अक्षर आकार:

सप्तशतीध्यानात्मकं स्तोत्रम्

saptashatIdhyAnAtmakaM stotram

सप्तशतीध्यानात्मकं स्तोत्रम्

श्रीगणेशाय नमः ॥ विद्युद्दामसमप्रभां मृगपतिस्कन्धस्थितां भीषणां कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् । हस्तैश्चक्रदरालिखेटविशिखाँश्चापं गुणं तर्जनीं बिभ्राणामनलात्मिकां शशिधरां दुर्गां त्रिनेत्रां भजे ॥ १॥ मातर्मे मधुकैटभघ्नि महिषप्राणापहारोद्यमे हेलानिर्मितधूम्रलोचनवधे हे चण्डमुण्डार्दिनि । निःशेषीकृतरक्तबीजदनुजे नित्ये निशुम्भापहे शुम्भध्वंसिनि सहराशु दुरितं दुर्गे नमस्तेऽम्बिके ॥ २॥ या देवी मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डशमनी या रक्तबीजाशिनी । या शुम्भादिनिशुम्भदैत्यदमनी या सिद्धलक्ष्मी परा सा चण्डी नवकोटिशक्तिसहिता मां पातु विश्वेश्वरी ॥ ३॥ दुर्गां ध्यायतु दुर्गतिप्रशमनीं दूर्वादलश्यामलां चन्द्रार्धोज्ज्वलशेखरां त्रिनयनामापीतवासोवसम् । चक्रं शङ्खमिषुं धनुश्च दधतीं कोदण्डबाणाशयो- र्मुद्रेवाभयकामदे सकटिबन्धाभीष्टदां वानयोः ॥ ४॥ भावोद्भेदवृता सहाभयवरा विस्रस्तनीलालका बिम्बोष्ठी तरुणाऽरुणाब्जचरणा रक्तान्तनेत्रत्रया । पीनोरुस्तनभारभङ्गुरतनुः श्यामा प्रसन्नानना देवी वस्त्वरिता तनोतु विभवानानन्दयन्ती मनः ॥ ५॥ मुक्ताविद्युत्पयोदस्फटिकनवजपाभास्वरैः पञ्चवक्त्रैः शीतांशूल्लासिचूडैस्त्रिनयनलसितैर्भासुरामच्छवर्णाम् । चक्रं शङ्खं कपालं गुणपरशुसुधाकुम्भवेदाक्षमाला विद्यापद्मान्वहन्तीं नमत मुनिनतां भारतीं पद्मसंस्थाम् ॥ ६॥ हंसारूढा हरहसितहारेन्दुकुन्दावदाता वाणी मन्दस्मिततरमुखी मौलिबद्धेन्दुलेखा । विद्यावीणाऽमृतमयघटाक्षस्रजादीप्तहस्ता श्वेताब्जस्था भवदभिमतप्राप्तये भारती स्यात् ॥ ७॥ सौवर्णाम्बुजमध्यगां त्रिनयनां सौदामिनीसन्निभां शङ्खं चक्रवराभयं च दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैः स्तुतां ध्यायेद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ ८॥ शङ्खं चक्रमथो धनुश्च दधतीं बिभ्रामितां तर्जनीं वामे शक्तिमसिं शरान्कलयतीं तिर्यक् त्रिशूलं भुजैः । सन्नद्धां विविधायुधैः परिवृतां मन्त्री कुमारीजनै- र्ध्यायेदिष्टवरप्रदां त्रिनयनां सिंहाधिरूढां शिवाम् ॥ ९॥ शङ्खासिचापशरभिन्नकरां त्रिनेत्रां तिग्मेतरांशुकलया विलसत्किरीटाम् । सिंहस्थितां ससुरसिद्धनुतां च दुर्गां दूर्वानिभां दुरितवर्गहरां नमामि ॥ १०॥ प्रकाशमध्यस्थितचित्स्वरूपां वराभये सन्दधतीं त्रिनेत्राम् । सिन्दूरवर्णामतिकोमलाङ्गीं मायामयीं तत्त्वमयीं नमामि ॥ ११॥ शोणप्रभां सोमकलावतंसां पाणिस्फुरत्पञ्चशरेषुचापाम् । प्राणप्रियां नौमि पिनाकपाणेः कोणत्रयस्थां कुलदेवतां मे ॥ १२॥ खङ्गोद्भिन्नेन्दुबिम्बस्रवदमृतरसाप्लाविताङ्गी त्रिनेत्रा सव्ये पाणौ कपालाद्गलदमृतमथो मुक्तकेशी पिबन्ती । दिग्वस्त्राबद्धकाञ्चीमणिमयमुकुटाद्यैर्युता दीप्तजिह्वा पायान्नीलोत्पलाभा रविशशिविलसत्कुण्डलालीढपादा ॥ १३॥ सद्यश्छिन्नशिरःकृपाणमभयं हस्तैर्वरैर्बिभ्रतीं घोरास्यां शिरसाऽस्रजासुरुचिरामुन्मुक्तकेशावलिम् । सृक्कासृक्प्रवहां श्मशाननिलयां श्रुत्योः शवालङ्कृतिं श्यामाङ्गीं कृतमेखलाशवकरां देवीं भजे कालिकाम् ॥ १४॥ सर्वाद्यामगुणामलक्ष्यवपुषं व्याप्याखिलं संस्तुतां लक्ष्यां च त्रिगुणात्मिकां कनकभां सौवर्णभूषान्विताम् । बीजापूरगदे च खेटकसुधापात्रे करैर्बिभ्रतीं योनिं लिङ्गमहिं च मूर्ध्नि दधतीं चण्डीं भजे चिन्मयीम् ॥ १५॥ धृत्वा श्रीर्मातुलिङ्गं तदुपरि च गदां खेटकं पानपात्रं नागं लिङ्गं च योनिं शिरसि धृतवती राजते हेमवर्णा । आद्या शक्तिस्त्रिरूपा त्रिगुणपरिवृता ब्रह्मणो हेतुभूता विश्वाद्या सृष्टिकर्त्री वसतु मम गृहे सर्वदा सुप्रसन्ना ॥ १६॥ या सा पद्मासनस्था विपुलकटितटीपद्मपत्रायताक्षी गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुभै- र्नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ॥ १७॥ लक्ष्मीं कोल्हापुरस्थां भुवि गणपतिनाऽग्रे च पार्श्वद्वये तां काल्या वाण्याऽऽसमन्तात्परिजननिकरैः सेवितां देवताभिः । नागं लिङ्गं च योनिं स्वशिरसि दधतीं मातुलिङ्गं गदां तत् खेटं श्रीपानपात्रं त्रिभुवनजननीं नौमि दोर्भिश्चतुर्भिः ॥ १८॥ हस्तैः पद्मं रथाङ्ग गुणमथ हरिणं पुस्तकं वर्णमालां टङ्कं शूलं कपालं दरममृतलसद्धेमकुम्भं वहन्तीम् । मुक्ताविद्युत्पयोधेः स्फटिकनवजपाबन्धुरैः पञ्चवक्त्रै- स्त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां मातृकां तां नमामि ॥ १९॥ ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी । वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा चामुण्डा गणनाथरुद्रसहिता रक्षन्तु मां मातरः ॥ २०॥ अरुणकमलसंस्था तद्रजःपुञ्जवर्णा करकमलधृतेष्टाभीतियुग्माम्बुजा च । मणिमुकुटविचित्राऽलङ्कृता कल्पजालै- र्भवतु भुवनमाता सन्ततं श्रीः श्रिये नः ॥ २१॥ हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारिष्टाभीतिहस्तां त्रिनेत्राम् । हेमाब्जस्थां पीतवर्णां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ २२॥ सिन्दूरारुणविग्रहां त्रिनयनां माणिक्यमौलिस्फुरत्- तारानायकशेखरां स्मितमुखीमापीनवक्षोरुहाम् । पाणिभ्यामतिपूर्णरत्नचषकं रक्तोत्पलं बिभ्रतीं सौम्यां रत्नघटस्थरक्तचरणां ध्यायेत्परामम्बिकाम् ॥ २३॥ बिभ्राणा शूलबाणास्यरिसदरगदाचापपाशान् कराब्जै- र्मेघश्यामा किरीटोल्लसितशशिकला भीषणा भूषणाढ्या । सिंहस्कन्धाधिरूढा चतसृभिरसिखेटान्विताभिः परीता कन्याभिर्भिन्नदैत्या भवतु भवभयध्वंसिनी शूलिनी वः ॥ २४॥ अष्टौभुजाङ्गीन् महिषस्य मर्दिनीं सशङ्खचक्रां शरशूलधारिणीम् । तां दिव्यरूपां सह जातवेदसीं दुर्गां सदा शरणमहं प्रपद्ये ॥ २५॥ महिषमस्तकनृत्तविनोदनस्फुटरणन्मणिनूपुरमेखला । जननरक्षणमोक्षविधायिनी जयतु शुम्भनिशुम्भनिषूदनी ॥ २६॥ उद्धतौ मधुकैटभौ महिषासुरं च निहत्य तं धूम्रलोचन चण्ड मुण्ड रक्तबीजमुखांश्च तान् । दुष्टशुम्भनिशुम्भमर्दिनि नन्दिताऽमरवन्दिते विष्टपत्रयतुष्टिकारिणि भद्रकालि नमोऽस्तु ते ॥ २७॥ लक्ष्मीप्रदानसमये नवविद्रुमाभां विद्याप्रदानसमये शरदिन्दुशुभ्राम् । विद्वेषिवर्गविजयेऽपि तमालनीलां देवीं त्रिलोकजननीं शरणं प्रपद्ये ॥ २८॥ चन्द्रहासं त्रिशूलं च शङ्खचक्रगदास्तथा । धनुर्बाणं च मुसलं पिङ्गलं मुष्टिमेव च ॥ २९॥ पाशाङ्कुशभुसुण्ठीश्च मुद्गरं परशुं तथा । वज्रायुधं च कुन्तं च खट्वाङ्गं च हलायुधम् ॥ ३०॥ तूणीरं क्षुरिकां मुद्रां तोमरं पानपात्रकम् । पट्टसन्दण्डनागं च कुन्तदन्तौ तथैव च ॥ ३१॥ दर्पणं रुद्रवीणां च बिभ्रद्वात्रिंशदोस्तलाम् । पद्मरागप्रभां देवीं बालार्ककिरणारुणाम् ॥ ३२॥ रक्तवस्त्रपरीधानां रक्तमाल्यानुलेपनाम् । दशपादाम्बुजां देवीं दशमण्डलपूरिताम् ॥ ३३॥ दशाननां त्रिनेत्रां च समुन्नतपयोधराम् । एवं ध्यायेन्महाज्वालां महिषासुरमर्दिनीम् ॥ ३४॥ सर्वदारिद्र्यशमनीं सर्वदुःखनिवारिणीम् । ब्रह्माण्डमध्यजिह्वां तां महावक्त्रकरालिनीम् ॥ ३५॥ दशसाहस्रदोर्दण्डां नानाशस्त्रास्त्रधारिणीम् । विचित्रायुधसन्नद्धां विश्वरूपां शिवात्मिकाम् ॥ ३६॥ दानवान्तकरीं देवीं रक्तबीजवधोद्यताम् । रक्तवस्त्रधरां चण्डीं भीषणामतिभैरवाम् ॥ ३७॥ सम्पूर्णयौवनां लक्ष्मीं कालिकां कमलाननाम् । मधुकैटभसहर्त्रीं महिषासुरमर्दिनीम् ॥ ३८॥ चण्डमुण्डशिरश्छेत्त्रीं सर्वदैत्यनिषूदिनीम् । रक्तबीजस्य सहर्त्रीमशेषासुरभक्षिणीम् ॥ ३९॥ निशुम्भशुम्भमथिनीमशेषायुधभीषणाम् । महाब्रह्माण्डमालाङ्गीं सर्वाभरणभूषिताम् ॥ ४०॥ वेतालवाहनारूढां सिंहव्याघ्रादिवाहनाम् । नररक्तप्रियां मायां मधुमांसोपहारिणीम् ॥ ४१॥ य इदं श‍ृणुयान्नित्यं त्रिसन्ध्यं यः पठेन्नरः । ऋणकोट्यपहरणं रोगदारिद्र्यनाशनम् ॥ ४२॥ सर्वसिद्धिकरं पुण्यं सर्वकामफलप्रदम् । भक्तानन्दकरीं देवीं परब्रह्मस्वरूपिणीम् ॥ ४३॥ तामष्टादशपीठस्थां त्रिपुरामधिदेवताम् । वन्दे विश्वेश्वरीं देवीं भुक्तिमुक्तिफलप्रदाम् ॥ ४४॥ हदं सप्तशतीध्यानं सर्वरक्षाकरं नृणाम् । रसं रसायनं सिद्ध्येद्गुलिकाञ्जनसिद्धिदम् ॥ ४५॥ पादुकायुगुलं सिद्ध्येन्मन्त्रसिद्धिकरं नृणाम् । सौन्दर्यराजसम्मानपुत्रपौत्राभिवर्धनम् ॥ ४६॥ ऐश्वर्यलाभविजयभुक्तिमुक्तिफलप्रदम् । सदासन्निहितां लक्ष्मीं चण्डिकां मम देवताम् ॥ ४७॥ स्मरेन्नित्यं प्रयत्नेन षण्मासात्प्राप्यते फलम् । महाभयापहरणं शत्रुक्षयकरं तथा ॥ ४८॥ अचलां श्रियमाप्नोति सर्वव्याधिविनाशनम् । अन्ते स्वर्गं च मोक्षं च सत्यमेव न संशयः । इति श्रीकाशीकर अनन्तभट्टसुतरामकृष्णभट्टसम्पादित- सप्तशतीध्यानात्मकस्तोत्रं सम्पूर्णम् ॥