अक्षर आकार:

सावित्रीपञ्जरस्तोत्रम्

sAvitrIpa~njarastotram

सावित्रीपञ्जरस्तोत्रम्

श्रीगणेशाय नमः ॥ भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् । विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ १॥ शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् । बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ २॥ शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् । हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ ३॥ मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः । कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्धनम् ॥ ४॥ विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च । नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥ नारद उवाच । भगवन् देवदेवेश सर्वज्ञ करुणानिधे । श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥ ऐश्वर्यस्य समग्रस्य फलदं द्वन्द्ववर्जितम् । ब्रह्महत्यादिपापघ्नं पापाद्यरिभयापहम् ॥ ७॥ यदेकं निष्कलं सूक्ष्मं निरञ्जनमनामयम् । यत्ते प्रियतमं लोके तन्मे ब्रूहि पितर्मम ॥ ८॥ ब्रह्मोवाच । श‍ृणु नारद वक्ष्यमि ब्रह्ममूलं सनातनम् । सृष्ट्यादौ मन्मुखे क्षिप्तं देवदेवेन विष्णुना ॥ ९॥ प्रपञ्चबीजमित्याहुरुत्पत्तिस्थितिहेतुकम् । पुरा मया तु कथितं कश्यपाय सुधीमते ॥ १०॥ सावित्रीपञ्जरं नाम रहस्यं निगमत्रये । ऋष्यादिकं च दिग्वर्णं साङ्गावरणकं क्रमात् ॥ ११॥ वाहनायुधमन्त्रास्त्रं मूर्तिध्यानसमन्वितम् । स्तोत्रं श‍ृणु प्रवक्ष्यामि तव स्नेहाच्च नारद ॥ १२॥ ब्रह्मनिष्ठाय देयं स्याददेयं यस्य कस्यचित् । आचम्य नियतः पश्चादात्मध्यानपुरःसरम् ॥ १३॥ ओमित्यादौ विचिन्त्याथ व्योमहैमाब्जसंस्थितम् । धर्मकन्दगतज्ञानमैश्वर्याष्टदलान्वितम् ॥ १४॥ वैराग्यकर्णिकाऽऽसीनां प्रणवग्रहमध्यगाम् । ब्रह्मवेदिसमायुक्तां चैतन्यपुरमध्यगाम् ॥ १५॥ तत्त्वहंससमाकीर्णां शब्दपीठे सुसंस्थिताम् । नादबिन्दुकलातीतां गोपुरैरुपशोभिताम् ॥ १६॥ विद्याविद्यामृतत्वादिप्रकारैरभिसंवृताम् । निगमार्गलसञ्च्छन्नां निर्गुणद्वारवाटिकाम् ॥ १७॥ चतुर्वर्गफलोपेतां महाकल्पवनैवृताम् । साद्रानन्दसुधासिन्धुनिगमद्वारवाटिकाम् ॥ १८॥ ध्यानधारणयोगादितृणगुल्मलतावृताम् । सदसच्चित्स्वरूपाख्यां मृगपक्षिसमाकुलाम् । विद्याविद्याविचारत्वाल्लोकालोकाचलावृताम् ॥ १९॥ अविकारसमाश्लिष्टनिजध्यानगुणावृताम् । पञ्चीकरणपञ्चोत्थभूततत्त्वनिवेदिताम् ॥ २०॥ वेदोपनिषदर्थाख्यदेवर्षिगणसेविताम् । इतिहासग्रहगणैः सदारैरभिवन्दिताम् ॥ २१॥ गाथाप्सरोभिर्यक्षैश्च गणकिन्नरसेविताम् । नारसिंहपुराणाख्यैः पुरुषैः कल्पचारणैः ॥ २२॥ कृतगानविनोदादिकथालापनतत्पराम् । तदित्यवाङ्मनोगम्यतेजोरूपधरां पराम् ॥ २३॥ जगतः प्रसवित्रीं तां सवितुः सृष्टिकारिणीम् । वरेण्यमित्यन्नमयीं पुरुषार्थफलप्रदाम् ॥ २४॥ अविद्यावर्णवर्ज्यां च तेजोवद्गर्भसंज्ञिकाम् । देवस्य सच्चिदानन्दपरब्रह्मरसात्मिकाम् ॥ २५॥ धीमह्यहं स वै तद्वद्ब्रह्माद्वैतस्वरूपिणीम् । धियो यो नस्तु सविता प्रचोदयादुपासिताम् ॥ २६॥ परोऽसौ सविता साक्षादेनोनिर्हरणाय च । परो रजस इत्यादि परं ब्रह्म सनातनम् ॥ २७॥ आपो ज्योतिरिति द्वाभ्यां पाञ्चभौतिकसंज्ञकम् । रसोऽमृतं ब्रह्मपदैस्तां नित्यां तपिनीं पराम् ॥ २८॥ भूर्भुवःसुवरित्येतैर्निगमत्वप्रकाशिकाम् । महर्जनस्तपःसत्यलोकोपरिसुसंस्थिताम् ॥ २९॥ तादृगस्या विराड्रूपकिरीटवरराजिताम् । व्योमकेशालकाकाशरहस्यं प्रवदाम्यहम् ॥ ३०॥ मेघभ्रुकुटिकाक्रान्तविधिविष्णुशिवार्चिताम् । गुरुभार्गवकर्णान्तां सोमसूर्याग्निलोचनाम् ॥ ३१॥ इडापिङ्गलसूक्ष्माभ्यां वायुनासापुटान्विताम् । सन्ध्याद्विरोष्ठपुटितां लसद्वाग्भूपजिह्विकाम् ॥ ३२॥ सन्ध्यासौ द्युमणेः कण्ठलसद्बाहुसमन्विताम् । पर्जन्यहृदयासक्तवसुसुस्तनमण्डलाम् ॥ ३३॥ आकाशोदरवित्रस्तनाभ्यवान्तरदेशकाम् । प्रजापत्याख्यजघनां कटीन्द्राणीति संज्ञिकाम् ॥ ३४॥ ऊरू मलयमेरुभ्यां शोभमानासुरद्विषम् । जानुनी जह्नुकुशिकवैश्वदेवसदाभुजाम् ॥ ३५॥ अयनद्वयजङ्घाद्यखुराद्यपितृसंज्ञिकाम् । पदाङ्घ्रिनखरोमाद्यभूतलद्रुमलाञ्छिताम् ॥ ३६॥ ग्रहराश्यृक्षदेवर्षिमूर्तिं च परसंज्ञिकाम् । तिथिमासर्तुवर्षाख्यसुकेतुनिमिषात्मिकाम् ॥ ३७॥ अहोरात्रार्धमासाख्यां सूर्याचन्द्रमसात्मिकाम् । मायाकल्पितवैचित्र्यसन्ध्याच्छादनसंवृताम् ॥ ३८॥ ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् । कोटिसूर्यप्रतीकाशां चन्द्रकोटिसुशीतलाम् ॥ ३९॥ सुधामण्डलमध्यस्थां सान्द्रानन्दामृतात्मिकाम् । प्रागतीतां मनोरम्यां वरदां वेदमातरम् ॥ ४०॥ चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् । ध्यात्वा स्वात्मनि भेदेन ब्रह्मपञ्जरमारभेत् ॥ ४१॥ पञ्जरस्य ऋषिश्चाहं छन्दो विकृतिरुच्यते । देवता च परो हंसः परब्रह्माधिदेवता ॥ ४२॥ प्रणवो बीजशक्तिः स्यादों कीलकमुदाहृतम् । तत्तत्त्वं धीमहि क्षेत्रं धियोऽस्त्रं यः परं पदम् ॥ ४३॥ मन्त्रमापो ज्योतिरिति योनिर्हंसः सबन्धकम् । विनियोगस्तु सिद्ध्यर्थं पुरुषार्थचतुष्टये ॥ ४४॥ ततस्तैरङ्गषट्कं स्यात्तैरेव व्यापकत्रयम् । पूर्वोक्तदेवतां ध्यायेत् साकारगुणसंयुताम् ॥ ४५॥ पञ्चवक्त्रां दशभुजां त्रिपञ्चनयनैर्युताम् । मुक्ताविद्रुमसौवर्णां सितशुभ्रसमाननाम् ॥ ४६॥ वाणीं परां रमां मायां चामरैर्दर्पणैर्युताम् । षडङ्गदेवतामन्त्रै रूपाद्यवयवात्मिकाम् ॥ ४७॥ मृगेन्द्रमृगपक्षीन्द्रमृगहंसासने स्थिताम् । अर्धेन्दुबद्धमुकुटकिरीटमणिकुण्डलाम् ॥ ४८॥ रत्नताटङ्कमाङ्गल्यपरग्रैवेयनूपुराम् । अङ्गुलीयककेयूरकङ्कणाद्यैरलङ्कृताम् ॥ ४९॥ दिव्यस्रग्वस्त्रसञ्च्छन्नरविमण्डलमध्यगाम् । वराभयाब्जयुगलां शङ्खचक्रगदाङ्कुशान् ॥ ५०॥ शुभ्रं कपालं दधतीं वहन्तीमक्षमालिकाम् । गायत्रीं वरदां देवीं सावित्रीं वेदमातरम् ॥ ५१॥ आदित्यपथगामिन्यां स्मरेद्ब्रह्मस्वरूपिणीम् । विचित्रमन्त्रजनर्नीं स्मरेद्विद्यां सरस्वतीम् ॥ ५२॥ त्रिपदा ऋह्मयी पूर्वामुखी ब्रह्मास्त्रसंज्ञिका । चतुर्विंशतितत्त्वाख्या पातु प्राचीं दिशं मम ॥ ५३॥ चतुष्पादयजुर्ब्रह्मदण्डाख्या पातु दक्षिणाम् । षट्त्रिशत्तत्त्वयुक्ता सा पातु मे दक्षिणां दिशम् ॥ ५४॥ प्रत्यङ्मुखी पञ्चपदी पञ्चाशत्तत्त्वरूपिणी । पातु प्रतीचीमनिशं सामब्रह्मशिरोऽङ्किता ॥ ५५॥ सौम्या ब्रह्मस्वरूपाख्या साथर्वाङ्गिरसात्मिका । उदीचीं षट्पदा पातु चतुःषष्टिकलात्मिका ॥ ५६॥ पञ्चाशत्तत्त्वरचिता भवपादा शताक्षरी । व्योमाख्या पातु मे चोर्ध्वां दिशं वेदाङ्गसंस्थिता ॥ ५७॥ विद्युन्निभा ब्रह्मसंज्ञा मृगारूढा चतुर्भुजा । चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥ ५८॥ ब्राह्मी कुमारी गायत्री रक्ताङ्गी हंसवाहिनी । बिभ्रत्कमण्डल्वक्षस्रक्स्त्रुवान्मे पातु नैऋतीम् ॥ ५९॥ चतुर्भुजा वेदमाता शुक्लाङ्गी वृषवाहिनी । वराभयकपालाक्षस्रग्विणी पातु वारुणीम् ॥ ६०॥ श्यामा सरस्वती वृद्धा वैष्णवी गरुडासना । शङ्खाराब्जाभयकरा पातु शैवीं दिशं मम ॥ ६१॥ चतुर्भुजा वेदमाता गौराङ्गी सिंहवाहना । वराभयाब्जयुगलैर्भुजैः पात्वधरां दिशम् ॥ ६२॥ तत्तत्पार्श्वस्थिताः स्वस्ववाहनायुधभूषणाः । स्वस्वदिक्षु स्थिताः पान्तु ग्रहशक्त्यङ्गदेवताः ॥ ६३॥ मन्त्राधिदेवतारूपा मुद्राधिष्ठान देवता । व्यापकत्वेन पात्वस्मानापहृत्तलमस्तकी ॥ ६४॥ तत्पदं मे शिरः पातु भालं मे सवितुःपदम् । वरेण्यं मे दृशौ पातु श्रुतीर्भगः सदा मम ॥ ६५॥ घ्राणं देवस्य मे पातु पातु धीमहि मे मुखम् । जिह्वा मम धियः पातु कण्ठं मे पातु यःपदम् ॥ ६६॥ नःपदं पातु मे स्कन्धौ भुजौ पातु प्रचोदयात् । करौ मे च परः पातु पादौ मे रजसेऽवतु ॥ ६७॥ असौ मे हृदयं पातु मम मध्यं सदावतु । ॐ मे नाभिं सदा पातु कटिं मे पातु मे सदा । ओमापः सक्थिनी पातु गुह्यं ज्योतिः सदा मम ॥ ६८॥ ऊरू मम रसः पातु जानुनी अमृतं मम । जङ्घे ब्रह्मपदं पातु गुल्फौ भूः पातु मे सदा ॥ ६९॥ पादौ मम भुवः पातु सुवः पात्वखिलं वपुः । रोमाणि मे महः पातु रोमकं पातु मे जनः ॥ ७०॥ प्राणांश्च धातुतत्त्वानि तदीशः पातु मे तपः । सत्यं पातु ममायूंषि हंसो शुद्धिं च पातु मे ॥ ७१॥ शुचिवत् पातु मे शुक्रं वसुः पातु श्रियं मम । मतिं पात्वन्तरिक्षं सद्धोता दानं च पातु मे ॥ ७२॥ वेदिषत् पातु मे विद्यामतिथिः पातु मे गृहम् । धर्मं दुरोणसत् पातु नृषत् पातु सुतान्मम ॥ ७३॥ वरसत् पातु मे भार्यां मृतसत् पातु मे सुतान् । व्योमसत्पातु मे बन्धून् भ्रातॄनब्जाश्च पातु मे ॥ ७४॥ पशून्मे पातु गोजाश्च ऋतजाः पातु मे भवम् । सर्वं मे अद्रिजाः पातु यानं मे पात्वृतं सदा ॥ ७५॥ अनुक्तमथ यत्स्थानं शरीरेऽन्तर्बहिश्च यत् । तत्सर्वं पातु मे नित्यं हंसः सोऽहमहर्निशम् ॥ ७६॥ इदं तु कथितं सम्यङ् मया ते ब्रह्मपञ्जरम् । सन्ध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥ ७७॥ धारयेद्द्विजवर्यो यः श्रावयेद्वा समाहितः । स विष्णुः स शिवः सोऽहं सोऽक्षरः स विराट् स्वराट् ॥ ७८॥ इति वसिष्ठसंहितायां ब्रह्मनारदसंवादे सावित्रीपञ्जरस्तोत्रं सम्पूर्णम् ॥