अक्षर आकार:

श्रीसङ्कल्पकल्पद्रुमः

Shri Sankalpakalpadrumah

श्रीसङ्कल्पकल्पद्रुमः

श्रीश्रीराधामदनगोपालो विजयते वृन्दावनेश्वरि वयोगुणरूपलीला सौभाग्यकेलिकरुणाजलधेऽवधेहि । दासी भावानि सुखयानि सदा सकान्तां त्वामालीभिः परिवृतामिदमेव याचे ॥ १॥ श‍ृङ्गारयाणि भवतीमभिसारयाणि वीक्ष्यैव कान्तवदनं परिवृत्य यान्तीम् । धृत्वाञ्चलेन हरिसन्निधिमानयानि सम्प्राप्य तर्जनसुधां हृषिता भवानि ॥ २॥ पादे निपत्य शिरसानुनयानि रुष्टां तां प्रत्यपाङ्गकलिकामपि चालयानि । तद्दोर्द्वयेन सहसा परिरम्भयानि रोमाञ्चकञ्चुकवतीमवलोकयानि ॥ ३॥ प्राणप्रिये कुसुमतल्पमलङ्कुरु त्वं इत्यच्युतोकित्मकरन्दरसं धयानि । मां मुञ्च माधव सतीमिति गद्गदार्ध वाचस्तवैत्य निकटं हरिमाक्षिपानि ॥ ४॥ वामामुदस्य निजवक्षसि तेन रुद्धां आनन्दबाष्पतिमितां मुहुरुच्छलन्तीम् । व्यस्तालकां स्खलितवेणीमबद्धनीवीं त्वां वीक्ष्य साधु जनुरेव कृतार्थयानि ॥ ५॥ तल्पे मयैव रचिते बहुशिल्पभाजि पौष्पे निवेश्य भवतीं नननेति वाचम् । कृष्णं सुखेन रमयन्तमनन्तलीलं वातायनात्तनयनैव निभालयानि ॥ ६॥ स्थित्वा बहिर्व्यजनयन्त्रनिबद्धडोरी पाणिर्विकर्षणवशान्मृदु बीजयानि । उत्तुङ्गकेलिकलितश्रमबिन्दुजालं आलोपयानि मणितैः स्मितमुद्गीराणि ॥ ७॥ श्रीरूपमञ्जरिमुखप्रियकिङ्करीणां आदेशमेव सततं शिरसा वहानि । तेनैव हन्त तुलसी परमानुकम्पा पान्नीभवानि करवाणि सुखेन सेवाम् ॥ ८॥ माल्यानि हारकटादिमृजा विचित्र वर्तिः शितांशुघुसृणागुरुचन्दनादि । वीटीर्लवङ्गखपुरादियुताः सखीभिः सार्धं मुदा विरचयानि कलां प्रकाश्य ॥ ९॥ त्वां स्रस्तवेषवसनाभरणां सकान्तां वीक्ष्य प्रसाधनविधौ द्रुतमुद्यताभिः । श्रीरूपरङ्गतुलसीरतिमञ्जरीभि- र्दृष्टानयानि तव संमुखमेव तानि ॥ १०॥ त्वामाशिखाचरणमूढविचित्रवेषां स्प्रष्टुं पुनश्च धृततृष्णमवेक्ष्य कृष्णम् । आयान्तमेव विकटभ्रूकुटीविभङ्ग हुङ्कृत्युदञ्चितमुखी विनिवर्तयानि ॥ ११॥ तत्रैत्य विस्मयवतीं ललितां प्रतीह साध्वीत्वकण्टकविनिष्क्रमनार्थमस्याः । प्राप्तं न्यसिद्धदयि मामियमेव धूर्ते- त्युक्तिं हरेः स्वहृदयं रसयानि नित्यम् ॥ १२॥ निष्क्रम्य कुञ्जभवनाद्विपिने विहर्तुं कान्तैकबाहुपरिरब्धतनुं प्रयान्तीम् । त्वामालीभिः सह कथोपकथाप्रफुल्ल वक्त्रामहं व्यजनपाणिरनुप्रयाणि ॥ १३॥ गायानि ते गुणगणांस्तव वर्त्म गम्यं पुष्पास्तरैर्मृदुलयानि सुगन्धयानि । सालीततिः प्रतिपदं सुमनोऽतिवृष्टिं स्वामिन्यहं प्रतिदिशं तनवानि बाढम् ॥ १४॥ प्रेष्ठस्वपानि कृतकौसुमहार काञ्ची केयूरकुण्डलकिरीटविराजिताङ्गीम् । त्वां भूषयाणि पुनरात्मकवित्वपुष्पै- रास्वादयानि रसिकालिततीरिमानि ॥ १५॥ चन्द्रांशुरूप्यसलिलैरवसिक्तरोध स्यञ्चत्कदम्बसुरभावलिगीतकीर्ति । आरब्धरासरभसां हरिणा सह त्वां तत्पाठितैव विदुषी कलयानि वीणाम् ॥ १६॥ रासं समाप्य दयितेन समं सखीभि- र्विश्रान्तिभाजि नवमालतिकानिकुञ्जे । त्वय्यानयानि रसवत्करकाम्ररम्भा- द्राक्षादिकानि सरसं परिवेषयाणि ॥ १७॥ तल्पे सरोजदलकॢप्तमनङ्गकेलि पर्याप्तमाप्तकलया रचितं तुलस्या । त्वां प्रेयसा सह रसादधिशाययानि ताम्बूलमाशायितुमुल्बनमुल्लसानि ॥ १८॥ संवाहयानि चरणावलकैः स्पृशानि जिघ्राणि सौरभसमूढचमत्क्रियाब्धिः । अक्ष्णोर्दधान्युरसिजौ परिरम्भयानि चुम्बान्यलक्षितमवेक्षितसौकुमार्याः ॥ १९॥ अन्ते निशस्तनुतरप्रसृतालकाल्या ताडङ्कहारततिगन्धवहाग्रमुक्ताः । प्रेष्ठस्य ते तव च संग्रथिता निभाल्य तत्रानयानि परमाप्तसखीः प्रबोध्य ॥ २०॥ ता दर्शयानि सुखसिन्धुषु मज्जयानि ताभ्यः प्रसादमतुलं सहसाप्नुवानि । तन्नूपुरादिरणितैर्गतसान्द्रनिद्रां शय्योत्थितां सचकितां भवतीं भजानि ॥ २१॥ हे स्वामिनि प्रियसखीत्रपयाकुलाया कान्ताङ्गतस्तव वियोक्तुमपारयन्त्याः । उद्ग्रन्थयान्यलककुण्डलमाल्यमुक्ता ग्रन्थिं विचक्षणतयाङ्गुलिकौशलेन ॥ २२॥ नाशाग्रतः श्रुतियुगाच्च वियोजयानि तद्भूषणं मणिसरांस्तु विसूत्रयाणि । प्राणार्बुदादधिकमेव सदा तवैकं रोमापि देवि कलयानि कृतावधाना ॥ २३॥ त्वां सालिमात्मसदनं निभृतं व्रजन्तीं त्यक्त्वा हरेरनुपथं तदलक्षितैत्य । तं खण्डितामनुनयन्तमवेक्ष्य चन्द्रां तद्वृत्तमालिततिसंसदि वर्णयानि ॥ २४॥ प्रक्षालयानि वदनं सलिलैः सुगन्धै- र्दन्तान् रसालजदलैस्तव धावयानि । निर्णेजयानि रसनां तनुहेमपत्र्या सन्दर्शयानि मुकुरं निपुणं प्रमृज्य ॥ २५॥ स्नानाय सूक्ष्मवसनं परिधापयानि हाराङ्गदाद्यप्यङ्गादवतारयाणि । अभ्यञ्जयाण्यरुणसौरभहृद्यतैलै- र्वर्तयानि नवकुङ्कुमचन्द्रचूर्णैः ॥ २६॥ नीरैर्महासुरभिभिः स्नपयानि गात्रा- दम्भांसि सूक्ष्मवसनैरपसारयाणि । केशान् जवादगुरुधूमकुलेन यत्ना- दाशोषयाणि रभसेन सुगन्धयानि ॥ २७॥ वासो मनोभिरुचितं परिधापयानि सौवर्णकङ्कतिकया चिकुरान्विशोध्य । गुम्फानि वेणीममलैः कुसुमैर्विचित्रां अग्रे लसच्चमरिकामणिजातभाताम् ॥ २८॥ चूडामणिं शिरसि मौक्तिकपत्रपास्यां भाले विचित्रतिलकं च मुदारचय्य । अङ्क्त्वाक्षिणी श्रुतियुगं मणिकुण्डलाढ्यं नासामलङ्कृतवतीं करवाणि देवि ॥ २९॥ गण्डद्वये मकरिके चिबुके विलिख्य कस्तुरिकेष्टपृषतं कुचयोश्च चित्रम् । बाह्वोस्तवाङ्गदयुगं मणिबन्धयुग्मे चूडा मसारकलिताः कलयानि यत्नात् ॥ ३०॥ पाण्यङ्गुलीः कनकरत्नमयोर्मिकाभि- रभ्यर्चयानि हृदयं पदकोत्तमेन । मुक्तोतकञ्चुलिकयोरसिजौ विचित्र माल्येन हारनिचयेन च कण्ठदेशम् ॥ ३१॥ काञ्च्या नितम्बमर्थहंसकनूपुराभ्यां पादाम्बुजे दलततिं क्वणदङ्गुरीयैः । लाक्षारसैररुणमप्यनुरञ्जयानि हे देवि तत्तलयुगं कृतपुण्यपुञ्जा ॥ ३२॥ अङ्गानि साहजिकसौरभयन्त्यथानि देव्यर्चयानि नवकुङ्कुमचर्चयैव । लीलाम्बुजं करतले तव धारयाणि त्वां दर्शयानि मणिदर्पणमर्पयित्वा ॥ ३३॥ सौन्दर्यमद्भुतमवेक्ष्य निजं स्वकान्त नेत्रालिलोभनमवेत्य विलोलगात्रीम् । प्राणार्बुदेन विधुवर्तिकदीपकैश्च निर्मञ्छयानि नयनाम्बुनिमज्जिताङ्गी ॥ ३४॥ गोष्ठेश्वरीप्रहितया सह कुन्दवल्ल्या प्राभातिकप्रियतमाशनसाधनाय । यान्तीं समं प्रियसखीभिरनुप्रयाणि ताम्बूलसम्पुटमणिव्यजनादिपाणिः ॥ ३५॥ गोष्ठेश्वरीसदनमेत्य पदे प्रणम्य तस्यास्तदाप्तभविकां त्रपयावृटाङ्गीम् । घ्रात्ं तया शिरसि तन्नयनाम्बुसिक्तां त्वां वीक्ष्य तामहमपि प्रणमामि भक्त्या ॥ ३६॥ मूर्तं तपोऽसि वृषभानुकुलस्य भाग्यं गेहस्य मेऽसि तनयस्य च मे वराङ्गि । नैरुज्यदास्यमृतपाणिरभूर्वरेण दुर्वाससो यदिति तद्वचसा हसानि ॥ ३७॥ स्नातानुलिप्तवपुषो दयितस्य तस्य तात्कालिके मधुरिमन्यतिलोलिताक्षीम् । स्वामिन्यवेत्य भवतीं क्वचन प्रदेशे तत्रैव केन च मिषेण समानयानि ॥ ३८॥ प्रक्षालयानि चरणौ भवदङ्गतः स्रङ्- माल्यादि पाकरचनानुपयोगि यत्तत् । उत्तारयाणि तदिदं तु तवास्त्विति त्व- द्वाचोल्लसानि विकसन्मधुमाधवीव ॥ ३९॥ पक्त्वास्थितां मधुरपायसशाकसूप भाजिप्रभृत्यमृतनिन्दिचतुर्विधान्नम् । त्वां लोकयानि नननेति मुहुर्वदन्तीं गोष्ठेशयापि परिवेषयितुं निदिष्टाम् ॥ ४०॥ तृप्त्युत्थितां प्रियतमाङ्गरुचिं धयन्त्या वातायन्तार्पितदृशः सहसोल्लसन्त्याः । आनन्दजद्युतितरङ्गभरे मनोज मञ्जुकृते तव मनो मम मज्जयानि ॥ ४१॥ राधे तवैव गृहमेतदहं च जाते सूनोः शुभे किमपरां भवतीमवैमि । तद्भुङ्क्ष्व सम्मुखमिति व्रजपागिरा त्व- द्वक्त्रे स्मितं स्वहृदयं रसयानि नित्यम् ॥ ४२॥ यान्तं वनाय सखीभिः सममात्मकान्तं पित्रादिभिः सरुदितैरनुगम्यमानम् । वीक्ष्याप्तगौरवगेहां दिननाथपूजा व्याजेन लब्धगहनां भवतीं भजानि ॥ ४३॥ कान्तं विलोक्य कुसुमावचये प्रवृत्तां आदाय पत्रपुटीकामनुयान्यहं त्वाम् । का तस्करीयमिति तद्वचसा न कापी- त्युक्त्या सहार्पितदृशं भवतीं स्मराणि ॥ ४४॥ पुष्पाणि दर्शय कियन्ति हृतानि चौरी- त्युक्त्यैव पुष्पपुटिकामपि गोपयानि । तद्वीक्ष्य हन्त मम कक्षतले क्षिपन्तं पाणिं बलात्तमभिमृश्य भवानि दूना ॥ ४५॥ रक्षाद्य देवि कृपया निजदासिकां मां इत्युच्चकातरगिरा शरणं व्रजानि । किं धूर्त दुःखयसि मज्जनमित्यमुष्य बाहुं करेण तुदतीं भवतीं श्रयाणि ॥ ४६॥ त्यक्त्वैव मां भवदुरःकवचं विखण्ड्य प्राप्तां श्रजं तव गलात्स्वगले निधाय । पुष्पाणि चौरि मम किं तव कण्ठहेतो- स्तत्कण्ठमेव सुभृशं परिपीडयानि ॥ ४७॥ राजास्ति कन्दरतले चल तत्र धूर्ते तस्याज्ञयैव सहसा च विवस्त्रयिष्ये । तां वीक्ष्य हृष्यति स चेन् निजदिव्यमुक्ता मालां प्रदास्यति ललाटतटे मदीये ॥ ४८॥ दोषो न ते व्रजपतेस्तनयोऽसि तस्य दुष्टस्य यन् नरपतेः खलु सेवकोऽभूः । तद्बुद्धिरीदृगभवन्मम चात्र साध्व्या भाले किमेतदभवल्लिखितं विधात्रा ॥ ४९॥ इत्यादिवाङ्मयसुधामहह श्रुतिभ्यां स्वाभ्यां धयान्युदरपूरमथेक्षणाभ्याम् । रूपामृतं तव सकान्ततया विलास सीधुं च देवि वितराण्यथ मादयानि ॥ ५०॥ प्रेष्ठे सरस्यभिनवां कुसुमैर्विचित्रां हिन्दोलिकां प्रियतमेन सहाधिरूढाम् । त्वां दोलयान्यथ किराणि परागराजि- र्गायानि चारुमहतीमपि वादयानि ॥ ५१॥ वृन्दावने सुरमहीरुहयोगपीठे सिंहासने स्वरमणेन विराजमानाम् । पाद्यार्घ्यधूपविधुदीपचतुर्विधान्न स्रग्भूषणादिभिरहं परिपूजयानि ॥ ५२॥ गोवर्धने मधुवनेषु मधूत्सवेन विद्रावितात्रपसखीशतवाहिनीकाम् । पिष्टात युद्धमनु कान्तजयाय यान्तीं त्वां ग्राहयाणि नवजातुषकूपिकालीः ॥ ५३॥ अग्रे स्थितोऽस्मि तव निश्चय एव वक्ष उद्घाट्य कन्दुकचयं क्षिप चेद्बलिष्ठा । उद्घाट्य कञ्चुकमुरः किल दर्शयन्ती त्वं चापि तिष्ठ यदि ते हृदि वीरतास्ति ॥ ५४॥ यत्कथ्यसे तदयमेव तव स्वभावो यत्पूर्वजन्मनि भवानजितः किलासीत् । मिथ्यैव तत्यदिह भोः कतिशो जितोऽभू- र्मत्किङ्करीभिरपि तद्विगतत्रपोऽसि ॥ ५५॥ इत्येवमुत्पुलकिनी कलयानि वाचः सिञ्जानकङ्कणझनत्कृतदुन्दुभीकम् । युद्धं मुखामुखि रदारदि चारुबाहु बाहव्यमन्दनखरानखरि स्तुवानि ॥ ५६॥ कस्याञ्चिदद्रिनृपदीव्यदुपत्यकायां स प्रेयसि त्वयि सखीशतवेष्टितायाम् । विश्रान्तिभाजि वनदेवतयोपनीता नीष्टानि सीधुचषकाणि पुरा दधानि ॥ ५७॥ हा किं किं किं धधरणी घुघुघूर्णतीयं धाधाधधावति भयाद्विविवृक्षपुञ्जः । भीभीभिभीरुरहमत्र कथं जिजीवा- म्येवं लगिष्यसि सदा दयितस्य कण्ठे ॥ ५८॥ त्वत्स्वामिनी प्रलपतीयमिमां गदेन हीनां करोमि कलयात्र निरेहि नेतः । इत्युक्तिसीधुरसतर्पितहृत्तदैव निष्क्रम्य जाल विततौ विदधानि नेत्रे ॥ ५९॥ घ्राणाक्षिकर्णवदने जलसेकतत्या कृष्णस्त्वया जित इतः सहसा निमज्ज्य । ग्राहो भवन् स खलु यत्कुरुते स्म तत्तु वेदान्यहं तव मुखाम्बुजमेव वीक्ष्य ॥ ६०॥ अभ्यञ्जयानि ससखीदयितां सहालि- स्त्वां स्नापयानि वसनाभरणैर्विचित्रम् । श‍ृङ्गारयाणि मणिमन्दिर पुष्पतल्पे सम्भोजयानि करकाद्यथ शाययानि ॥ ६१॥ वाणीरकुञ्ज इह तिष्ठति देवी निह्नुत्य मृग्यसि कथं तदितः परत्र । सत्यामिमां मम गिरं तमविश्वसन्तं यान्तं मयि प्रदर्श्य भवती हर्षयाणि ॥ ६२॥ स्वामिन्यमूत्रहरिरस्ति कदम्बकुञ्जे निह्नुत्य मृग्यसि कथं तदितः परत्र । सत्यामिमां मम गिरं खलु विश्वसत्याः पाणौ जयं तव नयानि तमाप्नुवत्याः ॥ ६३॥ राधे जिता च जयिनी च पणं न दातुं आदातुमप्यहह चुम्बनमीशिषे त्वम् । नाश्लेषचुम्बमधुराधरपानतोऽन्यं द्यूते ग्लहं रसविदः प्रवरं वदन्ति ॥ ६४॥ गोवर्धनेऽत्र मम कापि सखी पुलिन्द कन्यास्ति भृङ्ग्यतितरां निपुणेदृशेऽर्थे । मद्ग्राह्यदेयपणवस्तुनि मन्नियुक्ता सा ते गृहीष्यति च दास्यति चोपगूहम् ॥ ६५॥ उक्त्वेत्थमात्मदयितं प्रति वक्ष्यसे मां याहीत्यथोत्पुलकिनी द्रुतपादपाता । तामानयान्युप मुकुन्दमथासयानि तं लज्जयानि सुमुखीरति हासयानि ॥ ६६॥ स्वीया किल व्रजपुरे मुरली तवैका प्राभून् न तामपि भवानवितुं स्वभार्याम् । सा लम्पटापि भवतोऽधरसीधुसिक्ता- प्यन्यं पुमांसमिह मृग्यति चित्रमेतत् ॥ ६७॥ वंशीं सतीं गुणवतीं सुभगां द्विषन्त्योऽ साध्व्यो भवत्य इह तत्समतामलब्धाः । तां क्वापि बन्धमनयंस्तदहं भुजाभ्यां बद्ध्वैव वः शिखरिगह्वरगाः करोमि ॥ ६८॥ इत्यागतं हरिमवेक्ष्य रहस्तदीय कक्षादहं मुरलिकां सहसा गृहीत्वा । तां गोपयानि तदलक्षितमात्तचित्र पुष्पेषु सङ्गररसां कलयानि च त्वाम् ॥ ६९॥ ब्रह्मन्निमामनुगृहाण भवन्तमेव भास्वन्तमर्चयितुमिच्छति मे स्नुषेयम् । इत्यार्यया प्रणमितां धृतविप्रवेशे कृष्णेऽर्पितां च भवतीं स्मितभाग्भजानि ॥ ७०॥ यान्तीं गृहं स्वगुरुनिघ्नतयातिलौल्यात्- कान्तावलोकनकृते मिषमामृशन्तीम् । दूरेऽनुयानि यदतोऽनुविवर्तितास्यां एहीति वक्ष्यसि तदास्यरुचो धयन्ती ॥ ७१॥ गेहागतां विरहिणीं नवपुष्पतल्पे त्वां शाययानि परतः किल मुर्मुराभात् । तस्मात्परत्र शयनं विसपुञ्जकॢप्तं अध्याशयानि विधुचन्दनपङ्कलिप्ताम् ॥ ७२॥ आकर्ण्य चन्दनकलाकथितं व्रजेशा सन्देशमुत्सुकमतेः सरसा सहाल्याः । सायन्तनाशनकृते दयितस्य नव्य कर्पूरकेलिबटकादिविनिर्मितौ ते ॥ ७३॥ लिम्पानि चुल्लिमथ तत्र कटाहमच्छ मारोहयाणि दहनं रचयानि दीप्तम् । निराज्यखण्डकदलीमरिचेन्दुसीरि गोधूमचूर्णमुखवस्तु समानयानि ॥ ७४॥ अत्यद्भुतं मलयजद्रवसेकतत्या वृद्धिं जगाम यदिदं विरहानलौजः । कर्पूर केलीबटकावलिसाधनाग्नि ज्वालेन शान्तिमनयत्तदिति ब्रुवाणि ॥ ७५॥ धूलिर्गवां दिशमरुद्ध हरेः सहाम्बा रावेत्युदन्तमतुलं मधु पाययानि । तत्पानसंमदनिरस्तसमस्तकृत्यां त्वामुत्थितां सहगणामभिसारयाणि ॥ ७६॥ तत्कृष्णवर्त्मनिकटस्थलमानयानि निर्वापयाणि विरहानलमुन्नतं ते । आयात एष इति वल्लिनिगूढगात्रीं आकृष्य मह्यमहहेश्वरि कोपयानि ॥ ७७॥ श्रीकृष्णदृङ्मधुलिहौ भवदास्यपद्मं आघ्रापयाण्यतितृषन् तव दृक्चकोरीम् । तद्वक्त्रचन्द्रविकसत्स्मितधारयैव संजीवयानि मधुरिम्णि निमज्जयानि ॥ ७८॥ वैवश्यमस्य तव चाद्भुतमीक्षयाणि त्वामानयानि सदनं ललितानिदेशात् । कर्पूरकेल्यमृतकेलिततिं प्रदातुं गोष्ठेश्वरीमनु सराणि समं सखीभिः ॥ ७९॥ गत्वा प्रणम्य तव शं कथयानि देवि पृष्टा तयाथ बटकावलिं भोक्षयित्वा । तां हर्षयाणि भवदद्भुतसद्गुणाली- स्तत्कीर्तिताः सवयसे श‍ृणवानि हृष्टा ॥ ८०॥ वीक्ष्यागतं तनयमुन्नतसम्भ्रमोर्मि मग्नां स्तनाक्षिपयसामभिषिच्य पूरैः । अभ्यञ्जनादिकृतये निजदासिकास्ता मां चापि तां निदिशतीं मनसा स्तवानि ॥ ८१॥ स्नानानुलेपवसनाभरणैर्विचित्र शोभस्य मित्रसहितस्य तया जनन्या । स्नेहेन साधु बहुभोजितपायितस्य तस्यावशेषितमलक्षितमाददानि ॥ ८२॥ तेनैव कान्तविरहज्वरभेषजेन तात्कालिकेन तदुदन्तरसेन चापि । आगत्य साधु शिशिरीकरवाणि शीघ्रं त्वन्नेत्रकर्णरसनाहृदयाणि देवि ॥ ८३॥ स्नानाय पावनतडागजले निमग्नां तीर्थान्तरे तु निजबन्धुवृतो जलस्थः । संमज्ज्य तत्र जलमध्यत एत्य स त्वां आलिङ्ग्य तत्र गत एव समुत्थितः स्यात् ॥ ८४॥ तन् नो विदुर्निकटगा अपि ते ननन्दृ स्वस्रादयो न किल तस्य सहोदराद्याः । ज्ञात्वाहमुत्पुलकितैव सहालिरेत- च्चातुर्यमेत्य ललितां प्रति वर्णयामि ॥ ८५॥ उद्यानमध्यवलभीमधिरुह्य तत्र वातायनार्पितदृशं भवतीं विधाय । सन्दर्श्य तत्प्रियतमं सुरभीर्दुहानं आनन्दवारिधिमहोर्मिषु मज्जयानि ॥ ८६॥ गत्वा मुकुन्दमथ भोजितपायितं तं गोष्ठेशया तव दशां निभृतं निवेद्य । सङ्केतकुञ्जमधिगत्य पुनः समेत्य त्वां ज्ञापयान्ययि तदुत्कलिकाकुलानि ॥ ८७॥ त्वां शुक्लकृष्णरजनीसरसाभिसार योग्यैर्विचित्रवसनाभरणैर्विभूष्य । प्रापय्य कल्पतरुकुञ्जमनङ्गसिन्धौ कान्तेन तेन सह ते कलयानि केलीः ॥ ८८॥ हे श्रीतुलस्युरुकृपाद्युत तरङ्गिणी त्वं यन्मूर्ध्नि मे चरणपङ्कजमादधाः स्वम् । यच्चाहमप्यपिबमम्बु मनाक् तदीयं तन्मे मनस्युदयमेति मनोरथोऽयम् ॥ ८९॥ क्वाहं परशतनिकृत्यनुबिद्धचेताः संकल्प एष सहसा क्व सुदुर्लभार्थे । एका कृपैव तव मामजहत्युपाधि शून्यैव मन्तुमदधत्यगतेर्गतिर्मे ॥ ९०॥ हे रङ्गमञ्जरि कुरुष्व मयि प्रसादं हे प्रेममञ्जरि किरात्र कृपादृशं स्वाम् । मामानय स्वपदमेव विलासमञ्ज- र्यालीजनैः सममुरीकुरु दास्यदाने ॥ ९१॥ हे मञ्जुलालि निजनाथपदाब्जसेवां सातत्यसम्पदतुलासि मयि प्रसीद । तुभ्यं नमोऽस्तु गुणमञ्जरि मां दयस्व मामुद्धरस्व रसिके रसमञ्जरि त्वम् ॥ ९२॥ हे भानुमत्यनुपमप्रणयाब्धिमग्ना स्वस्वामिनोस्त्वमसि मां पदवीं नय स्वाम् । प्रेमप्रवाहपतितासि लवङ्गमञ्ज- र्यात्मीयतामृतमयीं मयि धेयि दृष्टिम् ॥ ९३॥ हे रूपमञ्जरि सदासि निकुञ्जयूनोः केलिकलारसविचित्रितचित्तवृत्तिः । त्वद्दत्तदृष्टिरपि यत्समकल्पयं तत्- सिद्धौ तवैव करुणा प्रभुतामुपैतु ॥ ९४॥ राधाङ्ग शश्वदुपगूहनतस्तदाप्त धर्मद्वयेन तनुचित्तधृतेन देव । गौरो दयानिधिरभूरपि नन्दसूनो तन्मे मनोरथलतां सफलीकुरु त्वम् ॥ ९५॥ श्रीराधिकागिरिभृतौ ललिताप्रसाद लभ्याविति व्रजवने महतीं प्रसिद्धिम् । श्रुत्वाश्रयाणि ललिते तव पादपद्मं कारुण्यरञ्जितदृशं मयि हा निधेहि ॥ ९६॥ त्वं नामरूपगुणशीलवयोभिरैक्या- द्राधेव भासि सुदृशां सदसि प्रसिद्धा । आगःशतान् न गणयन्त्युररीकुरुष्व तन्मां वराङ्गि निरुपाधिकृपे विशाखे ॥ ९७॥ हे प्रेमसम्पदतुला व्रजनव्ययूनोः प्राणाधिकाः प्रियसखाः प्रियनर्मसख्यः । युष्माकमेव चरणाब्जरजोऽभिषेकं साक्षादवाप्य सफलोऽस्तु ममैव मूर्धा ॥ ९८॥ वृन्दावनीयमुकुट व्रजलोकसेव्य गोवर्धनाचलगुरो हरिदासवर्य । तत्सन्निधिस्थितियुषो मम हृत्शिलास्व- प्येता मनोरथलताः सहसोद्भवन्तु ॥ ९९॥ श्रीराधया समं तदीयसरोवर त्वत्- तीरे वसानि समये च भजानि संस्थाम् । त्वन्नीरपानजनिता मम तर्षवल्ल्यः पाल्यास्त्वया कुसुमिताः फलिताश्च कार्याः ॥ १००॥ वृन्दावनीयसुरपादप योगपीठ स्वस्मिन् बलादिह निवासयसि स्वयं यत् । तन्मे त्वदीयतलस्तस्थुष एव सर्व सङ्कल्पसिद्धिमपि साधु कुरुष्व शीघ्रम् ॥ १०१॥ वृन्दावनस्थिरचरान् परिपालयित्रि वृन्दे तयो रसिकयोरतिसौभगेन । आढ्यासि तत्कुरुकृपां गणना यथैव श्रीराधिकापरिजनेषु ममापि सिद्धेत् ॥ १०२॥ वृन्दावनावनिपते जय सोम सोम मौले सनन्दनसनातननारदेड्य । गोपीश्वर व्रजविलासि युगाङ्घ्रिपद्मे प्रीतिं प्रयच्छ निरुपाधि नमो नमस्ते ॥ १०३॥ हित्वान्याः किल वासना भजत रे वृन्दावनं प्रेमदं राधाकृष्णविलासवारिधिरसास्वादं चेत्विन्दथ । त्यक्तुं शक्नुथ न स्पृहामपि पुनस्तत्रैव हृद्वृत्तयो विश्रद्धाः श्रयत ममैव सततं सङ्कल्पकल्पद्रुमम् ॥ १०४॥ इति श्रीविश्वनाथचक्रवर्तीठक्कुरविरचितः श्रीसङ्कल्पकल्पद्रुमः सम्पूर्णः ।