अक्षर आकार:

देवीस्तोत्रम्

devIstotram

देवीस्तोत्रम्

श्रीसरस्वत्यै नमः । श्री शारदे (सरस्वति)! नमस्तुभ्यं जगद्भवनदीपिके । विद्वज्जनमुखाम्भोजभृङ्गिके! मे मुखे वस ॥ १॥ वागीश्वरि! नमस्तुभ्यं नमस्ते हंसगामिनि! । नमस्तुभ्यं जगन्मातर्जगत्कर्त्रिं! नमोऽस्तु ते ॥ २॥ शक्तिरूपे! नमस्तुभ्यं कवीश्वरि! नमोऽस्तु ते । नमस्तुभ्यं भगवति! सरस्वति! नमोऽस्तुते ॥ ३॥ जगन्मुख्ये नमस्तुभ्यं वरदायिनि! ते नमः । नमोऽस्तु तेऽम्बिकादेवि! जगत्पावनि! ते नमः ॥ ४॥ शुक्लाम्बरे! नमस्तुभ्यं ज्ञानदायिनि! ते नमः । ब्रह्मरूपे! नमस्तुभ्यं ब्रह्मपुत्रि! नमोऽस्तु ते ॥ ५॥ विद्वन्मातर्नमस्तुभ्यं वीणाधारिणि! ते नमः । सुरेश्वरि! नमस्तुभ्यं नमस्ते सुरवन्दिते! ॥ ६॥ भाषामयि! नमस्तुभ्यं शुकधारिणि! ते नमः । पङ्कजाक्षि! नमस्तुभ्यं मालाधारिणि! ते नमः ॥ ७॥ पद्मारूढे! नमस्तुभ्यं पद्मधारिणि! ते नमः । शुक्लरूपे नमस्तुभ्यं नमञ्जिपुरसुन्दरि ॥ ८॥ श्री(धी)दायिनि! नमस्तुभ्यं ज्ञानरूपे! नमोऽस्तुते । सुरार्चिते! नमस्तुभ्यं भुवनेश्वरि! ते नमः ॥ ९॥ कृपावति! नमस्तुभ्यं यशोदायिनि! ते नमः । सुखप्रदे! नमस्तुभ्यं नमः सौभाग्यवर्द्धिनि! ॥ १०॥ विश्वेश्वरि! नमस्तुभ्यं नमस्त्रैलोक्यधारिणि । जगत्पूज्ये! नमस्तुभ्यं विद्यां देहि (विद्यादेवी) महामहे ॥ ११॥ श्रीर्देवते! नमस्तुभ्यं जगदम्बे! नमोऽस्तुते । महादेवि! नमस्तुभ्यं पुस्तकधारिणि! ते नमः ॥ १२॥ कामप्रदे नमस्तुभ्यं श्रेयोमाङ्गल्यदायिनि । सृष्टिकर्त्रिं! स्तुभ्यं सृष्टिधारिणि! नमः ॥ १३॥ जगद्धिते! नमस्तुभ्यं नमः संहारकारिणि! । विद्यामयि! नमस्तुभ्यं विद्यां देहि दयावति! ॥ १४॥ अथ लक्ष्मीनामानि - महालक्ष्मि नमस्तुभ्यं पीतवस्त्रे नमोऽस्तु ते । पद्मालये! नमस्तुभ्यं नमः पद्मविलोचने ॥ १५॥ सुवर्णाङ्गि नमस्तुभ्यं पद्महस्ते नमोऽस्तु ते । नमस्तुभ्यं गजारूढे विश्वमात्रे नमोऽस्तु ते ॥ १६॥ शाकम्भरि नमस्तुभ्यं कामधात्रि नमोऽस्तु ते । क्षीराब्धिजे नमस्तुभ्यं शशिस्वस्रे नमोऽस्तु ते ॥ १७॥ हरिप्रिये! नमस्तुभ्यं वरदायिनि ते नमः । सिन्दूराभे नमस्तुभ्यं नमः सन्मतिदायिनि ॥ १८॥ ललिते! च नमस्तुभ्यं वसुदायिनि ते नमः । शिवप्रदे नमस्तुभ्यं समृद्धिं देहि मे रमे! ॥ १९॥ अथ योगिनीरूपाणि - गणेश्वरि! नमस्तुभ्यं दिव्ययोगिनि ते! नमः । विश्वरूपे! नमस्तुभ्यं महायोगिनि! ते नभः ॥ २०॥ भयङ्करि! नमस्तुभ्यं सिद्धयोगिनि! ते नमः । चन्द्रकान्ते! नमस्तुभ्यं चक्रेश्वरि! नमोऽस्तु ते ॥ २१॥ पद्मावति! नमस्तुभ्यं रुद्रवाहिनि! ते नमः । परमेश्वरि! नमस्तुभ्यं कुण्डलिनि! नमोऽस्तु ते ॥ २२॥ कलावति! नभस्तुभ्यं मन्त्रवाहिनि! ते नमः । मङ्गले! च नमस्तुभ्यं श्रीजयन्ति! नमोस्तु ते ॥ २३॥ अथान्यनामानि - चण्डिके! च नमस्तुभ्यं दुर्गे! देवि! नमोऽस्तु ते । स्वाहारूपे नमस्तुभ्यं स्वधारूपे नमोऽस्तु ते ॥ २४॥ प्रत्यङ्गिरे नमस्तुभ्यं गोत्रदेवि नमोऽस्तु ते । शिवे! कृष्णे नमस्तुभ्यं नमः कैटभनाशिनि ॥ २५॥ कात्यायनि! नमस्तुभ्यं नमो धूम्रविनाशिनि! नारायणि! नमस्तुभ्यं नमो महिषखण्डिनि! ॥ २६॥ सहस्राक्षि! नमस्तुभ्यं नमश्चण्डविनाशिनि! तपस्विनि! नमस्तुभ्यं नमो मुण्डविनाशिनि! ॥ २७॥ अग्निज्वाले! नमस्तुभ्यं नमो निशुम्भखण्डिनि! भद्रकालि! नमस्तुभ्यं मधुमर्दिनि! ते नमः ॥ २८॥ महाबले! नमस्तुभ्यं शुम्भखण्डिनि! ते नमः । श्रुतिमयि! नमस्तुभ्यं रक्तबीजवधे! नमः ॥ २९॥ धृतिमयि! नमस्तुभ्यं दैत्यमर्दिनि! ते नमः । दिवागते! नमस्तुभ्यं ब्रह्मदायिनि! ते नभः ॥ ३०॥ माये! क्रिये! नमस्तुभ्यं श्रीमालिनि! नमोऽस्तु ते । मधुमति! नमस्तुभ्यं कले! कालि! नमोऽस्तु ते ॥ ३१॥ श्रीमातङ्गि नमस्तुभ्यं विजये! च नमोऽस्तु ते । जयदे! च नमस्तुभ्यं श्रीशाम्भवि! नमोऽस्तु ते ॥ ३२॥ त्रिनयने नमस्तुभ्यं नमः शङ्करवल्लभे! । वाग्वादिनि नमस्तुभ्यं श्रीभैरवि! नमोऽस्तु ते ॥ ३३॥ मन्त्रमयि! नमस्तुभ्यं क्षेमङ्करि! नमोऽस्तु ते । त्रिपुरे! च नमस्तुभ्यं तारे शबरि! ते नमः ॥ ३४॥ हरसिद्धे! नमस्तुभ्यं ब्रह्मवादिनि! ते नमः । अङ्गे! वङ्गे! नमस्तुभ्यं कालिके! च नमोऽस्तु ते ॥ ३५॥ उमे! नन्दे! नमस्तुभ्यं यमघण्टे! नमोऽस्तु ते । श्रीकौमारि! नमस्तुभ्यं वातकारिणि! ते नमः ॥ ३६॥ दीर्घदंष्ट्रे! नमस्तुभ्यं महादंष्ट्रे! नमोऽस्तु ते । प्रभे! रौद्रि! नमस्तुभ्यं सुप्रभे! ते नमो नमः ॥ ३७॥ महाक्षमे! नमस्तुभ्यं क्षमाकारि! नमोऽस्तु ते । सुतारिके! नमस्तुभ्यं भद्रकालि! नमोऽस्तु ते ॥ ३८॥ चन्द्रावति नमस्तुभ्यं वनदेवि नमोऽस्तु ते । नारसिंहि! नमस्तुभ्यं महाविद्ये! नमोऽस्तु ते ॥ ३९॥ अग्निहोत्रि! नमस्तुभ्यं सूर्यपुत्रि! नमोऽस्तु ते । सुशीतले! नमस्तुभ्यं ज्वालामुखि! नमोऽस्तु ते ॥ ४०॥ सुमङ्गले! नमस्तुभ्यं वैश्वानरि! नमोऽस्तु ते निरञ्जने! नमस्तुभ्यं श्रीवैष्णवि! नमोऽस्तु ते ॥ ४१॥ श्रीवाराहि! नमस्तुभ्यं तोतलायै नमो नमः । कुरुकुल्ले! नमस्तुभ्यं भैरवपत्नि! ते नमः ॥ ४२॥ अथागमोक्तनामानि स्वयमूह्यानि पण्डितैः । कथ्यन्ते कानि नामानि प्रसिद्धानि तथा न वा ॥ ४३॥ हेमकान्ते! नमस्तुभ्यं हिङ्गुलायै नमो नमः । यज्ञविद्ये नमस्तुभ्यं वेदमातर्नमोऽस्तु ते ॥ ४४॥ श्रीमृडानि नमस्तुभ्यं विन्ध्यवासिनि ते नमः । पृथ्वीज्योत्सने! नमस्तुभ्यं नमो नारदसेविते! ॥ ४५॥ प्रह्लादिनि! नमस्तुभ्यमपर्णायै नमो नमः । जैनेश्वरि! नमस्तुभ्यं सिंहगामिनि! ते नमः ॥ ४६॥ बौद्धमातर्नमस्तुभ्यं जिनमातर्नमोऽस्तु ते । ॐ कारे च नमस्तुभ्यं राज्यलक्ष्भि! नमोऽस्तु ते ॥ ४७॥ सुधात्मिके! नमस्तुभ्यं राजनीते! नमोऽस्तु ते । मन्दाकिनि! नमस्तुभ्यं गोदावरि! नमोऽस्तु ते ॥ ४८॥ पताकिनि! नमस्तुभ्यं भगमालिनि! ते नमः । वज्रायुधे! नमस्तुभ्यं परापरकले! नमः ॥ ४९॥ वज्रहस्ते! नमस्तुभ्यं मोक्षदायिनि! ते नमः । शतबाहु नमस्तुभ्यं कुलवासिनि ते नमः ॥ ५०॥ श्रीत्रिशक्ते नमस्तुभ्यं नमश्चण्डपराक्रमे । महाभुजे! नमस्तुभ्यं नमः षट्वक्रभेदिनि! ॥ ५१॥ नभःश्यामे! नमस्तुभ्यं षट्चक्रक्रमवासिनि! । वसुप्रिये! नमस्तुभ्यं रक्तादिनि! नमो नमः ॥ ५२॥ महामुद्रे! नमस्तुभ्यमेकचक्षुर्नमोऽस्तु ते । पुष्पबाणे! नमस्तुभ्यं खगगामिनि ते नमः ॥ ५३॥ मधुमत्ते! नमस्तुभ्यं बहुवर्णे! नमो नमः । मदोद्धते! नमस्तुभ्यं इन्द्रचापिनि! ते नमः ॥ ५४॥ चक्रहस्ते! नमस्तुभ्यं श्रीखङ्गिनि! नमो नभः । शक्तिहस्ते! नमस्तुभ्यं नमस्त्रिशूलधारिणि! ॥ ५५॥ वसुधारे! नमस्तुभ्यं नमो मयूरवाहिनि! । जालन्धरे! नमस्तुभ्यं सुबाणायै! नमो नमः ॥ ५६॥ अनन्तर्वीर्ये! नमस्तुभ्यं वरायुधधरे! नमः । वृषप्रिये! नमस्तुभ्यं शत्रुनाशिनि! ते नमः ॥ ५७॥ वेदशक्ते! नमस्तुभ्यं वरधारिणि! ते नमः । वृषारूढं! नमस्तुभ्यं वरदायै! नमो नमः ॥ ५८॥ शिवदूति! नमस्तुभ्यं नमो धर्मपरायणे! । घनध्वनि! नमस्तुभ्यं षट्कोणायै! नमो नमः ॥ ५९॥ जगद्गर्भे! नमस्तुभ्यं त्रिकोणायै! नमोनमः । निराधारे! नमस्तुभ्यं सत्यमार्गप्रबोधिनि! ॥ ६०॥ निराश्रये! नमस्तुभ्यं छत्रच्छायाकृतालये! । निराकारे! नमस्तुभ्यं वह्निकुण्डकृतालये! ॥ ६१॥ प्रभावति! नमस्तुभ्यं रोगनाशिनि! ते नमः । तपोनिष्टे! नमस्तुभ्यं सिद्धिदायिनि! ते नमः ॥ ६२॥ त्रिसन्ध्यिके! नमस्तुभ्यं दृढबन्धविमोक्षणि! । तपोयुक्ते! नमस्तुभ्यं काराबन्धविमोचनि! ॥ ६३॥ मेघमाले! नमस्तुभ्यं भ्रमनाशिनि! ते नमः । ह्रीङ्क्लीङ्कारि! नमस्तुभ्यं सामगायनि! ते नमः ॥ ६४॥ ॐ ऐंरूपे! नमस्तुभ्यं बीजरूपं! नमोऽस्तु ते । नृपवश्ये! नमस्तुभ्यं शस्यवर्द्धिनि! ते नमः ॥ ६५॥ नृपसेव्ये! नमस्तुभ्यं धनवर्द्धिनि! ते नमः । नृपमान्ये! नमस्तुभ्यं लोकवश्यविधायिनि! ॥ ६६॥ नमः सर्वाक्षरमयि! वर्णमालिनि! ते नमः । श्रीब्रह्माणि! नमस्तुभ्यं चतुराश्रमवासिनि! ॥ ६७॥ शास्त्रमयि! नमस्तुभ्यं वरशस्त्रास्त्रधारिणि! । तुष्टिदे! च नमस्तुभ्यं पापनाशिनि! ते नमः ॥ ६८॥ पुष्टिदे! च नमस्तुभ्यमार्तिनाशिनि! ते नमः । धर्मदे! च नमस्तुभ्यं गायत्रीमयि! ते नमः ॥ ६९॥ कविप्रिये! नमस्तुभ्यं चतुर्वर्गफलप्रदे! । जगज्जीवे! नमस्तुभ्यं त्रिवर्गफलदायिनि! ॥ ७०॥ जगद्बीजे! नमस्तुभ्यमष्टसिद्धिप्रदे! नमः । मातङ्गिनि! नमस्तुभ्यं नमो वेदाङ्गधारिणि! ॥ ७१॥ हंसगते! नमस्तुभ्यं परमार्थप्रबोधिनि! चतुर्बाहु! नमस्तुभ्यं शैलवासिनि! ते नमः ॥ ७२॥ चतुर्मुखि! नमस्तुभ्यं द्युतिवर्द्धिनि! ते नमः । चतुःसमुद्रशयिनि! तुभ्यं देवि! नमो नमः ॥ ७३॥ कविशक्ते! नमस्तुभ्यं कलिनाशिनि! ते नमः । कवित्वदे! नमस्तुभ्यं मत्तमातङ्गगामिनि! ॥ ७४॥ ॥ इति देवीस्तोत्रम् समाप्तम् ॥ From Bhairava Padmavati Kalpa