अक्षर आकार:

सरस्वतीभुजङ्गप्रयातस्तोत्रम्

sarasvatIbhuja~NgaprayAtastotram

सरस्वतीभुजङ्गप्रयातस्तोत्रम्

सदा भावयेऽहं प्रसादेन यस्याः पुमांसो जडाः सन्ति लोकैकनाथे । सुधापूरनिष्यन्दिवाग्रीतयस्त्वां सरोजासनप्राणनाथे हृदन्ते ॥ १॥ विशुद्धार्कशोभावलर्क्षं विराज- ज्जटामण्डलासक्तशीतांशुखण्डा । भजाम्यर्धदोषाकरोद्यल्ललाटं वपुस्ते समस्तेश्वरि श्रीकृपाब्धे ॥ २॥ मृदुभ्रूलतानिर्जितानङ्गचापं द्युतिध्वस्तनीलारविन्दायताक्षम् । शरत्पद्मकिञ्जल्कसङ्काशनासं महामौक्तिकादर्शराजत्कपोलम् ॥ ३॥ प्रवालाभिरामाधरं चारुमन्द- स्मिताभावनिर्भर्त्सितेन्दुप्रकाशम् । स्फुरन्मल्लिकाकुड्मलोल्लासिदन्तं गलाभाविनिर्धूतशङ्खाभिरम्यम् ॥ ४॥ वरं चाभयं पुस्तकं चाक्षमालां दधद्भिश्चतुर्भिः करैरम्बुजाभैः । सहस्राक्षकुम्भीन्द्रकुम्भोपमान- स्तनद्वन्द्वमुक्ताघटाभ्यां विनम्रम् ॥ ५॥ स्फुरद्रोमराजिप्रभापूरदूरी- कृतश्यामचक्षुःश्रवःकान्तिभारम् । गभीरत्रिरेखाविराजत्पिचण्ड- द्युतिध्वस्तबोधिद्रुमस्निग्धशोभम् ॥ ६॥ लसत्सूक्ष्मशुक्लाम्बरोद्यन्नितम्बं महाकादलस्तम्बतुल्योरुकाण्डम् । सुवृत्तप्रकामाभिरामोरुपर्व- प्रभानिन्दितानङ्गसामुद्गकाभम् ॥ ७॥ उपासङ्गसङ्काशजङ्घं पदाग्र- प्रभाभर्त्सितोत्तुङ्गकूर्मप्रभावम् । पदाम्भोजसम्भाविताशोकसालं स्फुरच्चन्द्रिकाकुड्मलोद्यन्नखाभम् ॥ ८॥ नमस्ते महादेवि हे वर्णरूपे नमस्ते महादेवि गीर्वाणवन्द्ये । नमस्ते महापद्मकान्तारवासे समस्तां च विद्यां प्रदेहि प्रदेहि ॥ ९॥ नमः पद्मभूवक्त्रपद्माधिवासे नमः पद्मनेत्रादिभिः सेव्यमाने । नमः पद्मकिञ्जल्कसङ्काशवर्णे नमः पद्मपत्राभिरामाक्षि तुभ्यम् ॥ १०॥ पलाशप्रसूनोपमं चारुतुण्डं बलारातिनीलोत्पलाभं पतत्रम् । त्रिवर्णं गलान्तं वहन्तं शुकं तं दधत्यै महत्यै भवत्यै नमोऽस्तु ॥ ११॥ कदम्बाटवीमध्यसंस्थां सखीभिः मनोज्ञाभिरानन्दलीलारसाभिः । कलस्वानया वीणया राजमानां भजे त्वां सरस्वत्यहं देवि नित्यम् ॥ १२॥ सुधापूर्णहैरण्यकुम्भाभिषेक- प्रिये भक्तलोकप्रिये पूजनीये । सनन्दादिभिर्योगिभिर्योगिनीभिः जगन्मातरस्मन्मनः शोधय त्वम् ॥ १३॥ अविद्यान्धकारौघमार्ताण्डदीप्त्यै सुविद्याप्रदानोत्सुकायै शिवायै । समस्तार्तरक्षाकरायै वरायै समस्ताम्बिके देवि दुभ्यं नमोऽस्तु ॥ १४॥ परे निर्मले निष्कले नित्यशुद्धे शरण्ये वरेण्ये त्रयीमय्यनन्ते । नमोऽस्त्वम्बिके युष्मदीयाङ्घ्रिपद्मे रसज्ञातले सन्ततं नृत्यतां मे ॥ १५॥ प्रसीद प्रसीद प्रसीदाम्बिके मा- मसीमानुदीनानुकम्पावलोके । पदाम्भोरुहद्वन्द्वमेकावलम्बं न जाने परं किञ्चिदानन्दमूर्ते ॥ १६॥ इतीदं भुजङ्गप्रयातं पठेद्यो मुदा प्रातरुत्थाय भक्त्या समेतः । स मासत्रयात्पूर्वमेवास्ति नूनं प्रसादस्य सारस्वतस्यैकपात्रम् ॥ १७॥ इति श्रीसरस्वतीभुजङ्गप्रयातस्तोत्रं समाप्तम् ॥