अक्षर आकार:

अनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रम्

sarasvatIstotram by anubhUtisvarUpAchArya

अनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रम्

॥ श्रीः ॥ कलमरालविहङ्गमवाहना सितदुकूलविभूषणभूषिता । प्रणतभूमिरुहामृतसारिणी प्रवरदेहविभा१ भरहारिणी ॥ १॥ अमृतपूर्णकमण्डलधारिणी त्रिदशदानवमानवसेविता । भगवती परमैव सरस्वती मम पुनातु सदा नयनाम्बुजे ॥ २॥ जनयति प्रथिताखिलवाङ्मयं१ गणधराननमण्डपनर्तकी । गुरुमुखाम्बुजखेलनहंसिका विजयते जगति श्रुतिदेवता ॥ ३॥ अमृतदीधितिबिम्बसमाननां त्रिजगतीजननिर्मितमाननाम् । नवरसामृतवीचि सरस्वतीं (नदी) प्रमुदितः प्रणमामि सरस्वतीम् ॥ ४॥ विकचकेतकपत्रविलोचने विहितसंस्कृतदुष्कृतमोचने५। धवलपक्षविहङ्गमलाञ्छने जय सरस्वति पूरितवाञ्छने ॥ ५॥ भवदनुग्रहलेशतरङ्गिताः तदुचितं प्रवदन्ति विपश्चितः । नृपसभासु यतः कमलाबला- कुचकलाकलितानि वितन्वते ॥ ६॥ गतधनापि हि त्वदनुग्रहात् कलितकोमलवाक्यसुधोर्मयः । चकितबालकुरङ्गःविलोचना२- जनमनांसि३ हरन्तितरां नराः ॥ ७॥ ३ युवतिजनमनांसीत्यर्थः । करसरोरुहखेलनचञ्चला तव विभाति वरा जपमालिका । श्रुतपयोनिधिमध्यविकस्वरो- ज्ज्वल५तरङ्गःकलाग्रहसङ्ग्रहा ॥ ८॥ द्विरद-केसरि-मारि-भुजङ्गम- ज्वलन-तस्कर-राज७-रुजां भयम् । तव गुणावलिगानतरङ्गिणां न भविनां८- भवति श्रुतिदेवते ॥ ९॥ ॐ ह्रां क्लीं क्रूं ततः श्रीं तदनु हसकलां ह्रीमथो ऐं नमोऽन्ते लक्षं सख्यं जपन् (योऽ)? नमकरविधिना सत्तपा ब्रह्मचारी । निर्षान्तं (निष्क्रान्तं ?) चन्द्रविम्बात्कलयति मनसा त्वाम्बुजे१ चन्द्रकाभां सत्यर्थं ३ब्रह्मकुण्डे विहितघृठहति(घृतहुतिः?) स्यादृशां (सिम?) विद्वान् ॥ १०॥ रे रे लक्षण-काव्य-नाटक-कथा-चम्प्पूसमालोकने क्वायासं वितनोषि बालिश मुधा किं नम्र६वक्याप्युजः । भक्त्याराधय मन्त्रराजमहसानेनानिश७ भारतीं तेन त्वं कवितावितानसविताऽद्वैतप्रबुद्धायसे ॥ ११॥ चञ्चच्चन्द्रमुखी प्रसिद्धमहिमा स्वच्छन्दराज्यप्रदाऽ- नायासेन सुरासुरैर्नरगणै१०रभ्यर्चिता भारती११। देवी सत्कृतवैभवामलगुणा स्वच्छाङ्गरागद्युतिः सा मां पातु सरस्वती१२ भगवती त्रैलोक्यसञ्जीवनी ॥ १२॥ स्तवनमेतदनेकगुणान्वितं पठति यो १३भविकं ??? १४। स सहसा मधुरैर्वचनामृतै- र्नृपगणानपि रञ्जयति स्फुटम् ॥ १३॥ इति श्रीअनुभूतिस्वरूपाचार्यकृतं सरस्वतीस्तोत्रं सम्पूर्णम् ॥ अनुभूतिस्वरूपाचार्यः प्रसिद्ध-सारस्वतव्याकरणकर्ता, तथा अद्वैते प्रकटार्थविवरणादिबहुव्याख्याग्रन्थकर्ता च । तं तत्कृतीश्चाधिकृत्य मया भाण्डारकर-प्राच्यविद्यासंशोधन-संस्थापत्रिकाया रजतोत्सवसञ्चिकायां (ABORI. Silver Jubilee Vol 1949, pp.352 to 368), संस्कृतादिमातृकाबृहत्सूच्यां प्रथमभागे (New Catalogus Catalgarum Vol I Revised edn pp. 208b, 209a) च विस्तरतो विचार्य लिखितम् । अत्र मुद्र्यमाणस्याचर्यस्य सरस्वतीस्तोत्रमितः पूर्वमज्ञातमिदं प्रथमतया यदृच्छया Please see scanned page for some details of the compositions and footnote.