अक्षर आकार:

श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम्

Shri Rudrachandi Trailokyamangala Kavacham

श्रीरुद्रचण्डी त्रैलोक्यमङ्गलकवचम्

॥ पूर्वपीठिका॥ श्रीपार्वत्युवाच । देवदेव ! महादेव ! दयालो ! दीनवत्सल ! । केन सिद्धिं ददात्याशु चण्डी त्रैलोक्यदुर्लभा ॥ १॥ श्रीमहादेव उवाच । रुद्रेणाराधिता चण्डी महासिद्धिर्भवेत् तदा । रुद्ररूपा रुद्रभावा रुद्रभूषा सदा स्थिता ॥ २॥ रुद्रध्येया रुद्रगेहा रुद्राणी रुद्रवल्लभा । सर्वदा वरदा देवी ब्रह्मज्ञानप्रदायिनी ॥ ३॥ सर्वपापहरा देवी सर्वरोगक्षयङ्करी । सर्वारिष्टगतैर्दात्री सर्वग्रहनिवारिणी ॥ ४॥ शिवं देहि शुभं देहि सुखं देहि सदा प्रिये ! । तुष्टिं पुष्टिं जयारोग्यं मङ्गलानां च मङ्गलम् ॥ ५॥ अकालमरणं वापि काले मृत्युर्यदा भवेत् । चण्डीस्मरणमात्रेण मृत्योर्मृत्युकरं परम् ॥ ६॥ ज्ञात्वा देवगणाः सर्वे चण्ड्यभूद् रुद्रगेहिनी । रुद्रचण्डी तदा ख्याता त्रैलोक्ये परमेश्वरी ॥ ७॥ रुद्रोऽभवन्महारुद्रश्चण्डीपाठप्रसादतः । तदा शापः प्रदातव्यः स्वीयसिद्धिर्यदा शिवे ! ॥ ८॥ कृष्णेनाराधिता चण्डी कृष्णचण्डी न सिद्धिदा । कृष्णनामधरा देवी सर्वतन्त्रेषु गोपिता ॥ ९॥ कृष्णचण्डी महादेवी प्राणान्ते न प्रकाशिता । ज्ञात्वा चण्डीं जगत् सर्वं कृष्णशापोऽभवत् तदा ॥ १०॥ तदन्ते चण्डिकां ज्ञात्वा कृष्णशापोऽभवन्मुदा । स्वीयभावे तदा देवी अभिशापं करोति हि । तेन ते स्वीयपापेन न सिद्‍ध्यन्ति कदाचन ॥ ११॥ श्रीपार्वत्युवाच । देवदेव दीननाथ दीनबन्धो ! दयानिधे ! । इदानीं वद मे नाथ ! चण्डीसिद्धिकरं परम् ॥ १२॥ विना ध्यानं विना पूजां विना जपपरायणम् । विना होमं विना मन्त्रं विना साधनसंज्ञकम् ॥ १३॥ अनायासेन सिद्‍ध्यन्ति केनोपायेन तद् वद ॥ श्रीमहादेव उवाच । श‍ृणु पार्वति सुभगे ! चण्डीसिद्धिकरं परम् । रुद्रध्येया रुद्रचण्डी प्रसन्ना सर्वदा सती ॥ १४॥ तस्याहं कवचं देवि ! कथयामि शुचिस्मिते ! । त्रैलोक्ये सर्वदेवानां साधनेनैव यत् फलम् ॥ १५॥ तत् फलं लभते सद्यः कवचाध्यायमात्रतः । शतमष्टौ पठेद् यस्तु सर्वसिद्धीश्वरो भवेत् ॥ १६॥ शतावृत्तिं पठेद् यो हि सप्तद्वीपेश्वरो भवेत् । पञ्चाशत् पाठमात्रेण पञ्चाशद्वर्णसिद्धये ॥ १७॥ अष्टाविंशतिपाठेन अष्टसिद्धिः करे स्थिता । एकादश पठेद् यस्तु रुद्रस्तस्य प्रसन्नधीः ॥ १८॥ दशविद्याः प्रसिद्धयन्ति यः पठेद् दशधा शिवे ! । नवावृत्तिं पठेद् यो हि ग्रहदेवप्रसन्नधीः ॥ १९॥ अष्टावृत्तिं पठेद् यस्तु अष्टपाशैर्विमुच्यते । सप्तधा पाठमात्रेण चिरायुर्भवेत् ध्रुवम् ॥ २०॥ पठेत् षष्ठं कर्मभेदे षट्कर्मसिद्धये ध्रुवम् । पञ्चमं प्रपठेद् यस्तु पञ्चात्मा च प्रसन्नधीः ॥ २१॥ चतुर्थं प्रपठेद् यस्तु चतुर्वेदविदां वरः । त्रिधा पाठे महेशानि ! सर्वशान्तिर्भविष्यति ॥ २२॥ पाठ द्वयं कृतं यद्धि सर्वकाम्यं प्रसाधयेत् । एकधा पाठमात्रेण चण्डीसिद्धिर्भविष्यति ॥ २३॥ अतः परमहं वक्ष्ये कवचं च परात्परम् । रक्षाकरं महामन्त्रं त्रैलोक्यमङ्गलाभिधम् ॥ २४॥ प्रणवो वाग्भवो माया ततः सद्यः सनातनी । स्थिरा माया ततः कामो लज्जायुग्मं ततः परम् ॥ २५॥ एष नवाक्षरो मन्त्रः सर्वाशापरिपूरकः । अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं ततः परम् ॥ २६॥ बहु किं कथ्यते देवि ! त्रैलोक्यस्तम्भनं भवेत् । कर्षयेदखिलं देवि ! शोषयेदखिलं जगत् ॥ २७॥ मोहयेदखिलान् लोकान् मारयेत् सकलं जगत् । वशयेत् सर्वदेवादीन् ऋतुभेदे महेश्वरि ! ॥ २८॥ सर्वरक्षाकरो मन्त्रः साक्षाद् ब्रह्म न संशयः । (नवाक्षर मन्त्रः ॐ ऐं ह्रीं ॐ क्रीं ह्लीं क्लीं ह्रीं ह्रीं) ॥ कवचस्तोत्र ॥ शिखायां प्रणवः पातु शिरसि वाग्भवः प्रिये ! । भ्रूमध्ये रक्षते माया हृदयं कालिकाऽवतु ॥ १॥ नाभिं पातु स्थिरा माया तदधः काम रक्षतु । लिङ्गमूलं पातु लज्जा यजुर्गुह्ये सदाऽवतु ॥ २॥ कटिं पृष्ठं कूर्परं च स्कन्धं कर्णद्वयं तथा । प्रणवो रक्षते देवि ! मातृभावेन सर्वदा ॥ ३॥ कण्ठं गलं च चिबुकं ओष्ठद्वयं ततः परम् । दन्तं जिह्वां तथा रन्ध्रं तदन्ते मुखमण्डलम् ॥ ४॥ वाग्भवो रक्षते देवि ! पितृभावेन सर्वदा । नासिकां हनुयुग्मं च चक्षुषी भ्रूयुगं तथा ॥ ५॥ ललाटं च कपालं च चन्द्रसूर्याऽग्निमण्डलम् । सर्वदा रक्षते माया शक्तिरूपे महेश्वरि ! ॥ ६॥ बाहुद्वयं ततः सर्वं पञ्जरं हृदिमण्डलम् । रक्षते कालिकावीजं कन्यारूपेण सर्वदा ॥ ७॥ उदरं मूलदेशं च चण्डिके ! त्वं सदाऽवतु । रक्तं मांसं तथा मज्जा शुक्राणि मेद एव च ॥ ८॥ रक्षेल्लज्जा शक्तिरूपे सगुणा परमा कला । नखकेशानि सर्वाणि यजुः पातु सदा प्रिये ! ॥ ९॥ सर्वाङ्गं रक्षते चण्डी सर्वमन्त्रं सकीलकम् । आत्मा परात्मा जीवात्मा चण्डिका पातु सर्वदा ॥ १०॥ साधने चण्डिका पातु सज्ज्ञानं चण्डिकाऽवतु । सत्सङ्गं चण्डिका पातु सद्योगं चण्डिकाऽवतु ॥ ११॥ सत्कथां चण्डिका रक्षेत् सच्चिन्तां चण्डिकाऽवतु । पूर्वस्यां चण्डिका पातु आग्नेय्यां चण्डिकाऽवतु ॥ १२॥ दक्षिणस्यां तथा चण्डी सर्वदा परिरक्षतु । नैऋत्यां चण्डिका रक्षेत् पश्चिमे चण्डिकाऽवतु ॥ १३॥ वायव्यां चण्डिका पातु उत्तरे चण्डिकाऽवतु । ऐशान्यां चण्डिका पातु ऊर्ध्वाधश्चण्डिका तथा ॥ १४॥ चण्डिका रक्षते कन्यां सुतं स्त्रीं चण्डिकाऽवतु । भ्रातरं भगिनीं सर्वं चण्डिका रक्षते सदा ॥ १५॥ बन्धुवर्गकुटुम्बानि दासीदासं ततः परम् । रक्षते चण्डिका देवी मातृभावान्महेश्वरी ॥ १६॥ गजवाजिगवान् सर्वान् जन्तूनां सर्वपर्वसु । रक्षते चण्डिका देवी स्वीयभावेन शाम्भवी ॥ १७॥ वास्तुवृक्षादिकं सर्वं चण्डिका रक्षते सदा । सैन्यं स्वसैन्यवर्गाणां चण्डिका परिरक्षतु ॥ १८॥ श्मशाने प्रान्तरेऽरण्ये चण्डिका पातु सर्वदा । राजद्वारे रणे घोरे पर्वते वा जले स्थले ॥ १९॥ अग्निवज्रादिदुर्योगे विवादे शत्रुसङ्कटे । चण्डिका पातु सर्वत्र यथा धेनुः सुतं प्रति ॥ २०॥ इति ते कथितं कान्ते ! त्रैलोक्यमङ्गलाभिधम् । त्रैलोक्यमङ्गलं नाम कवचं परिकथ्यते ॥ २१॥ ॥ फलश्रुति ॥ इदं कवचमज्ञात्वा रुद्रचण्डीं पठेद् यदि । सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥ २२॥ इदं कवचमज्ञात्वा चण्डीपाठं करोति यः । विपरीतं भवेत् सर्वं विघ्नस्तस्य पदे पदे ॥ २३॥ तदनन्तं भवेत् सर्वं कवचाध्यायमात्रतः । धारणे कवचं देवी फलसङ्ख्याप्रपूरकम् ॥ २४॥ तत्रैव कवचं देवि ! सर्वाशापरिपूरकम् । पञ्चवक्त्रेण कथितं किं मया कथ्यतेऽधुना ॥ २५॥ भूर्जे गन्धाष्टकेनैव लिखेत् तु कवचं शुभम् । समन्त्रं कवचं देवि ! स्वमन्त्रपुटितं ततः ॥ २६॥ गोत्रं नाम ततः कामं पुनर्मन्त्रं लिखेत् प्रिये ! । अष्टम्यां च चतुर्दश्यां पक्षयोरुभयोरपि ॥ २७॥ प्राणप्रतिष्ठामन्त्रेण प्रतिष्ठां कुरुते ततः । पूजयेद् विधियुक्तेन पञ्चाङ्गं तदनन्तरम् ॥ २८॥ एवं ते धारयेद् यस्तु स रुद्रो नात्र संशयः । कण्ठे वा दक्षिणे बाहौ हृन्नाभिकटिदेशतः ॥ २९॥ योषिद् वामभुजे धृत्वा साक्षात् काली न संशयः । धनं पुत्रं जयारोग्यं यद् यन्मनसि कामदम् ॥ ३०॥ तत्तत् प्राप्नोति देवेशि ! निश्चितं मम भाषितम् । न सन्देहो न सन्देहो न सन्देहः कदाचन ॥ ३१॥ देयं शिष्टाय शान्ताय गुरुभक्तिरताय च । शक्तिध्येयाः शक्तरताः शक्तिप्राणाः सदाशयाः ॥ ३२॥ एवं तल्लक्षणैर्युक्तं कवचं दीयते क्वचित् । नित्यं पूजा प्रकर्तव्या कवचं परमं शिवे ! ॥ ३३॥ अशक्तौ परमेशानि ! पुष्पधूपं प्रदापयेत् । तस्य देहे तस्य गेहे चण्डिका त्वचला भवेत् ॥ ३४॥ खले दुष्टे शठे मूर्खे दाम्भिके निन्दके तथा । शक्तिनिन्दां शक्तिहिंसां यः करोति सः पामरः ॥ ३५॥ एतेषां परमेशानि ! सुकृतिर्न कदाचन । न दद्यात् कवचं देवि ! यदीच्छेदात्मनो हितम् ॥ ३६॥ दत्ते च सिद्धिहानिः स्याद् दत्ते च शिवहा भवेत् ॥ ३७॥ ॥ श्रीरुद्रयामलतन्त्रे श्रीपार्वतीरहस्ये त्रैलोक्यमङ्गलं नाम रुद्रचण्डीकवचं सम्पूर्णं शुभं भूयात् ॥