अक्षर आकार:

श्रीसीतारामस्तवः

Sri Sita Rama Stavah

श्रीसीतारामस्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ सीतावराय विद्महे । गुरुगेयाय धीमहि । तन्नो रामः प्रचोदयात् ॥ ध्यानम्- ब्रह्माण्डनायकं रामं ब्रह्माशङ्करसंस्तुतम् । ब्रह्मज्ञानसमष्टिञ्च ब्रह्मानन्दस्वरूपकम् ॥ १॥ पूर्णायुष्कारपूर्णं तं पूर्णसद्भक्तिकारकम् । पूर्णसज्ज्ञानसद्बोधं पूर्णत्वरूपसद्गुरुम् ॥ २॥ क्षित्याभाससुतेजस्कं क्षितिजारमणं हरिम् । क्षिप्रप्रसादकारं तं क्षिप्रगङ्गाजसत्पदम् ॥ ३॥ वन्देऽहं करकाम्भोजं स्मितवक्त्रं सुनेत्रकम् । परमानन्दसद्रूपं सीतारामं शुभाकरम् ॥ ४॥ सीतारामं नरोद्धारं परब्रह्मस्वरूपिणम् । अभयप्रदहस्ताब्जं श्रीरामं प्रणमाम्यहम् ॥ ५॥ त्यागब्रह्मगुरुप्रेष्ठं गुरुस्वामिबहुस्तुतम् । गुरुकीर्तनसम्राजं श्रीरामं प्रणमाम्यहम् ॥ ६॥ सीतासाध्वीकलत्रं तं सीताहृत्पद्मवासनम् । सीतामिष्टस्वरावासं श्रीरामं प्रणमाम्यहम् ॥ ७॥ दाशरथ्यतिलावण्यं पितृवाक्परिपालनम् । राघवं धर्मसंस्थापं श्रीरामं प्रणमाम्यहम् ॥ ८॥ सीताजानिं चापपाणिं लक्ष्मणानुजसेवितम् । आञ्जनेयनुतं ध्यातं श्रीरामं प्रणमाम्यहम् ॥ ९॥ घोरराक्षससंहारं घोरपापविमोचनम् । घोरसंसारतारं तं श्रीरामं प्रणमाम्यहम् ॥ १०॥ वासनासुरसंहारं कुमनोजगणापहम् । प्रसन्नमानसाभासं श्रीरामं प्रणमाम्यहम् ॥ ११॥ ध्यानतत्परसंरक्षं ध्यानारिच्छेदनं हरिम् । ध्यातृहृन्मीरखद्योतं श्रीरामं प्रणमाम्यहम् ॥ १२॥ शरणागतवात्सल्यं गुरुगानसुपूजितम् । वरसुस्वरमाधुर्यं श्रीरामं प्रणमाम्यहम् ॥ १३॥ शरणार्थ्यभिरक्षं तं अभयव्रतपालनम् । परिपालितसद्भक्तं श्रीरामं प्रणमाम्यहम् ॥ १४॥ एकवाक्सत्यशीलं तं एकशब्दनराकृतिम् । एकपत्नीकराजानं श्रीरामं प्रणमाम्यहम् ॥ १५॥ एकाग्रध्यानगम्यं तं एकान्तध्यातृगोचरम् । एकान्तं एकशब्दार्थं श्रीरामं प्रणमाम्यहम् ॥ १६॥ मन्त्रतारकनामानं रूपतारकनामकम् । मन्त्रराजजपापालं श्रीरामं प्रणमाम्यहम् ॥ १७॥ आत्मारामं स्वरारामं नतभक्तहृदारमम् । अभिरामं लयारामं श्रीरामं प्रणमाम्यहम् ॥ १८॥ त्यागराजकृतिप्रीतं गुरुकीर्तनसन्निधिम् । भजनाह्लादसान्निध्यं श्रीरामं प्रणमाम्यहम् ॥ १९॥ नादोपासनसानन्दं नादसुस्वरविग्रहम् । नादसद्गुरुसात्मानं श्रीरामं प्रणमाम्यहम् ॥ २०॥ उपदेशगुरुं श्रीदं रागदं अनुरागदम् । मोक्षदं शाश्वतानन्दं श्रीरामं प्रणमाम्यहम् ॥ २१॥ त्यागब्रह्मगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् । शिशुजल्पनिभालापस्वीकारं तं नमाम्यहम् ॥ २२॥ सीतारामनुतिस्तोत्रं सीतारामकृपावहम् । सद्गुरुप्रेरणागीतं सीतारामपदार्पणम् ॥ २३॥ तवपादं गृहीताहं अभयं कुरु मत्प्रभो । ज्ञाताज्ञातापराधान्मे क्षमस्व मत्प्रभो हरे ॥ २४॥ मङ्गलं रामभद्राय सीतारामाय मङ्गलम् । मङ्गलं ज्ञानमोक्षाय श्रीरामाय सुमङ्गलम् ॥ २५॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीसीतारामस्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Copyright Pushpa Srivatsan