अक्षर आकार:

श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रं

Shri Santoshimata Ashtottarashata Nama Stotram 108 Names

श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रं

ॐ श्रीगणेशाय नमः । सन्तोषजननी माता सर्वसम्पत्प्रदायिनी । सामादिवेदसंस्तुत्या समानादिकवर्जिता ॥ १॥ अकारादि क्षकारान्ता आद्यन्तरहिताङ्गना । अम्लानवदनाम्लेन म्लायमानमुखाम्बुजा ॥ २॥ करुणा कारणा कार्या काशीक्षेत्रविराजिता । कथाश्रवणसन्तुष्टा कामितार्थप्रदायिनी ॥ ३॥ कालदेशापरिच्छिन्ना कालकाला कुटुम्बजा । गुणत्रयस्वरूपार्याऽऽर्या कुडभक्तगणार्चिता ॥ ४॥ गुणग्रामा गुणाराध्या गुणारामा गुणाश्रया । गृहार्चिता गृहाराध्या गृहस्थजनपोषिणी ॥ ५॥ जया जयप्रदा जप्या जननी जन्मवर्जिता । जीविता जीवना जीव्या जीवलोकसुखङ्करी ॥ ६॥ नमस्कारप्रिया नम्या नादिनी विश्वमोहिनी । पुण्या पुण्यप्रदा पुण्यलब्धा पुरुजनाश्रिता ॥ ७॥ भवा भवानी भव्यस्था भामिनी भाविराजिता । भाग्यदा भारती भाव्या भार्यापुत्रसुखप्रदा ॥ ८॥ माया मान्या महादेवि महादेवसुतोत्भवा । मतिर्दान्तिः कृतिः कीर्तिर्धृतिः कान्तिर्गतिः स्मृतिः ॥ ९॥ मधुरा मधुरप्रीता मथुरानाथसंस्तुता । विजया विश्वसंसेव्या विज्ञा विज्ञानदायिनी ॥ १०॥ शक्ता शक्तिस्वरूपा च शाम्भवी शम्भुलालिता । शल्यादिदोषहन्त्री च शमादिगुणसेविता ॥ ११॥ विघ्नहन्त्री विघ्ननाथा विघ्नराजकुलोद्भवा । शरण्या शारदा शीता शूलखड्गधराम्बिका ॥ १२॥ शुभा शुभप्रदा शुद्धा शुक्रवारव्रतार्चिता । शोभना शोभनाकारा शोभमानमुखाम्बुजा ॥ १३॥ श्रीप्रदा श्रीनिधिः श्रीशा श्रितमानसतोषदा । सिद्धिबुद्धिसुधासेव्या सिद्धिबुद्धिहितप्रदा ॥ १४॥ क्षमारूपा क्षमाधारा क्षान्तिः शान्तिः शिवङ्करी ॥ १५॥ फलश्रुतिः - सन्तोषीमातुरित्येवं पुण्यमष्टोत्तरं शतम् । गदितं लोककल्याणदायकं सौख्यवर्धनम् ॥ १६॥ शुक्रवारे विशेषेण पठित्वा मातृसन्निधौ । आरोग्यं भोगमैश्वर्यं सर्वान्कामानवाप्नुयात् ॥ १७॥ इति श्रीसन्तोषीमातुरष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।