अक्षर आकार:

श्रीसन्तोषीमातुरष्टोत्तरशतनामावलिः

Shri SantoshimatuH AshtottarashatanamavaliH 108 Names

श्रीसन्तोषीमातुरष्टोत्तरशतनामावलिः

ॐ सन्तोषजनन्यै नमः । मात्रे । सर्वसम्पत्प्रदायिन्यै । सामादिवेदसंस्तुत्यायै । समानादिकवर्जितायै । अकारादिक्षकारान्तायै । आद्यन्तरहितायै । अङ्गनायै । अम्लानवदनायै । आम्लम्लायमानमुखाम्बुजायै । करुणायै । कारणायै । कार्यायै । काशीक्षेत्रविराजितायै । कथाश्रवणसन्तुष्टायै । कामितार्थप्रदायिन्यै । कालदेशापरिच्छिन्नायै । कालकालायै । कुटुम्बजायै । गुणत्रयस्वरूपायै नमः । २० ॐ आर्यायै नमः । गुणभक्तगणार्चितायै । गुणग्रामायै । गुणाराध्यायै । गुणारामायै । गुणाश्रयायै । गृहार्चितायै । गृहाराध्यायै । गृहस्थजनपोषिण्यै । जयायै । जयप्रदायै । जप्यायै । जनन्यै । जन्मवर्जितायै । जीवितायै । जीवनायै । जीव्यायै । जीवलोकसुखङ्कर्यै । नमस्कारप्रियायै । नम्यायै नमः । ४० ॐ नादिन्यै नमः । विश्वमोहिन्यै । पुण्यायै । पुण्यप्रदायै । पुण्यलब्धायै । पुरुजनाश्रितायै । भवायै । भवान्यै । भव्यस्थायै । भामिन्यै । भाविराजितायै । भाग्यदायै । भारत्यै । भाव्यायै । भार्यापुत्रसुखप्रदायै । मायायै । मान्यायै । महादेव्यै । महादेवसुतोद्भवायै । मत्यै नमः । ६० ॐ दान्त्यै नमः । कृत्यै । कीर्त्यै । धृत्यै । कान्त्यै । गत्यै । स्मृत्यै । मधुरायै । मधुरप्रीतायै । मथुरानाथसंस्तुतायै । विजयायै । विश्वसंसेव्यायै । विज्ञायै । विज्ञानदायिन्यै । शक्तायै । शक्तिस्वरूपायै । शाम्भव्यै । शम्भुलालितायै । शल्यादिदोषहन्त्र्यै । शमादिगुणसेवितायै नमः । ८० ॐ विघ्नहन्त्र्यै नमः । विघ्ननाथायै । विघ्नराजकुलोद्भवायै । शरण्यायै । शारदायै । शीतायै । शूलखड्गधरायै । अम्बिकायै । शुभायै । शुभप्रदायै । शुद्धायै । शुक्रवारव्रतार्चितायै । शोभनायै । शोभनाकारायै । शोभमानमुखाम्बुजायै । श्रीप्रदायै । श्रीनिध्यै । श्रीशायै । श्रितमानसतोषदायै । सिद्धिबुद्धिसुधासेव्यायै नमः । १०० ॐ सिद्धये नमः । बुद्धये । हितप्रदायै । क्षमारूपायै । क्षमाधारायै । क्षान्त्यै । शान्तायै । शिवङ्कर्यै । १०८ ॐ सन्तोषीमात्रे नमः । फलश्रुतिः - सन्तोषीमातुरित्येवं पुण्यमष्टोत्तरं शतम् । गदितं लोककल्याणदायकं सौख्यवर्धनम् ॥ शुक्रवारे विशेषेण पठित्वा मातृसन्निधौ । आरोग्यं भोगमैश्वर्यं सर्वान्कामानवाप्नुयात् ॥ इति श्रीसन्तोषीमातुरष्टोत्तरशतनामावलिः समाप्ता ।