अक्षर आकार:

श्रीसरस्वतीगीतिः

shrIsarasvatIgItiH

श्रीसरस्वतीगीतिः

श्री गणेशाय नमः । एहि लसत्सितशतदलवासिनि भारति मामकमास्यम् । देहि च मे त्वदमरनिकरार्चितपादतले निजदास्यम् ॥ ध्रुवम् ॥ ॥ १॥ जगदघहारिणि मधुरिपुजाये हिमगिरिजित्वरसिततमकाये । श्रुतिततिसंस्कृतपदकमलादृतमिह भुवि नान्यदुपास्यम् । भारति मामकमास्यम् ॥ २॥ जडतरजीवनमहह मदीयं श्रुतिविरहान्न हि नृषु गणनीयम् । निरवधि कृपां कुरुष्व दयामयि व्यपगच्छेन्मम दास्यम् । भारति मामकमास्यम् ॥ ३॥ विकसितनीलजलजकुलवासे विहितबृहस्पतिसमनिजदासे । जननि कृशोदरि मम रसनोपरि विरचय शाश्वतहास्यम् । भारति मामकमास्यम् ॥ ४॥ भवमुखभावितभवदवदानं रचयतु मानसमविरतगानम् । निपततु ते मयि दृगयि दयामयि किमपरमात्मजभाष्यम् । भारति मामकमास्यम् ॥ ५॥ ॥ इति श्रीसरस्वतीगीतिः सम्पूर्णम् ॥