अक्षर आकार:

श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्

sarasvatIstotram bRihaspativirachitaM

श्रीसरस्वतीस्तोत्रं बृहस्पतिविरचितम्

श्रीगणेशाय नमः । बृहस्पतिरुवाच सरस्वति नमस्यामि चेतनां हृदि संस्थिताम् । कण्ठस्थां पद्मयोनिं त्वां ह्रीङ्कारां सुप्रियां सदा ॥ १॥ मतिदां वरदां चैव सर्वकामफलप्रदाम् । केशवस्य प्रियां देवीं वीणाहस्तां वरप्रदाम् ॥ २॥ मन्त्रप्रियां सदा हृद्यां कुमतिध्वंसकारिणीम् । स्वप्रकाशां निरालम्बामज्ञानतिमिरापहाम् ॥ ३॥ मोक्षप्रियां शुभां नित्यां सुभगां शोभनप्रियाम् । पद्मोपविष्टां कुण्डलिनीं शुक्लवस्त्रां मनोहराम् ॥ ४॥ आदित्यमण्डले लीनां प्रणमामि जनप्रियाम् । ज्ञानाकारां जगद्द्वीपां भक्तविघ्नविनाशिनीम् ॥ ५॥ इति सत्यं स्तुता देवी वागीशेन महात्मना । आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ६॥ श्रीसरस्वत्युवाच वरं वृणीष्व भद्रं त्वं यत्ते मनसि वर्तते । बृहस्पतिरुवाच प्रसन्ना यदि मे देवि परं ज्ञानं प्रयच्छ मे ॥ ७॥ श्रीसरस्वत्युवाच दत्तं ती निर्मलं ज्ञानं कुमतिध्वंसकारकम् । स्तोत्रेणानेन मां भक्त्या ये स्तुवन्ति सदा नराः ॥ ८॥ लभन्ते परमं ज्ञानं मम तुल्यपराक्रमाः । कवित्वं मत्प्रसादेन प्राप्नुवन्ति मनोगतम् ॥ ९॥ त्रिसन्ध्यं प्रयतो भूत्वा यस्त्विमं पठते नरः । तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ १०॥ ॥ इति श्रीरुद्रयामले श्रीबृहस्पतिविरचितं सरस्वतीस्तोत्रम् सम्पूर्णम् ॥