अक्षर आकार:

रेणुकास्तोत्रं श्रीधरस्वामिकृतम्

Renuka Stotram by Shridhara Swami

रेणुकास्तोत्रं श्रीधरस्वामिकृतम्

श्रीगणेशाय नमः । शिवां शान्तरूपां मनोवागतीतां निजानन्दपूर्णां सदाऽद्वैतरूपाम् । परां वेदगम्यां परब्रह्मरूपां भजे रेणुकां सर्वलौकैकवेद्याम् ॥ १॥ सदाचारसद्भक्तिबोधादिभिर्या गुरोरङ्घ्रिशुश्रूषयां मुख्यवृत्त्या । सुवेद्या सुलभ्या परानन्दपूर्णा भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥ श्रुतिर्नेतिनेतीति सर्वं निरस्य वदत्येकमाद्यं विभुं चित्सुखं यत् । तदेवावशिष्टं स्वरूपं विशुद्धं भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥ यदानन्दसिन्धौ निमग्नो न पश्येद्- अहो कर्मजालं फलं वा तदीयम् । न जैवं न शैवं जगन्नैव मायां चिदेकस्वरूपां भजे रेणुकां ताम् ॥ ४॥ अनेकान्तिकां सर्वभेदातिरूपां तमोऽज्ञानदुःखातिगां शुद्धरूपाम् । सदाऽध्यात्मविद्याप्रदानैकशीलं भजे रेणुकां मुक्तिसौख्याधिदेवीम् ॥ ५॥ त्रितापप्रशन्त्यै समाराध्यमानां सदा जीवलोके स्वसौख्यप्रदात्रीम् । भवोम्बोधिसेतुं चिदानन्दकन्दां भजे रेणुकां ज्ञानमुद्रैकलक्ष्याम् ॥ ६॥ सदा भक्तहृत्कौमुदीं भद्रभद्रां सदोङ्कारवाच्यां वरेण्यां शरण्याम् । स्वभक्तार्तिनाशां शुभाङ्गां गुणाढ्यां भजे रेणुकां भक्तसौख्याब्धिरूपाम् ॥ ७॥ सदा भक्तवात्सल्यपूर्णां सुरम्यां सुरेन्द्रादिभिः स्तूयमानां सुषूक्तैः । सदा भक्तवृन्दैश्च संसेव्यमानां भजे रेणुकां भक्तभाग्यां भवानीम् ॥ ८॥ पठेद्यः सदा भक्तियुतो विशुद्धः स्ववर्णाश्रमाचारतो नित्ययुक्तः । स मुक्तः कृती रेणुकायाः प्रसादात् सदा राजते राजते लोकपूज्या ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना विरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥ Translation at http://ioustotra.blogspot.com/2010/10/shri-renuka-stotramtml