अक्षर आकार:

सरस्वतीस्तुतिः ३

Sarasvati Stuti 3

सरस्वतीस्तुतिः ३

ॐ सितवर्णालङ्कारे सरस्वति समस्तवाङ्मयाधारे ! । कमलजमानसवरटे मृगाङ्कधवले नमस्तुभ्यम् ॥ १॥ धन्यः स एव लोके स एव पूज्यः स एव सर्वगुरुः । यस्य मुखकमलकोशे वाङ्मया कुलदेवते वससि ॥ २॥ कस्त्वां विना विवेकी विवेकविकलस्य निष्फलं जन्म । तस्माद्भारति भविनां त्वमेव हेतुर्विवेकेऽपि ॥ ३॥ लक्ष्मीवानपि पुरुषः शूरः सुभगोऽपि कामसमरूपः । वृष इव विबुधसभायां प्रतिभात्यमले त्वया रहितः ॥ ४॥ मुनिमनुजमाननीयो मातर्मूर्खोऽपि मानवो दक्षः । निःशेषशास्त्रवक्ता त्वन्मन्त्रध्यानतो भवति ॥ ५॥ कुवलयदृशः क्व तावद्वेश्मनि विलसन्ति कुचभरानम्राः । यावदसिताब्जनयने न त्वं तुष्टासि देवि भुवि भविनाम् ॥ ६॥ जित्वा नरोरिराजकमगगुरुगजवाजिपुरुषबलसहितः । यदुपैति तत्समग्रं त्वच्चरणनुतेः फलं तस्य ॥ ७॥ आवर्जितापि कष्टैरिह जन्मनि मुञ्चति नरं श्रीः । न त्वं सप्तभवेष्विति मत्वा को नौति नो भवतीम् ॥ ८॥ कविवरवदनसरोरुहविहरणविस्रम्भविभ्रमद्भ्रमरि । भगवति पञ्चमुखीश्वरि वागीश्वरि नमस्तेस्तु ॥ ९॥ शम्भुप्रणतां वाणीं भक्त्या यः स्तौति सोऽचिरेणैव । अवहितबुद्धिप्रसरः कविराजो जायते मनुजः ॥ १०॥ इति सरस्वतीस्तुतिः समाप्ता ।