अक्षर आकार:

अम्बुवीचिकृतं सरस्वतीस्तोत्रम्

Sarasvatistotram by Ambuvichi

अम्बुवीचिकृतं सरस्वतीस्तोत्रम्

सदसद् देवि यत्किञ्चिद् बन्धमोक्षात्मकं पदम् । तत्सर्वं गुप्तया व्याप्तं त्वया काष्ठं यथाग्निना ॥ २२॥ १॥ सर्वस्य सिद्धिरूपेण त्वं जनस्य हृदि स्थिता । वाचारूपेण जिह्वायां ज्योतीरूपेण चक्षषि ॥ २३॥ भक्तिग्राह्यासि देवेशि त्वमेका भुवनत्रये । शरणागतदीनार्त्तपरित्राणपरायणे ॥ २४॥ त्वं कीर्तिस्त्वं धृतिर्मेधा त्वं भक्तिस्त्वं प्रभा स्मृता । त्वं निद्रा त्वं क्षुधा कीर्तिः सर्वभूतनिवासिनी ॥ २५॥ तुष्टिः पुष्टिर्वपुःप्रीतिः स्वधा स्वाहा विभावरी । रतिः प्रीतिः क्षितिर्गङ्गा सत्यं धर्मो मनस्विनी ॥ २६॥ लज्जा शान्तिः स्मृतिर्दक्षा क्षमा गौरी च रोहिणी । सिनीवाली कुहू राका देवमाता दितिस्तथा ॥ २७॥ ब्रह्माणी विनता लक्ष्मीः कद्रूर्दाक्षायणी शिवा । गायत्री चाथ सावित्री कृषिर्वृष्टिः श्रुतिः कला ॥ २८॥ बला नाडी तुष्टिकाष्ठा रसना च सरस्वती । यत्किश्चित् त्रिषु लोकेषु बहुत्वाद् यत्र कीर्तितम् ॥ २९॥ इङ्गितं नेङ्गितं तच्च तद्रूपं ते सुरेश्वरि । गन्धर्वाः किन्नरा देवाः सिद्धविद्याधरोरगाः ॥ ३०॥ यक्षगुह्यकभूताश्च दैत्या ये च विनायकाः । त्वत्प्रसादेन ते सर्वे संसिद्धिं परमां गताः ॥ ३१॥ तथान्येऽपि बहुत्वाद् ये न मया परिकीर्तिताः । आराधितास्तु कृच्छ्रेण पूनिताश्च सुविस्तरैः ॥ ३२॥ हरन्तु देवताः पापमन्ये त्वं कीर्तितापि च ॥ ३३॥ १२॥ इति स्कान्दे महापुराणे नागरखण्डे अम्बुवीचिकृतं सरस्वतीस्तोत्रं सम्पूर्णम् । (skandapurANa, nAgarakhaNDa, gra0 46, shlo0 22-33)