अक्षर आकार:

श्रीसरस्वतीस्तोत्रं अथवा वाणीस्तवनं याज्ञ्यवल्क्योक्त

shrISarasvatIstotra by Yajnyavalkya

श्रीसरस्वतीस्तोत्रं अथवा वाणीस्तवनं याज्ञ्यवल्क्योक्त

अथ पञ्चमोऽध्यायः । नारायण उवाच । वाग्देवतायाः स्तवनं श्रूयतां सर्वकामदम् । महामुनिर्याज्ञवल्क्यो येन तुष्टाव तां पुरा ॥ १॥ गुरुशापाच्च स मुनिर्हतविद्यो बभूव ह । तदा जगाम दुह्खार्तो रविस्थानं च पुण्यदम् ॥ २॥ सम्प्राप्यतपसा सूर्यं कोणार्के दृष्टिगोचरे । तुष्टाव सूर्यं शोकेन रुरोद स पुनः पुनः ॥ ३॥ सूर्यस्तं पाठयामास वेदवेदाङ्गमीश्वरः । उवाच स्तुहि वाग्देवीं भक्त्या च श्रुतिहेतवे ॥ ४॥ तमित्युक्त्वा दीननाथो ह्यन्तर्धानं जगाम सः । मुनिस्नात्वा च तुष्टाव भक्तिनम्रात्मकन्धरः ॥ ५॥ याज्ञवल्क्य उवाच । कृपां कुरु जगन्मातर्मामेवं हततेजसम् । गुरुशापात्स्मृतिभ्रष्टं विद्याहीनं च दुःखितम् ॥ ६॥ ज्ञानं देहि स्मृतिं देहि विद्यां देहि देवते । प्रतिष्ठां कवितां देहि शाक्तं शिष्यप्रबोधिकाम् ॥ ७॥ ग्रन्थनिर्मितिशक्तिं च सच्छिष्यं सुप्रतिष्ठितम् । प्रतिभां सत्सभायां च विचारक्षमतां शुभाम् ॥ ८॥ लुप्तां सर्वां दैववशान्नवं कुरु पुनः पुनः । यथाऽङ्कुरं जनयति भगवान्योगमायया ॥ ९॥ ब्रह्मस्वरूपा परमा ज्योतिरूपा सनातनी । सर्वविद्याधिदेवी या तस्यै वाण्यै नमो नमः ॥ १०॥ यया विना जगत्सर्वं शश्वज्जीवन्मृतं सदा । ज्ञानाधिदेवी या तस्यै सरस्वत्यै नमो नमः ॥ ११॥ यया विना जगत्सर्वं मूकमुन्मत्तवत्सदा । वागधिष्ठातृदेवी या तस्यै वाण्यै नमो नमः ॥ १२॥ हिमचन्दनकुन्देन्दुकुमुदाम्भोजसंनिभा । वर्णाधिदेवी या तस्यै चाक्षरायै नमो नमः ॥ १३॥ विसर्ग बिन्दुमात्राणां यदधिष्ठानमेव च । इत्थं त्वं गीयसे सद्भिर्भारत्यै ते नमो नमः ॥ १४॥ यया विनाऽत्र संख्याकृत्संख्यां कर्तुं न शक्नुते । काल संख्यास्वरूपा या तस्यै देव्यै नमो नमः ॥ १५॥ व्याख्यास्वरूपा या देवी व्याख्याधिष्ठातृदेवता । भ्रमसिद्धान्तरूपा या तस्यै देव्यै नमो नमः ॥ १६॥ स्मृतिशक्तिर्ज्ञानशक्तिर्बुद्धिशक्तिस्वरूपिणी । प्रतिभा कल्पना शक्तिर्या च तस्यै नमो नमः ॥ १७॥ सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै । बभूव जडवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ १८॥ तदाऽऽजगाम भगवानात्मा श्रीकृष्ण ईश्वरः । उवाच स च तं स्तौहि वाणीमिति प्रजापते ॥ १९॥ स च तुष्टाव तां ब्रह्मा चाऽऽज्ञया परमात्मनः । चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ॥ २०॥ यदाप्यनन्तं पप्रच्छ ज्ञानमेकं वसुन्धरा । बभूव मूकवत्सोऽपि सिद्धान्तं कर्तुमक्षमः ॥ २१॥ तदा त्वां च स तुष्टाव सन्त्रस्तः कश्यपाज्ञया । ततश्चकार सिद्धान्तं निर्मलं भ्रमभञ्जनम् ॥ २२॥ व्यासः पुराणसूत्रं समपृच्छद्वाल्मिकिं यदा । var व्यासः पुराणसूत्रश्च समपृच्छतवाल्मिकिम् । मौनीभूतः स सस्मार त्वामेव जगदम्बिकाम् ॥ २३॥ तदा चकार सिद्धान्तं त्वद्वरेण मुनीश्वरः । स प्राप निर्मलं ज्ञानं प्रमादध्वंसकारणम् ॥ २४॥ पुराण सूत्रं श्रुत्वा स व्यासः कृष्णकलोद्भवः । त्वां सिषेवे च दध्यौ तं शतवर्षं च पुष्क्करे ॥ २५॥ तदा त्वत्तो वरं प्राप्य स कवीन्द्रो बभूव ह । तदा वेदविभागं च पुराणानि चकार ह ॥ २६॥ यदा महेन्द्रे पप्रच्छ तत्वज्ञानं शिवा शिवम् । क्षणं त्वामेव सञ्चिन्त्य तस्यै ज्ञानं दधौ विभुः ॥ २७॥ पप्रच्छ शब्दशास्त्रं च महेन्द्रस्च बृहस्पतिम् । दिव्यं वर्षसहस्रं च स त्वां दध्यौ च पुष्करे ॥ २८॥ तदा त्वत्तो वरं प्राप्य दिव्यं वर्षसहस्रकम् । उवाच शब्दशास्त्रं च तदर्थं च सुरेश्वरम् ॥ २९॥ अध्यापिताश्च यैः शिष्याः यैरधीतं मुनीश्वरैः । ते च त्वां परिसञ्चिन्त्य प्रवर्तन्ते सुरेश्वरि ॥ ३०॥ त्वं संस्तुता पूजिता च मुनीन्द्रमनुमानवैः । दैत्यैश्च सुरैश्चापि ब्रह्मविष्णुशिवादिभिः ॥ ३१॥ जडीभूतः सहस्रास्यः पञ्चवक्त्रश्चतुर्मुखः । यां स्तोतुं किमहं स्तौमि तामेकास्येन मानवः ॥ ३२॥ इत्युक्त्वा याज्ञवल्क्यश्च भक्तिनम्रात्मकन्धरः । प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ॥ ३३॥ तदा ज्योतिः स्वरूपा सा तेनाऽदृष्टाऽप्युवाच तम् । सुकवीन्द्रो भवेत्युक्त्वा वैकुण्ठं च जगाम ह ॥ ३४॥ महामूर्खश्च दुर्मेधा वर्षमेकं च यः पठेत् । स पण्डितश्च मेधावी सुकविश्च भवेद्ध्रुवम् ॥ ३५॥ इति श्रीब्रह्मवैवर्ते महापुराणे प्रकृतिखण्डे नारदनारायणसंवादे याज्ञवल्क्योक्त वाणीस्तवनं नाम पञ्चमोऽध्यायः ॥ इति श्रीमद्देवीभागवते महापुराणे नवमस्कन्धे याज्ञवल्क्यकृतं सरस्वतीस्तोत्रवर्णनं नाम पञ्चमोऽध्यायः ॥ brahmavaivartapurANa prakRitikhaNDa adhyAya 5 same as devIbhAgavata mahApurANa navamaskandha adhyAya 5