अक्षर आकार:

श्रीसीतालक्ष्मीस्तोत्रम्

Shri Sita Lakshmi Stotram

श्रीसीतालक्ष्मीस्तोत्रम्

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ भूमिपुत्र्यै च विद्महे । रामपत्न्यै च धीमहि । तन्नः सीता प्रचोदयात् ॥ सीता श्रीरामसद्दारा आनन्दवाक्स्वरूपिणी । सा सम्पूर्णसुमाङ्गल्या ज्वलदग्निशुचिस्फुरा ॥ १॥ मदम्बा श्रीमहालक्ष्मीर्मच्चित्तविलसत्प्रभा । क्षमागुण्यातिसान्त्वा मा सहजस्थितसद्गुणा ॥ २॥ क्षपानाथप्रभारूपा चन्द्रार्कमुखमण्डला । सानसीविग्रहाभासा चारुसारप्रभासिनी ॥ ३॥ पदपल्लवबालार्का पदाम्बुजसुलक्षणा । पदपावित्र्यलक्षण्या पदाश्रितसुरक्षणा ॥ ४॥ कराम्भोजाऽभयादात्री स्मिताम्भोरुहलोचनी । करुणामयवीक्षण्या नयनाब्जविमोचनी ॥ ५॥ सौन्दर्यदेवता सीता क्ष्मापुत्री जनकात्मजा । शिवचापलघूद्धारा कोमला शक्तिशालिनी ॥ ६॥ श्रीरामतन्मया सीता रामपत्नी लसच्छविः । कल्याणरामसाराध्या सीता भव्यसुरूपिणी ॥ ७॥ वैदेही मृदुसद्वाणी ऐहिकापरपूरणी । रामप्रेष्ठा महाराज्ञी पूर्णसद्भक्तिकारिणी ॥ ८॥ रामनामसुधापाना नामसारप्रमोदिता । नामध्यानसुसँल्लीना दहराकाशदर्शना ॥ ९॥ श्रीरामपूर्णसच्चित्ता श्रीरामानन्यचिन्तना । श्रीरामकीर्तिसम्मूला रामेण सह चारिणी ॥ १०॥ रामावतारसम्पूर्णा रामायणसुबीजता । श्रीरामाभिन्नदिव्याभा साक्षात् ब्रह्मस्वरूपिणी ॥ ११॥ सुस्वराजितमाधुर्या सङ्गीतमृदुलस्वरा । श्रीत्यागब्रह्मसङ्गीता गुरुस्वामिसुकीर्तिता ॥ १२॥ त्यागराजगुरुस्वामिशिष्यापुष्पासुसंस्तुता । बालालापस्तुतिप्रीता पुत्रीपुष्पाबहुप्रिया ॥ १३॥ मयेति कीर्तिते मातर्मच्चित्तं परिपूरय । चित्तप्रसादनं मातः कुरु मे भक्तिवर्धनम् ॥ १४॥ मङ्गलं रामसत्यै च सीतालक्ष्म्यै सुमङ्गलम् । मङ्गलं मम मात्रे च महालक्ष्म्यै सुमङ्गलम् ॥ १५॥ सीतास्तोत्रं सुसम्पूर्णं सीतानुग्रहकारकम् । सीतानुग्रहसम्भावं सर्वमङ्गलदायकम् ॥ १६॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतं श्रीसीतालक्ष्मीस्तोत्रं गुरौ समर्पितम् । ॐ शुभमस्तु । Copyright Pushpa Srivatsan