अक्षर आकार:

श्रीज्ञानसरस्वती(बासर) भक्तिधारास्तोत्रम्

shrIj~nAnasarasvatI(bAsara) bhaktidhArAstotram

श्रीज्ञानसरस्वती(बासर) भक्तिधारास्तोत्रम्

विहितनमस्कारशरण्यां सुखप्रदां ॐकारपूरितनामार्चनां शुभप्रदाम् । पुरस्कारसहितदर्शनां फलप्रदां बासरक्षेत्रदेवीं भज सरस्वतीं मातरम् ॥ १॥ पञ्चामृताभिषेकेन कामितफलदायिकां नैवेद्यनिवेदनेन सकलार्थसाधिकाम् । नीराजनदर्शनेन सकलार्थसाधिकां बासरक्षेत्रदेवीं भज सरस्वतीं मातरम् ॥ २॥ तव पादाब्जस्पर्शनं पापहरणं तव कटाक्षवीक्षणं रोगनिवारणम् । तव मन्त्राक्षतरक्षणं शुभकरं बासरक्षेत्रदेवीं भज सरस्वतीं मातरम् ॥ ३॥ नमोऽस्तु वेदव्यासनिर्मितप्रतिष्टितायै नमोऽस्तु महालक्ष्मीमहाकाळीसमेतायै । नमोऽस्तु अष्टतीर्थजलमहिमान्वितायै नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ४॥ नमोऽस्तु गोदावरीतटनिवासिन्यै नमोऽस्तु कृपाकटाक्षस्वरूपायै । नमोऽस्तु स्मृतिमात्रप्रसन्नायै नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ५॥ नमोऽस्तु मनोहरपुष्पालङ्कृतायै नमोऽस्तु ज्ञानमूलायै ज्ञानगम्यायै । नमोऽस्तु गुरुभक्तिरहस्यप्रकटितायै नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ६॥ नमोऽस्तु मण्डलदीक्षाभिक्षामहादात्र्यै नमोऽस्तु महामन्त्रतन्त्रप्रवीणायै । नमोऽस्तु सहस्रारचक्रनिलयायै नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ७॥ नमोऽस्तु सर्वपापसंहारिकायै नमोऽस्तु योगियोगिनीगणसंसेवितायै । नमोऽस्तु सकलकल्याणशुभदायै नमोऽस्तु बासरक्षेत्रे विलसितायै ॥ ८॥ रामदासेन विरचितमिदं पठते भक्तिमान्नरः विद्यां श्रेयो विपुलसौख्यं प्राप्नोति ॥