अक्षर आकार:

रेणुकास्तोत्रं श्रीविनायकशास्त्रिकृतम्

Renuka Stotram by Vinayaka shastri

रेणुकास्तोत्रं श्रीविनायकशास्त्रिकृतम्

श्रीगणेशाय नमः । त्वदीयपदरेणुके शिरसि मामके रेणुके निधाय वरदं करं ननुदरं ममाऽनीनशः । स्ववत्सलतयाऽनुदोर्नयनलालनच्छद्मना प्रमोदभर-दृग्झर-स्तुतमदश्रुभिर्धावये ॥ प्रणम्य सुषमामिषद् दृग्निमेषशीर्सोल्लसत्- किरीटकुलसङ्कुलं परिमलाऽलमङ्घ्र्युत्पलम् । मनोलिरयमुमदः सपदि तेऽनुजिघ्रन्मनाक् तदन्यसुमनस्सु किं व्रजति नाधुना तत्स्मरन् ॥ भजन्तु विषयान् सजूर्विषयिणो विषाणीवते रसारसिकमौलिना मम मनोऽलिनान्यक्कृताः । श्रुतं तदवलोकितं भवतु तत्स्पृशन् जिघ्रता रसालपदपङ्कजं जननि ते सदा स्वाद्यताम् ॥ विजित्य हृदुपस्थितो मुहुरुपस्थितानन्दकम् विशुद्धिमुपसंहरन् विरमताभवद्भक्तिषु । गिरा भजतु नाम ते करघृतार्चनोपस्करम् प्रयातु तव मन्दिरं विसृजतु त्वदन्यादरम् ॥ मुमोच किल मां प्रसूः रथविदग्रणीरग्रजा पिताऽपि दयितोऽग्रजः पर इहाश्रयो यस्य मे । श्रयेऽहमधुनेहकं व्रजिन (ब्रजिन) पुङ्जवाक्याहतः प्रयामि दिशमम्बिके निदिश कान्दिशिकोऽद्यकाम् ॥ यथायथमनुष्ठिताः स्तुतिकथाः कथञ्चिन्नमते स्मरामि च कृतं न ते तेऽर्चनमकिञ्चनः किञ्चनः । तपोमनुजपोऽप्युपोषणकारि न त्वत्कृते- ऽपराद्धममुमम्बिके ! वद किमुद्धरिष्यस्यतः ॥ विधिर्हरिहरादयो यदवधीरिता नान्तिके पुरन्दरपुरोगमा न पुर आसितुं शक्नुयुः । निगृह्य कृपयाऽमिके ! गुणगणैः स्वकीयैर्दृढम् बधान न यथा पुनः श्रयति हृत्पशुः शोच्यताम् ॥ अगाध वदपारद्रुम-मदादियदो युता विवेकमुखमत्सखाऽप्युदधिवीचिमग्नाः परम् । निधाय चरणौ पुरो नियमयाऽऽशु तृष्णा नदी विनश्यति यथाऽम्बिके! न परमार्थ-मार्गो मम ॥ स्तवीमि जमदग्निसद्गृहिणि नाम पृथ्वीगतां गृणन् परशुराम-सज्जननि ! जल्पिताप्तर्थये । तदम्ब ! कॄपयाऽऽप्स्यतेऽद्य वयसो न पञ्चाशताः मयापद्धति कोऽपि चेत्सफलमाप्नुयात्तादृशम् ॥ इति श्रीमत्पूज्यपादविनायकशास्त्रिवेतालविरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥