अक्षर आकार:

श्रीसन्तोषीमाता मङ्गलाष्टकम्

Shri SantoShi Mata Mangala Ashtakam

श्रीसन्तोषीमाता मङ्गलाष्टकम्

ॐ श्रीगणेशाय नमः । महागणेशसुतयोः रक्षाबन्धनहेतवे । गणेशकृपया जात सन्तोषिण्यै सुमङ्गलम् ॥ १॥ गौरी वाणी रमादेवी शक्त्या रक्षणहेतवे । समुद्योदिकरूपायै सन्तोषिण्यै सुमङ्गलम् ॥ २॥ मध्यप्रदेशमध्यस्थगिरिशॄङ्गालये शुभे । कलाषोडशसम्पूर्णा सन्तोषिण्यै सुमङ्गलम् ॥ ३॥ अष्टमी नवमी पूर्णा भृगुवारे विशेषतः । पूजया चातितुष्टायै सन्तोषिण्यै सुमङ्गलम् ॥ ४॥ शान्तायै साधकानां च कोपनायै विरोधिनाम् । सर्वशक्तिस्वरूपिण्यै सन्तोषिण्यै सुमङ्गलम् ॥ ५॥ वर्धिन्यै धर्मवर्धिन्यै हर्षदायै क्षणे क्षणे । सर्वमङ्गलरूपिण्यै सन्तोषिण्यै सुमङ्गलम् ॥ ६॥ स्वर्णायै स्वर्णवर्णायै स्वर्णदायै स्वपूजके । गोदायै ख्यातिदायै च सन्तोषिण्यै सुमङ्गलम् ॥ ७॥ अतिरौद्रातिसौम्यायै सिद्धिदायै सुकर्मणाम् । सर्वरक्षाकरायै च सन्तोषिण्यै सुमङ्गलम् ॥ ८॥ सन्तोषिणीजगन्मातुर्मङ्गलं पठतां गृहे । मङ्गलानि प्रवर्तन्ते तत्र लक्ष्मीश्च सुस्थिरा ॥ ९॥ इति श्रीसन्तोषीमाता मङ्गलाष्टकं सम्पूर्णं