अक्षर आकार:

श्रीसरस्वतीध्यानम्

shrIsarasvatIdhyAnam

श्रीसरस्वतीध्यानम्

वाणीं पूर्णनिशाकरोज्ज्वलमुखीं कर्पूरकुन्दप्रभां चन्द्रार्काङ्कितमस्तकां निजकरैः सम्बिभ्रतीमादरात् । वीणामक्षगुणां सुधाढ्यकलशं विद्यां च तुङ्गस्तनीं दिव्यैराभरणैर्विभूषिततनुं हंसाधिरूढां भजे ॥ १॥ आसीना कमले करैर्जपवटीं पद्मद्वयं पुस्तकं बिभ्राणा तरुणेन्दुबद्धमकुटा मुक्तेन्दुकुन्दप्रभा । भालोन्मीलितलोचना कुचभराक्रान्ता भवद्भूतये । भूयाद्वागधिदेवता मुनिगणैरासेव्यमानाऽनिशम् ॥ २॥ या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ ३॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना । सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ ४॥ सुरासुरासेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ५॥ सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया । घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ६॥ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ७॥ श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका- मालालालितकुन्तला प्रविलसन्मुक्तावलीशोभना ॥ सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता । वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा ॥ ८॥ ॥ श्रीरस्तु ॥ इति श्रीसरस्वतीध्यानम् ॥