अक्षर आकार:

रेणुकास्तोत्रं श्रीवासुदेवानन्दसरस्वतीकृतम्

Renuka Stotram Vasudevananda Sarasvati Kritam

रेणुकास्तोत्रं श्रीवासुदेवानन्दसरस्वतीकृतम्

श्रीगणेशाय नमः । ऐन्द्र्यादिवन्दितपते वरदेऽभीष्टकामदे । कामदेवर्चितेऽनन्ते रेणुकेऽम्ब नमोऽस्तु ते ॥ एकवीरे निजाधारे रुचिरे सज्जनादरे । उदरे रेणुसञ्जाते रेणुकेऽम्ब नमोऽस्तु ते ॥ करुणारससम्पूर्णे नयने सुस्मितानने । शोभने पाहि नो भीते रेणुकेऽम्ब नमोऽस्तु ते ॥ वीरमातर्महादेवी त्वदन्या का परा भुवि । तारिणीदुर्गतोऽनन्ते रेणुकेऽम्ब नमोऽस्तु ते ॥ राममातर्महामाये जमदग्निप्रियाऽभये । विजये वेदविनुते रेणुकेऽम्ब नमोऽस्तु ते ॥ यैरर्चिते तव पदे ते धन्याः परमे पदे । निहितास्ते सुरनुते रेणुकेऽम्ब नमोऽस्तु ते ॥ न त्वदन्यागतिर्देवि परमा खलु शाम्भवि । भुक्तिमुक्तिप्रदे शान्ते रेणुकेऽम्ब नमोऽस्तु ते ॥ यः केशवेश्वरश्चापि सृष्टि-स्थित्यन्तकारिणः । प्रसादादेव तेऽनन्ते रेणुकेऽम्ब नमोऽस्तु ते ॥ जगदम्बे नमोऽस्तु रेणुके परिपाहीश्वरि नः सुभावुके । जय-लाभ-यशःप्रदे मुदे स्तुतिरेषास्तु तवाखिलार्थदे ॥ नावाहनं नार्चन पद्धतिं ते जाने न भक्तिं त्वयि मे भवान्तके । अथापि मां त्वं कुलदेविभक्तं कुलोद्भवं पाह्यपि चार्थसक्तम् ॥ मातापुरनिवासिन्याः श्रीदेव्याः स्तोत्रमुत्तमम् । यः पठेत्प्रयतो भक्त्या सर्वान् कामान् स आप्नुयात् ॥ इति श्रीवासुदेवानन्दसरस्वतीपण्डितविरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥