अक्षर आकार:

श्रीसरस्वतीस्तोत्रम्

shrIsarasvatIstotram

श्रीसरस्वतीस्तोत्रम्

श्रीवासुदेवानन्दविरचितम् । हृद्वक्षस्थितविद्रुमाधिकमदा त्रीशस्य या स्फूर्तिदा मालापुस्तकपद्मभृच्च वरदा या सर्वभाषास्पदा । या शङ्खस्फटिकर्क्षनाथविशदा या शारदा सर्वदा प्रीता तिष्ठतु मन्मुखे सुवरदा वाग्जाड्यदा सर्वदा ॥ १॥ यस्यास्त्रीणी गुहागतानि हि पदान्येकं त्वनेकेडितं स्तोतुं तां निगमेडितां बुधकुलं जातं त्वलं व्रीडितम् । ब्रह्माद्या अपि देवता नहि विदुर्यस्याः परं क्रीडितं प्रारब्धात्र नुतिर्मयेव रुरुणा शार्दूलविक्रीडितम् ॥ २॥ अयि सर्वगुहास्थितेऽजिते मयि तेऽपाङ्गदृगस्तु पूजिते । त्वदृते नहि वागधीश्वरि व्यवहारोऽपि परमेश्वरि ॥ ३॥ समयोचितवाक्प्रदे मुदे विदुषां संसदि वादिवाददे । मयि मातरशेषधारणा दयितेऽजस्य सदास्तु तारणा ॥ ४॥ यद्धस्ते कमलं च तत्र कमला लीलाविहारी हरि- स्तस्याः सन्निकटेऽस्य नाभिकमले स्याल्लोकमूले विधिः । वेदा भेदभिदो मुखेषु च विधेर्ये स्वप्रमाणा नृणां तेभ्यो यज्ञविधिस्ततोऽमरगणा जीवन्ति सा पातु वाक् ॥ ५॥ नमो नमस्तेऽस्तु महासरस्वति प्रसीद मातर्जगतो महस्वति । परेशि वाग्वादिनि देवि भास्वति प्रकाशके तेऽस्तु नभो यशस्वति ॥ ६॥ त्रिषष्टिवर्णाऽऽशुगयुक्परा या भूत्वाथ पश्यन्त्यभिधाथ मध्या । स्थानप्रयत्नादिवशान्मुखे च या वैखरीति प्रणमामि तां गाम् ॥ ७॥ त्वं ब्रह्मयोनिरपरा सरस्वति परावरा । साक्षात्स्वभक्तहृत्संस्थे प्रसीद मतिचेतने ॥ ८॥ सरस्वतीस्तुतिमिमां वासुदेवसरस्वती । चक्रे यमनुजग्राह नरसिंहसरस्वती ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ॥