अक्षर आकार:

श्रीसन्तोषीमातु प्रातःस्मरण पञ्चरत्नम्

Shri Santoshi Mata Pratahsmarana Pancharatnam

श्रीसन्तोषीमातु प्रातःस्मरण पञ्चरत्नम्

ॐ श्रीगणेशाय नमः । प्रातःस्मरामि निजपादनतस्य जन्तोः सर्वेष्टपूरणनिजव्रतमाननीयाम् । विश्वैकवन्द्यनिजपादसुपङ्कजां तां सन्तोषिमातरममूं वरदां वरेण्याम् ॥ १॥ प्रातर्नमामि सकलस्य हि भारतस्य सर्वेप्सितप्रदमहामहिमोज्ज्वलां ताम् । श्रीशङ्खचक्रवरपद्मसुपादरेखां सन्तोषिमातरममूं वरदां वरेण्याम् ॥ २॥ प्रातर्वदामि कमला वरदा च वाणी गौरी स्वरूपमुपकाम्य विराजमानाम् । सन्तोषिमातुरखिलेष्टफलप्रदानात् माहात्म्यमेव विदितं जगदम्बिकायाः ॥ ३॥ प्रातः श‍ृणोमि निखिलावनिभक्तवर्ग- सन्तोषभाग्यविभवाऽभयदान शौण्डम् । सर्वस्वदाननिपुणं सुखदा विशेषं सन्तोषिमातुरधिकाधिकभक्तिपूर्णम् ॥ ४॥ प्रतः पठामि निखिलावधि गीयमानं श्रेयःप्रदं श्रितजनावनजाकरूकम् । साहस्रनामशतनामसुगीतजातं सन्तोषिमातुरखिलाण्डमनोहरायाः ॥ ५॥ मध्यप्रदेशगिरिश‍ृङ्गनिकेतनायाः सन्तोषिमातुरधिकाधिकभाग्यदायाः । श्रीपञ्चरत्नमिदमादरतः पठेद्यः जीयात् स सर्वविजयी सूधनी चिरायुः ॥ ६॥ इति श्रीसन्तोषीमातु प्रातःस्मरणपञ्चरत्नं समाप्तम् ।