अक्षर आकार:

श्रीसरस्वतीस्तोत्रम्

shrIsarasvatIstotram

श्रीसरस्वतीस्तोत्रम्

श्रीगणेशाय नमः । श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता । श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना ॥ १॥ श्वेताक्षी शुक्लवस्त्रा च श्वेतचन्दनचर्चिता । वरदा सिद्धगन्धर्वैरृषिभिः स्तूयते सदा ॥ २॥ स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम् । ये स्मरन्ति त्रिकालेषु सर्वाविद्यां लभन्ति ते ॥ ३॥ ये स्तुवन्ति या देवी स्तूयते नित्यं ब्रह्मेन्द्रसुरकिन्नरैः । सा ममैवास्तु जिह्वाग्रे पद्महस्ता सरस्वती ॥ ४॥ इति श्रीसरस्वतीस्तोत्रं सम्पूर्णम् ।