अक्षर आकार:

रेणुकास्तोत्रं श्रीवायुपुराणे श्रीपरशुरामकृतम्

Renuka Stotram from Vayupuranam

रेणुकास्तोत्रं श्रीवायुपुराणे श्रीपरशुरामकृतम्

श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । श्रीगुरुभ्यो नमः । श्रीरेणुकाम्बायै नमः । ॐ नमः परमानन्दे सर्वदेवमयी शुभे । अकारादि-क्षकारान्तं मातृका मन्त्रमालिनी ॥ १॥ एकवीरे एकरूपे महारूपे अरूपिणि । अव्यक्ते व्यक्तिमापन्ने गुणातीते गुणात्मिके ॥ २॥ कमले कमलाभासे हृत्सच्चित्तरणिकालये । नाभिचक्रस्थिते देवि कुण्डली तन्तुरूपिणि ॥ ३॥ वीरमाता वीरबन्धा योगिनी समरप्रिये । वेदमाता वेदगर्भे विश्वगर्भे नमोऽस्तु ते ॥ ४ ॥ राममातर्नमस्तुभ्यं नमस्त्रैलोक्यरूपिणि । मह्यादिके पञ्चभूता जमदग्निप्रिये शुभे ॥ ५ ॥ यैस्तु भक्त्या स्तुता ध्याता अर्चयित्वाऽर्पिते शुभे । भोगमोक्षप्रदे देवि कामेश्वरि नमोऽस्तु ते ॥ ६॥ नमोऽस्तु ते निरालम्बे परमानन्दविग्रहे । पञ्चभूतात्मिके देवि भूतभाविवर्जिते ॥ ७॥ महारौद्रे महाकाये सृष्टिसंहारकारिणि । ब्रह्माण्डगोलकाकारे विश्वरूपे नमोऽस्तु ते ॥ ८॥ चतुर्भुजे खड्गहस्ते महाडमरुधारिणि । शिरःपात्रधरे देवि एकवीरे नमोऽस्तु ते ॥ ९॥ नीलाम्बरे नीलवर्णे मयूरपिच्छधारिणि । वनभिल्लधनुर्वामे दक्षिणे बाणधारिणि ॥ १०॥ रौद्रकाये महाकाये सहस्रार्जुनभञ्जनि । एकं शिरः पुरा स्थित्वा रक्तपात्रे च पूरितम् ॥ ११॥ मृतधारा पिबन्देवि रुधिरं दैत्यदेहजम् । रक्तवर्णे रक्तदन्ते खड्गलाङ्गलधारिणि ॥ १२॥ वामहस्ते च खट्वाङ्गं डमरुं चैव दक्षिणे । प्रेतवाहनके देवि-ऋषिपत्नी च देवते ॥ १३॥ एकवीरे महारौद्रे मालिनी विश्वभैरवि । योगिनी योगयुक्ता च महादेवी महेश्वरी ॥ १४॥ कामाक्षी भद्रकाली च हुङ्कारी त्रिपुरेश्वरी । रक्तवस्त्रे रक्तनेत्रे महात्रिपुरसुन्दरि ॥ १५॥ रेणुका सूनुयोगी च भक्तानामभयङ्करी । भोगलक्ष्मीर्योगलक्ष्मीर्दिव्यलक्ष्मीश्च सर्वदा ॥ १६॥ कालरात्रि महारात्रि मद्यमांसशिवप्रिये । भक्तानां श्रीपदे देवि लोकत्रयविमोहिनि ॥ १७॥ क्लीङ्कारी कामपीठे च ह्रीङ्कारी च प्रबोध्यता । श्रीङ्कारी च श्रिया देवि सिद्धलक्ष्मीश्च सुप्रभा ॥ १८॥ महालक्ष्मीश्च कौमारी कौबेरी सिंहवाहिनी । सिंहप्रेतासने देवि रौद्रि क्रूरावतारिणि ॥ १९॥ दैत्या नारी कुमारी च रौद्रदैत्यनिपातिनी । त्रिनेत्रा श्वेतरूपा च सूर्यकोटिसमप्रभा ॥ २०॥ खड्गिनी बाणहस्ता चारूढा महिषवाहिनी । महाकुण्डलिनी साक्षात् कङ्काली भुवनेश्वरी ॥ २१॥ कृत्तिवासा विष्णुरूपा हृदया देवतामया । देवमारुतमाता च भक्तमाता च शङ्करी ॥ २२॥ चतुर्भुजे चतुर्वक्त्रे स्वस्तिपद्मासनस्थिते । पञ्चवक्त्रा महागङ्गा गौरी शङ्करवल्लभा ॥ २३॥ कपालिनी देवमाता कामधेनुस्त्रयोगुणी । विद्या एकमहाविद्या श्मशानप्रेतवासिनी ॥ २४॥ देवत्रिगुणत्रैलोक्या जगत्त्रयविलोकिनी । रौद्रा वैतालि कङ्काली भवानी भववल्लभा ॥ २५॥ काली कपालिनी क्रोधा मातङ्गी वेणुधारिणी । रुद्रस्य न पराभूता रुद्रदेहार्द्धधारिणी ॥ २६॥ जया च विजया चैव अजया चापराजिता । रेणुकायै नमस्तेऽस्तु सिद्धदेव्यै नमो नमः ॥ २७॥ श्रियै देव्यै नमस्तेऽस्तु दीननाथे नमो नमः । जय त्वं देवदेवेशि सर्वदेवि नमोऽस्तु ते ॥ २८॥ देवदेवस्य जननि पञ्चप्राणप्रपूरिते । त्वत्प्रसादाय देवेशि देवाः क्रन्दन्ति विष्णवे ॥ २९॥ महाबले महारौद्रे सर्वदैत्यनिपातिनि । आधारा बुद्धिदा शक्तिः कुण्डली तन्तुरूपिणी ॥ ३०॥ षट्चक्रमणे देवि योगिनि दिव्यरूपिणि । कामिका कामरक्ता च लोकत्रयविलोकिनी ॥ ३१॥ महानिद्रा मद्यनिद्रा मधुकैटभभञ्जिनी । भद्रकाली त्रिसन्ध्या च महाकाली कपालिनी ॥ ३२॥ रक्षिता सर्वभूतानां दैत्यानां च क्षयङ्करी । शरण्यं सर्वसत्त्वानां रक्ष त्वं परमेश्वरि ॥ ३३॥ त्वामाराधयते लोके तेषां राज्यं च भूतले । आषाढे कार्तिके चैव पूर्णे पूर्णचतुर्दशी ॥ ३४॥ आश्विने पौषमासे च कृत्वा पूजां प्रयत्नतः । गन्धपुष्पैश्च नैवेद्यैस्तोषितां पञ्चभिः सह ॥ ३५॥ यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् । तत्त्वं मे वरदे देवि रक्ष मां परमेश्वरि ॥ ३६॥ तव वामाङ्कितं देवि रक्ष मे सकलेश्वरि । सर्वभूतोदये देवि प्रसाद वरदे शिवे ॥ ३७॥ श्रीदेव्युवाच वरं ब्रूहि महाभाग राज्यं कुरु महीतले । मामाराध्यते लोके भयं क्वापि न विद्यते ॥ ३८॥ मम मार्गे च आयान्ती भीर्देवी मम सन्निधौ । अभार्यो लभते भार्यां निर्धनो लभते धनम् ॥ ३९॥ विद्यां पुत्रमवाप्नोति शत्रुनाशं च विन्दति । अपुत्रो लभते पुत्रान् बद्धो मुच्येत बन्धनात् ॥ ४०॥ कामार्थी लभते कामं रोगी आरोग्यमाप्नुयात् । मम आराधनं नित्यं राज्यं प्राप्नोति भूतले ॥ ४१॥ सर्वकार्याणि सिध्यन्ति प्रसादान्मे न संशयः । सर्वकार्याण्यवाप्नोति दीर्घायुश्च लभेत्सुखी ॥ ४२॥ श्रीपरशुराम उवाच अत्र स्थानेषु भवतां अभयं कुरु सर्वदा । यं यं प्रार्थयते नित्यं तं तं प्राप्नोति निश्चितम् ॥ ४३॥ प्रयागे पुष्करे चैव गङ्गासागरसङ्गमे । स्नानं च कुरुते नित्यं नित्यं च चरणोदके ॥ ४४॥ इदं स्तोत्रं पठेन्नित्यं त्रिसन्ध्यं श्रद्धयान्वितः । सर्वान् कामानवाप्नोति प्राप्यते परमं पदम् ॥ ४५॥ इति श्रीवायुपुराणे परशुरामकृतं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥ ॥ श्रीरेणुकार्पणमस्तु ॥