अक्षर आकार:

श्रीमहासरस्वतीसहस्रनामस्तोत्रम्

shrI mahAsarasvatI sahasranAma stotram

श्रीमहासरस्वतीसहस्रनामस्तोत्रम्

॥ श्री महासरस्वती सहस्रनाम स्तोत्रम् ॥ ध्यानम् श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना । सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥ श्रीनारद उवाच - भगवन्परमेशान सर्वलोकैकनायक । कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः ॥ २॥ कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम् । एतन्मे वद तत्वेन महायोगीश्वरप्रभो ॥ ३॥ श्रीसनत्कुमार उवाच - साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्य मनुत्तमम् । भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते ॥ ४॥ पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम् । निर्विकारं निराभासं स्तंभीभूतमचेतसम् ॥ ५॥ सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम् । आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः ॥ ६॥ दिव्यवर्षायुतं तेन तपो दुष्कर मुत्तमम् । ततः कदाचित्संजाता वाणी सर्वार्थशोभिता ॥ ७॥ अहमस्मि महाविद्या सर्ववाचामधीश्वरी । मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम् ॥ ८॥ अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम् । त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति ॥ ९॥ इदं रहस्यं परमं मम नामसहस्रकम् । सर्वपापौघशमनं महासारस्वतप्रदम् ॥ १०॥ महाकवित्वदं लोके वागीशत्वप्रदायकम् । त्वं वा परः पुमान्यस्तुस्तवेनानेन तोषयेत् ॥ ११॥ तस्याहं किंकरी साक्षाद्भविष्यामि न संशयः । इत्युक्त्वान्तर्दधे वाणी तदारभ्य पितामहः ॥ १२॥ स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान् । वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने ॥ १३॥ तत्तेहं संप्रवक्ष्यामि श‍ृणु यत्नेन नारद । सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः ॥ १४॥ वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा । वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा ॥ १॥ विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी । वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी ॥ २॥ वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी । विश्वाराध्या विश्वमाता विश्वधात्री विनायका ॥ ३॥ विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी । वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका ॥ ४॥ वेदज्ञा वेदजननी विश्वा विश्वविभावरी । वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी ॥ ५॥ विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका । व्याळघ्नी व्याळभूषांगी विरजा वेदनायिका ॥ ६॥ वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी । विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया ॥ ७॥ वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता । वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा ॥ ८॥ गौरी गुणवती गोप्या गन्धर्वनगरप्रिया । गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया ॥ ९॥ गिरिविद्या गानतुष्टा गायकप्रियकारिणी । गायत्री गिरिशाराध्या गीर्गिरीशप्रियंकरी ॥ १०॥ गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी । गीर्माता गणसंस्तुत्या गणनीयगुणान्विता ॥ ११॥ गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका । गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी ॥ १२॥ गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला । गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी ॥ १३॥ गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता । गरुडासनसंसेव्या गोमती गुणशालिनी ॥ १४॥ शारदा शाश्वती शैवी शांकरी शंकरात्मिका । श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना ॥ १५॥ शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी । शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया ॥ १६॥ शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी । शिवा शिवंकरी शुद्धा शिवाराध्या शिवात्मिका ॥ १७॥ श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा । शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियंकरी ॥ १८॥ शीललभ्या शीलवती श्रीमाता शुभकारिणी । शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता ॥ १९॥ श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा । शिवेतरघ्नी शबरी श्रवणीयगुणान्विता ॥ २०॥ शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका । शमान्विता शमाराध्या शितिकण्ठप्रपूजिता ॥ २१॥ शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा । सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी ॥ २२॥ सरस्वती च सावित्री संध्या सर्वेप्सितप्रदा । सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी ॥ २३॥ सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी । सर्वाराध्या सर्वमाता सर्वदेवनिषेविता ॥ २४॥ सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया । स्वरक्रमपदाकारा सर्वदोषनिषूदिनी ॥ २५॥ सहस्राक्षी सहस्रास्या सहस्रपदसंयुता । सहस्रहस्ता साहस्रगुणालंकृतविग्रहा ॥ २६॥ सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी । षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता ॥ २७॥ स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी । संशयच्छेदिनी सांख्यवेद्या संख्या सदीश्वरी ॥ २८॥ सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी । सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी ॥ २९॥ सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी । सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा ॥ ३०॥ सर्वप्रियंकरी सर्वशुभदा सर्वमङ्गळा । सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा ॥ ३१॥ सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा । सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गळा ॥ ३२॥ सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता । सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका ॥ ३३॥ सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा । सुप्रभा सर्वदा सर्वा सर्वलोकवशंकरी ॥ ३४॥ सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका । सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी ॥ ३५॥ सुरूपिणी सुखमयी सेवकप्रियकारिणी । स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका ॥ ३६॥ साररूपा सरोरूपा सत्यभूता समाश्रया । सितासिता सरोजाक्षी सरोजासनवल्लभा ॥ ३७॥ सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता । महादेवी महेशानी महासारस्वतप्रदा ॥ ३८॥ महासरस्वती मुक्ता मुक्तिदा मलनाशिनी । महेश्वरी महानन्दा महामन्त्रमयी मही ॥ ३९॥ महालक्ष्मीर्महाविद्या माता मन्दरवासिनी । मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा ॥ ४०॥ महामुक्तिर्महानित्या महासिद्धिप्रदायिनी । महासिद्धा महामाता महदाकारसंयुता ॥ ४१॥ महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा । मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी ॥ ४२॥ मदिराक्षी मदावासा मखरूपा मखेश्वरी । महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता ॥ ४३॥ महापुण्या मुदावासा महासम्पत्प्रदायिनी । मणिपूरैकनिलया मधुरूपा महोत्कटा ॥ ४४॥ महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी । मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया ॥ ४५॥ मा महादेवसंस्तुत्या महिषीगणपूजिता । मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी ॥ ४६॥ मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी । मुख्या महानिवासा च महाभाग्यजनाश्रिता ॥ ४७॥ महिळा महिमा मृत्युहारी मेधाप्रदायिनी । मेध्या महावेगवती महामोक्षफलप्रदा ॥ ४८॥ महाप्रभाभा महती महादेवप्रियंकरी । महापोषा महर्द्धिश्च मुक्ताहारविभूषणा ॥ ४९॥ माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा । मनोरूपा मनःशुद्धिः मनःशुद्धिप्रदायिनी ॥ ५०॥ महाकारुण्यसम्पूर्णा मनोनमनवन्दिता । महापातकजालघ्नी मुक्तिदा मुक्तभूषणा ॥ ५१॥ मनोन्मनी महास्थूला महाक्रतुफलप्रदा । महापुण्यफलप्राप्या मायात्रिपुरनाशिनी ॥ ५२॥ महानसा महामेधा महामोदा महेश्वरी । मालाधरी महोपाया महातीर्थफलप्रदा ॥ ५३॥ महामङ्गळसम्पूर्णा महादारिद्र्यनाशिनी । महामखा महामेघा महाकाळी महाप्रिया ॥ ५४॥ महाभूषा महादेहा महाराज्ञी मुदालया । भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी ॥ ५५॥ भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका । भूतधात्री भयहरी भक्तसारस्वतप्रदा ॥ ५६॥ भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी । भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा ॥ ५७॥ भागीरथी भवाराध्या भाग्यासज्जनपूजिता । भवस्तुत्या भानुमती भवसागरतारणी ॥ ५८॥ भूतिर्भूषा च भूतेशी फाललोचनपूजिता । भूता भव्या भविष्या च भवविद्या भवात्मिका ॥ ५९॥ बाधापहारिणी बन्धुरूपा भुवनपूजिता । भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा ॥ ६०॥ भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा । भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी ॥ ६१॥ भाविनी भ्रातृरूपा च भारती भवनायिका । भाषा भाषावती भीष्मा भैरवी भैरवप्रिया ॥ ६२॥ भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका । भास्वती भगमाला च भिक्षादानकृतोद्यमा ॥ ६३॥ भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी । भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी ॥ ६४॥ भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा । भोगवती भोगरूपा भोगमोक्षफलप्रदा ॥ ६५॥ भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी । ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा ॥ ६६॥ ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी । ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया ॥ ६७॥ बालेन्दुशेखरा बाला बलिपूजाकरप्रिया । बलदा बिन्दुरूपा च बालसूर्यसमप्रभा ॥ ६८॥ ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा । ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी ॥ ६९॥ बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी । बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता ॥ ७०॥ बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी । बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी ॥ ७१॥ ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा । ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता ॥ ७२॥ बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी । अक्षमालाक्षराकाराक्षराक्षरफलप्रदा ॥ ७३॥ अनन्तानन्दसुखदानन्तचन्द्रनिभानना । अनन्तमहिमाघोरानन्तगम्भीरसम्मिता ॥ ७४॥ अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदा । अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुता ॥ ७५॥ अनेकभूषणादृश्यानेकलेखनिषेविता । अनन्तानन्तसुखदाघोराघोरस्वरूपिणी ॥ ७६॥ अशेषदेवतारूपामृतरूपामृतेश्वरी । अनवद्यानेकहस्तानेकमाणिक्यभूषणा ॥ ७७॥ अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता । अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी ॥ ७८॥ अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा । अकळंकारूपिणी च ह्यनुग्रहपरायणा ॥ ७९॥ अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणा । अम्बिकाब्जकराब्जस्थांशुमत्यंशुशतान्विता ॥ ८०॥ अम्बुजानवराखण्डाम्बुजासनमहाप्रिया । अजरामरसंसेव्याजरसेवितपद्युगा ॥ ८१॥ अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्विता । अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदा ॥ ८२॥ अम्बुजाक्ष्यम्बुरूपाम्बुजातोद्भवमहाप्रिया । अखण्डात्वमरस्तुत्यामरनायकपूजिता ॥ ८३॥ अजेयात्वजसंकाशाज्ञाननाशिन्यभीष्टदा । अक्ताघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा ॥ ८४॥ अनन्तसारानन्तश्रीरनन्तविधिपूजिता । अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता ॥ ८५॥ आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवती तथा । अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनी ॥ ८६॥ अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिका । अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदा ॥ ८७॥ जया जयन्ती जयदा जन्मकर्मविवर्जिता । जगत्प्रिया जगन्माता जगदीश्वरवल्लभा ॥ ८८॥ जातिर्जया जितामित्रा जप्या जपनकारिणी । जीवनी जीवनिलया जीवाख्या जीवधारिणी ॥ ८९॥ जाह्नवी ज्या जपवती जातिरूपा जयप्रदा । जनार्दनप्रियकरी जोषनीया जगत्स्थिता ॥ ९०॥ जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी । जीवातुलतिका जीवजन्मी जन्मनिबर्हणी ॥ ९१॥ जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका । जगदानन्दजननी जम्बूश्च जलजेक्षणा ॥ ९२॥ जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा । जटा जटावती जप्या जपकर्तृप्रियंकरी ॥ ९३॥ जपकृत्पापसंहर्त्री जपकृत्फलदायिनी । जपापुष्पसमप्रख्या जपाकुसुमधारिणी ॥ ९४॥ जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी । जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा ॥ ९५॥ जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी । जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी ॥ ९६॥ जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका । जयलक्षणसम्पूर्णा जयदानकृतोद्यमा ॥ ९७॥ जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी । जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशंकरी ॥ ९८॥ जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना । ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका ॥ ९९॥ जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया । जरामरणशून्या च जनित्री जन्मनाशिनी ॥ १००॥ जलजाभा जलमयी जलजासनवल्लभा । जलजस्था जपाराध्या जनमङ्गळकारिणी ॥ १०१॥ कामिनी कामरूपा च काम्या कामप्रदायिनी । कमौळी कामदा कर्त्री क्रतुकर्मफलप्रदा ॥ १०२॥ कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी । कञ्जाक्षी करुणारूपा केवलामरसेविता ॥ १०३॥ कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी । कमला कमलावासा कमलोत्पलमालिनी ॥ १०४॥ कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा । कामेश्वरी कमलिनी कामदा कामबन्धिनी ॥ १०५॥ कामधेनुः काञ्चनाक्षी काञ्चनाभा कळानिधिः । क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी ॥ १०६॥ क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी । क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी ॥ १०७॥ कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना । कन्दर्पजननी कान्ता करुणा करुणावती ॥ १०८॥ क्लींकारिणी कृपाकारा कृपासिन्धुः कृपावती । करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी ॥ १०९॥ क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी । कळा कळावती कूर्मी कूटस्था कञ्जसंस्थिता ॥ ११०॥ काळिका कल्मषघ्नी च कमनीयजटान्विता । करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा ॥ १११॥ कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा । कूर्मयाना कल्पलता कालकूटविनाशिनी ॥ ११२॥ कल्पोद्यानवती कल्पवनस्था कल्पकारिणी । कदम्बकुसुमाभासा कदम्बकुसुमप्रिया ॥ ११३॥ कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा । कुलमाता कुलावासा कुलाचारप्रियंकरी ॥ ११४॥ कुलानाथा कामकळा कळानाथा कळेश्वरी । कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका ॥ ११५॥ कवित्वदा काव्यमाता कविमाता कळाप्रदा । तरुणी तरुणीताता ताराधिपसमानना ॥ ११६॥ तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा । तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी ॥ ११७॥ त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी । त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका ॥ ११८॥ त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी । त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी ॥ ११९॥ तमालसदृशी त्राता तरुणादित्यसन्निभा । त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्वरूपिणी ॥ १२०॥ तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी । त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता ॥ १२१॥ तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी । तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी ॥ १२२॥ त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता । तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी ॥ १२३॥ तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता । त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा ॥ १२४॥ तेजस्विनी तापहारी तापोपप्लवनाशिनी । तेजोगर्भा तपःसारा त्रिपुरारिप्रियंकरी ॥ १२५॥ तन्वी तापससंतुष्टा तपनाङ्गजभीतिनुत् । त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता ॥ १२६॥ त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी । शुभा शुभावती शान्ता शान्तिदा शुभदायिनी ॥ १२७॥ शीतळा शूलिनी शीता श्रीमती च शुभान्विता । योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता ॥ १२८॥ यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा । यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता ॥ १२९॥ यामिनीयप्रभा याम्या यजनीया यशस्करी । यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता ॥ १३०॥ यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता । यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी ॥ १३१॥ योगिनी योगरूपा च योगकर्तृप्रियंकरी । योगयुक्ता योगमयी योगयोगीश्वराम्बिका ॥ १३२॥ योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता । यन्त्रिताघौघसंहारा यमलोकनिवारिणी ॥ १३३॥ यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक् । योगीश्वरी योगमाता योगसिद्धा च योगदा ॥ १३४॥ योगारूढा योगमयी योगरूपा यवीयसी । यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता ॥ १३५॥ युगकर्त्री युगमयी युगधर्मविवर्जिता । यमुना यमिनी याम्या यमुनाजलमध्यगा ॥ १३६॥ यातायातप्रशमनी यातनानान्निकृन्तनी । योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी ॥ १३७॥ योगक्षेममयी यन्त्रा यावदक्षरमातृका । यावत्पदमयी यावच्छब्दरूपा यथेश्वरी ॥ १३८॥ यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता । यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता ॥ १३९॥ योगिहृत्पद्मनिलया योगिवर्यप्रियंकरी । योगिवन्द्या योगिमाता योगीशफलदायिनी ॥ १४०॥ यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता । यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी ॥ १४१॥ यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियंकरी । यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा ॥ १४२॥ यजनीया यमस्तुत्या योगयुक्ता यशस्करी । योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी ॥ १४३॥ योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी । योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी ॥ १४४॥ इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम् । मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम् ॥ १॥ यः पठेच्छृणुयाद्भक्त्या त्रिकालं साधकः पुमान् । सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम् ॥ २॥ लभते संपदः सर्वाः पुत्रपौत्रादिसंयुताः । मूकोपि सर्वविद्यासु चतुर्मुख इवापरः ॥ ३॥ भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर । सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम् ॥ ४॥ महाकवित्वदं पुंसां महासिद्धिप्रदायकम् । कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि ॥ ५॥ महारहस्यं सततं वाणीनामसहस्रकम् । सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम् ॥ ६॥ ॥ इति श्रीस्कान्दपुराणान्तर्गत सनत्कुमार संहितायां नारद सनत्कुमार संवादे सरस्वतीसहस्रनामस्तोत्रम् सम्पूर्णम् ॥