अक्षर आकार:

श्रीसरस्वत्यष्टोत्तरशतनामावलिः २

Shri SarasvatyashtottarashatanamavaliH 2

श्रीसरस्वत्यष्टोत्तरशतनामावलिः २

ॐ अस्यश्री मातृकासरस्वती महामन्त्रस्य शब्द ऋषिः लिपिगायत्री छन्दः श्री मातृका सरस्वती देवता ॥ ध्यानम् पञ्चाषद्वर्णभेदैर्विहितवदनदोष्पादहृत्कुक्षिवक्षो- देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् । अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्थां अच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि ॥ मन्त्रः - अं आं इं ईं ....... ळं क्षं अथ नामावलिः । ॐ सरस्वत्यै नमः । ॐ भगवत्यै नमः । ॐ कुरुक्षेत्रवासिन्यै नमः । ॐ अवन्तिकायै नमः । ॐ काश्यै नमः । ॐ मधुरायै नमः । ॐ स्वरमयायै नमः । ॐ अयोध्यायै नमः । ॐ द्वारकायै नमः । ॐ त्रिमेधायै नमः । १० ॐ कोशस्थायै नमः । ॐ कोशवासिन्यै नमः । ॐ कौशिक्यै नमः । ॐ शुभवार्तायै नमः । ॐ कौशाम्बरायै नमः । ॐ कोशवर्धिन्यै नमः । ॐ पद्मकोशायै नमः । ॐ कुसुमावासायै नमः । ॐ कुसुमप्रियायै नमः । ॐ तरलायै नमः । २० ॐ वर्तुलायै नमः । ॐ कोटिरूपायै नमः । ॐ कोटिस्थायै नमः । ॐ कोराश्रयायै नमः । ॐ स्वायम्भव्यै नमः । ॐ सुरूपायै नमः । ॐ स्मृतिरूपायै नमः । ॐ रूपवर्धनायै नमः । ॐ तेजस्विन्यै नमः । ॐ सुभिक्षायै नमः । ३० ॐ बलायै नमः । ॐ बलदायिन्यै नमः । ॐ महाकौशिक्यै नमः । ॐ महागर्तायै नमः । ॐ बुद्धिदायै नमः । ॐ सदात्मिकायै नमः । ॐ महाग्रहहरायै नमः । ॐ सौम्यायै नमः । ॐ विशोकायै नमः । ॐ शोकनाशिन्यै नमः । ४० ॐ सात्विकायै नमः । ॐ सत्यसंस्थापनायै नमः । ॐ राजस्यै नमः । ॐ रजोवृतायै नमः । ॐ तामस्यै नमः । ॐ तमोयुक्तायै नमः । ॐ गुणत्रयविभागिन्यै नमः । ॐ अव्यक्तायै नमः । ॐ व्यक्तरूपायै नमः । ॐ वेदवेद्यायै नमः । ५० ॐ शाम्भव्यै नमः । ॐ कालरूपिण्यै नमः । ॐ शङ्करकल्पायै नमः । ॐ महासङ्कल्पसन्तत्यै नमः । ॐ सर्वलोकमया शक्त्यै नमः । ॐ सर्वश्रवणगोचरायै नमः । ॐ सार्वज्ञवत्यै नमः । ॐ वाञ्छितफलदायिन्यै नमः । ॐ सर्वतत्वप्रबोधिन्यै नमः । ॐ जाग्रतायै नमः । ६० ॐ सुषुप्तायै नमः । ॐ स्वप्नावस्थायै नमः । ॐ चतुर्युगायै नमः । ॐ चत्वरायै नमः । ॐ मन्दायै नमः । ॐ मन्दगत्यै नमः । ॐ मदिरामोदमोदिन्यै नमः । ॐ पानप्रियायै नमः । ॐ पानपात्रधरायै नमः । ॐ पानदानकरोद्यतायै नमः । ७० ॐ विद्युद्वर्णायै नमः । ॐ अरुणनेत्रायै नमः । ॐ किञ्चिद्व्यक्तभाषिण्यै नमः । ॐ आशापूरिण्यै नमः । ॐ दीक्षायै नमः । ॐ दक्षायै नमः । ॐ जनपूजितायै नमः । ॐ नागवल्ल्यै नमः । ॐ नागकर्णिकायै नमः । ॐ भगिन्यै नमः । ८० ॐ भोगिन्यै नमः । ॐ भोगवल्लभायै नमः । ॐ सर्वशास्त्रमयायै नमः । ॐ विद्यायै नमः । ॐ स्मृत्यै नमः । ॐ धर्मवादिन्यै नमः । ॐ श्रुतिस्मृतिधरायै नमः । ॐ ज्येष्ठायै नमः । ॐ श्रेष्ठायै नमः । ॐ पातालवासिन्यै नमः । ९० ॐ मीमाम्सायै नमः । ॐ तर्कविद्यायै नमः । ॐ सुभक्त्यै नमः । ॐ भक्तवत्सलायै नमः । ॐ सुनाभायै नमः । ॐ यातनालिप्त्यै नमः । ॐ गम्भीरभारवर्जितायै नमः । ॐ नागपाशधरायै नमः । ॐ सुमूर्त्यै नमः । ॐ अगाधायै नमः । १०० ॐ नागकुण्डलायै नमः । ॐ सुचक्रायै नमः । ॐ चक्रमध्यस्थितायै नमः । ॐ चक्रकोणनिवासिन्यै नमः । ॐ जलदेवतायै नमः । ॐ महामार्यै नमः । ॐ भारत्यै नमः । ॐ श्री सरस्वत्यै नमः । १०८ ॥ॐ॥