अक्षर आकार:

श्रीसरस्वतीस्तुती

shrIsarasvatI-stuti

श्रीसरस्वतीस्तुती

या कुन्देन्दु-तुषारहार-धवला या शुभ्र-वस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युत-शंकर-प्रभृतिभिर्देवैः सदा पूजिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥ १॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालां दधाना हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापरेण । भासा कुन्देन्दु-शंखस्फटिकमणिनिभा भासमानाऽसमाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥ आशासु राशी भवदंगवल्लि भासैव दासीकृत-दुग्धसिन्धुम् । मन्दस्मितैर्निन्दित-शारदेन्दुं वन्देऽरविन्दासन-सुन्दरि त्वाम् ॥ ३॥ शारदा शारदाम्बोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रियात् ॥ ४॥ सरस्वतीं च तां नौमि वागधिष्ठातृ-देवताम् । देवत्वं प्रतिपद्यन्ते यदनुग्रहतो जनाः ॥ ५॥ पातु नो निकषग्रावा मतिहेम्नः सरस्वती । प्राज्ञेतरपरिच्छेदं वचसैव करोति या ॥ ६॥ शुद्धां ब्रह्मविचारसारपरमा-माद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ ७॥ वीणाधरे विपुलमंगलदानशीले भक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये । कीर्तिप्रदेऽखिलमनोरथदे महार्हे विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ८॥ श्वेताब्जपूर्ण-विमलासन-संस्थिते हे श्वेताम्बरावृतमनोहरमंजुगात्रे । उद्यन्मनोज्ञ-सितपंकजमंजुलास्ये विद्याप्रदायिनि सरस्वति नौमि नित्यम् ॥ ९॥ मातस्त्वदीय-पदपंकज-भक्तियुक्ता ये त्वां भजन्ति निखिलानपरान्विहाय । ते निर्जरत्वमिह यान्ति कलेवरेण भूवह्नि-वायु-गगनाम्बु-विनिर्मितेन ॥ १०॥ मोहान्धकार-भरिते हृदये मदीये मातः सदैव कुरु वासमुदारभावे । स्वीयाखिलावयव-निर्मलसुप्रभाभिः शीघ्रं विनाशय मनोगतमन्धकारम् ॥ ११॥ ब्रह्मा जगत् सृजति पालयतीन्दिरेशः शम्भुर्विनाशयति देवि तव प्रभावैः । न स्यात्कृपा यदि तव प्रकटप्रभावे न स्युः कथंचिदपि ते निजकार्यदक्षाः ॥ १२॥ लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृष्टिः प्रभा धृतिः । एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती ॥ १३॥ सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः वेद-वेदान्त-वेदांग- विद्यास्थानेभ्य एव च ॥ १४॥ सरस्वति महाभागे विद्ये कमललोचने । विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते ॥ १५॥ यदक्षर-पदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ १६॥ ॥ इति श्रीसरस्वती स्तोत्रं सम्पूर्णं॥