अक्षर आकार:

रुद्राणिरुद्रयोः नामानि

Rudrani (51) Rudra (51) Names

रुद्राणिरुद्रयोः नामानि

रुद्रस्य एकपञ्चाशन्नामानि - पञ्चाशदेकशक्तीनां तथा नाम श‍ृणु प्रभो । सर्वेषामभिधानान्ते ईशाय नम उच्चरेत् ॥ ४७-३९॥ एकैकं मातृकावर्णं नाम्न आद्ये नियोजयेत् । शक्तियुक्तं सदा नाम ईशान्तं सन्त्यजेत् तथा ॥ ४७-४०॥ भेदने शक्तियुक्तस्तु न्यासं कुर्यान्महायतिः । कुशासने सिद्धिहेतोश्चैलाजिनकुशोत्तरम् ॥ ४७-४१॥ बद्धैकमासनं योगी न्यासजालं समाचरेत् । अथवा द्वीपिचर्मादि कोमलाद्यासनेऽपि वा ॥ ४७-४२॥ योगाभ्यासी न्यासजालं कृत्वा सावभयो भवेत् । भद्रकाली गृहे स्थित्वा ये कुर्वन्ति निरन्तरम् ॥ ४७-४३॥ महान्यासं महादेव तत्क्षणादमरो भवेत् । आयुरारोग्यसम्पत्तिं संप्राप्नोति महाश्रियम् ॥ ४७-४४॥ समायाति मम स्थाने न्यासयोगप्रसादतः । न्यासधारणयोगेन मणिपूरे हृदो भवेत् ॥ ४७-४५॥ आदौ तन्नाम वक्तव्यं पश्चात् शक्त्याभिधानकम् । श्रीकण्ठश्चाप्यनन्तश्च सूक्ष्मा त्रिमूर्तिरेव च ॥ ४७-४६॥ अमरेश्वरश्चार्घीशो भावभूतिस्ततः परम् । अतिथीशस्थाण्वीशो (स्थानुकेशो) हरो झिण्टीश(झिष्टीश) एव च ॥ ४७-४७॥ भौतिकः सद्योजातश्चाप्यनुग्रहेश्वरस्तथा । अक्रूरोऽपि महासेनो निर्जरादिश्च षोडश ॥ ४७-४८॥ एते देवा महारुद्र षोडशस्वरविग्रहाः । क्रोधीशश्चापि चण्डेशः पञ्चान्तकः शिवोत्तमः ॥ ४७-४९॥ एकरुद्रस्तथा कूर्म एकनेत्रेश्वरस्ततः । चतुराननोऽजेशश्च सर्वः सोमेश एव च ॥ ४७-५०॥ लाङ्गलीशो* दारुकेशोऽर्द्धनारीश्वर एव च । (*उमाकान्तेश आषाढिः डिण्डीशोऽत्रीश एव च । मीनेशश्चापि मेषेशो लोहितेशः शिखीश्वरः ॥ छगलण्डे द्विरण्डेशो महाकालेश्वरस्ततः ।) वाणीशश्च भुजङ्गेशः पिनाकीशस्ततः परम् ॥ ४७-५१॥ खड्गीशश्चरकेशश्च श्येनो भृग्वीश एव च नकुलीशः शिवेशश्च संवर्त्तकेश एव च ॥ ४७-५२॥ एते रुद्राः समाख्याताः सर्वकाले कुलेश्वराः । यस्य नाम्नश्चान्तभाते ईशशब्दो न विद्यते ॥ ४७-५३॥ केशान्तं नाम संस्कृत्य न्यासं मौलीशमाचरेत् । कामं मोहादिनाशार्थं यः करोति निरन्तरम् ॥ ४७-५४॥ मातृकावर्णघटितं मातृकास्थलके न्यसेत् । शक्तियुक्तं यदा न्यासं तत्कालेऽपीशयोजनम् । अथवा रुद्रशक्त्या च तथा रुद्रेण सम्पुटम् ॥ ४७-५५॥ निजमन्त्रेण वा नाथ पुटितं मातृकास्थले । शक्त्या च ग्रथनं कृत्वा संसारं सन्तरेत् क्षणात् ॥ ४७-५६॥ रुद्राणीनामानि - तत्प्रकारं श‍ृणु प्राणनाथ शङ्कर वल्लभ । पूर्णोदरी च गिरिजा शाल्मली तदनन्तरम् ॥ ४७-५७॥ लोलाक्षी वर्त्तुलाक्षी च दीर्घघोणा ततः परम् । सुदीर्घमुखिगोमुख्यौ दीर्घजिह्वा ततः परम् ॥ ४७-५८॥ कुण्डोदरी चोर्ध्वमुखी तथा विकृतमुख्यपि । ज्वालामुखी वह्निमुखी लोलजिह्वा ततः परम् ॥ ४७-५९॥ विद्यामुखी तथा नाथ एताश्च स्वरशक्तयः । काद्यार्णशक्तिविद्याश्च वक्ष्यामि पार्वतीश्वर ॥ ४७-६०॥ महाकालीसरस्वत्योर्महालक्ष्म्यास्ततः परम् । द्राविणी नागरी भूयः खेचरी चापि मञ्जरी ॥ ४७-६१॥ रूपिणी बिम्बिनी पश्चात् काकोदरी च पूतना । भद्रकाली योगिनी च शङ्खिनी गर्ज्जिनी तथा ॥ ४७-६२॥ कालरात्रिः कुञ्जिका च कपर्द्दिनी ततः परम् । वज्रा जया ततो नाथ सुमुखेश्वर्यपि प्रभो ॥ ४७-६३॥ रेवती माधवी चैव वारुणी वायवी तथा । वक्षोविदारिणी चैव सहजालक्ष्म्यथ प्रभो ॥ ४७-६४॥ व्यापिनी चैव माया च रुद्राङ्कपीठदेवताः । इति रुद्राणिरुद्रयोः नामानि समाप्ता । The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.