अक्षर आकार:

श्रीसरस्वतीस्तोत्रम्

shrISarasvatistotra

श्रीसरस्वतीस्तोत्रम्

रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम् मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम् ॥ १॥ शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम् । बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम् ॥ २॥ कनकाब्जविभूषितभूतिभवं भवभावविभावितभिन्नपदम् । प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम् ॥ ३॥ भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम् । विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम् ॥ ४॥ मतिहीनजनाश्रयपारमिदं सकलागमभाषितभिन्नपदम् । परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम् ॥ ५॥ परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम् । सुरयोषितसेवितपादतलं तव नौमि सरस्वति पादयुगम् ॥ ६॥ सुरमौलिमणिद्युतिशुभ्रकरं विषयादिमहाभयवर्णहरम् । निजकान्तिविलोमितचन्द्रशिवं तव नौमि सरस्वति पादयुगम् ॥ ७॥ गुणनैककुलं स्थितिभीतिपदं गुणगौरवगर्वितसत्यपदम् । कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगम् ॥ ८॥ इदं स्तवं महापुण्यं ब्रह्मणा च प्रकीर्तितम् । यः पठेत् प्रातरुत्थाय तस्य कण्ठे सरस्वती ॥ P R Ramurthy, Sunder Hattangadi The meter is jagatI group (12 syllables in each pAda) subtype vaMshastha. The last shloka is in anuShTup meter.