अक्षर आकार:

श्रीसरस्वतीस्तोत्रम्

Shri Sarasvati Stotram

श्रीसरस्वतीस्तोत्रम्

वाञ्छाधिकेष्टफलदाननिबध्ददीक्षा वाक्चातुरीविद्युतकेलिकुलाभिमाना । वागीशविष्णुभवपूजितपादपद्मा वाग्जाऽयदास्तु भवतां वचसां सवित्री ॥ १॥ श‍ृङ्गाद्रिवासनिरता वरतुङ्गभद्रा तीरप्रचाररसिका कलिकल्मषध्नी । कीलालजातभवमोदसुखाब्धिराका वाग्जाऽयदास्तु भवतां वचसां सवित्री ॥ २॥ कल्याणशैलधनुष: सहजा कृपाब्धि- र्हस्ताम्बुजात्तकजपुस्तककीटमाला । पद्मोद्भवादिमवृषालिरुपात्तदेहा वाग्जाऽयदास्तु भवतां वचसां सवित्री ॥ ३॥ वैराग्यदाननिरता नतमस्तरीशा भोगीन्द्रगर्वविनिवारणदक्षवेणी । आम्नायशीर्षततिगेयनिजापदाना वाग्जाऽयदास्तु भवतां वचसां सवित्री ॥ ४॥ स्वान्तानन्दनिमग्नस्वान्तां प्रकरोतु सन्ततं कृपया । यदुनन्दनसुखवाणी वाणी वीणालसत्काराम्भोजा ॥ ५॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥