायै नमः । ॐ त्रिलोचनायै नमः । ॐ अङ्कुशाक्षसूत्रधारिण्यै नमः । ॐ मुक्ताहारविभूषितायै नमः । ॐ मुक्तामण्यङ्कितचारुनासायै नमः । ॐ रत्नवलयभूषितायै नमः । ५० ॐ कोटिसूर्यप्रकाशिन्यै नमः । ॐ विधिमानसहंसिकायै नमः । ॐ साधुरूपिण्यै नमः । ॐ सर्वशास्त्रार्थवादिन्यै नमः । ॐ सहस्रदलमध्यस्थायै नमः । ॐ सर्वतोमुख्यै नमः । ॐ सर्वचैतन्यरूपिण्यै नमः । ॐ सत्यज्ञानप्रबोधिन्यै नमः । ॐ विप्रवाक्स्वरूपिण्यै नमः । ॐ वासवार्चितायै नमः । ६० ॐ शुभ्रवस्त्रोत्तरीयायै नमः । ॐ विरिञ्चिपत्न्यै नमः । ॐ तुषारकिरणाभायै नमः । ॐ भावाभावविवर्जितायै नमः । ॐ वदनाम्बुजैकनिलयायै नमः । ॐ मुक्तिरूपिण्यै नमः । ॐ गजारूढायै नमः । ॐ वेदनुताय नमः । ॐ सर्वलोकसुपूजितायै नमः । ॐ भाषारूपायै नमः । ७० ॐ भक्तिदायिन्यै नमः । ॐ मीनलोचनायै नमः । ॐ सर्वशक्तिसमन्वितायै नमः । ॐ अतिमृदुलपदाम्बुजायै नमः । ॐ विद्याधर्यै नमः । ॐ जगन्मोहिन्यै नमः । ॐ रमायै नमः । ॐ हरिप्रियायै नमः । ॐ विमलायै नमः । ॐ पुस्तकभृते नमः । ८० ॐ नारायण्यै नमः । ॐ मङ्गलप्रदायै नमः । ॐ अश्वलक्ष्म्यै नमः । ॐ धान्यलक्ष्म्यै नमः । ॐ राजलक्ष्म्यै नमः । ॐ गजलक्ष्म्यै नमः । ॐ मोक्षलक्ष्म्यै नमः । ॐ सन्तानलक्ष्म्यै नमः । ॐ जयलक्ष्म्यै नमः । ॐ खड्गलक्ष्म्यै नमः । ९० ॐ कारुण्यलक्ष्म्यै नमः । ॐ सौम्यलक्ष्म्यै नमः । ॐ भद्रकाल्यै नमः । ॐ चण्डिकायै नमः । ॐ शाम्भव्यै नमः । ॐ सिंहवाहिन्यै नमः । ॐ सुभद्रायै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ अष्टैश्वर्यप्रदायिन्यै नमः । ॐ हिमवत्पुत्रिकायै नमः । १०० ॐ महाराज्ञै नमः । ॐ त्रिपुरसुन्दर्यै नमः । ॐ पाशाङ्कुशधारिण्यै नमः । ॐ श्वेतपद्मासनायै नमः । ॐ चाम्पेयकुसुमप्रियायै नमः । ॐ वनदुर्गायै नमः । ॐ राजराजेश्वर्यै नमः । ॐ श्रीदुर्गालक्ष्मीसहित- महासरस्वत्यै नमः । १०८ इति श्रीसरस्वत्यष्टोत्तरनामावलिः समाप्ता ।