अक्षर आकार:

रेणुकास्तोत्रं मुचुकुन्दकृतम्

Renuka Stotram Muchukunda kritam

रेणुकास्तोत्रं मुचुकुन्दकृतम्

श्रीगणेशाय नमः । मुचुकुन्द उवाच अनाथमकृतप्रज्ञं अज्ञानतिमिरावृतम् । मोहपङ्कनिमग्नञ्च मामुद्धर सुरेश्वरि ॥ त्वां रेणुकेति वरदेति च सुन्दरीति वागीश्वरीति सकलेति च पार्वतीति । सिद्धेश्वरीति सुभगेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ अम्बेति विश्वजननीति जगद्धितेति विद्येति धर्मनिरतेति परात्परेति । आद्येति वेदजननीति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ त्वां वेदशास्त्रमितिहासविनोदिनीति ब्रह्मेति ब्रह्मगमकेति शुभावहेति । विश्वेश्वरीति कमलेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ आनन्दभूतनिलयेत्यनलोद्भवेति गूढेति भावगमकेति शुभावहेति । विश्वेश्वरीति कमलेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ नित्येति दिव्यचरणेति महाव्रतेति हृद्येति भक्तजनदुःखविनाशिनीति । श्रद्धेति रामजननीति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ त्वां पुण्यदेति जमदग्नि-ऋषिप्रियेति गङ्गेति तत्त्वविहितेति परापरेति । सुद्धेति पातककदम्बकुठारकेति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ त्वां राजनीति परमामृतभोजनेति श‍ृङ्गारमुख्यनवषट् च रसप्रियेति । लक्ष्मीप्रदेति सुमुखेति च ये वदन्ति तान् देवि नित्यमनधान् परिपालय त्वम् ॥ स्कन्द उवाच स्तुतैवं मुचुकुन्देन रेणुका ब्रह्मरूपिणी । प्रत्यक्षरूपा प्राहेदं प्रसन्नाहं मुनीश्वर ॥ देव्युवाच मुचुकुन्द त्वया तुल्यः कश्चिद्भक्तो न विद्यते । किं प्रार्थयसि मत्तस्त्वं ब्रूहि यत्तेऽभिवाञ्छितम् ॥ मुचुकुन्द उवाच त्वद्भक्तिमतुलां देहि देवि त्वं विश्वरूपिणी । नान्यदिच्छाम्यहं मातः सत्यमेतन्मयोदितम् ॥ आत्मनः स्वं परं ब्रह्मस्वरूपं दर्शयस्व मे । यदि तुष्टासि दासस्य कृपया त्वं ममोपरि ॥ इति श्रीस्कन्दमहापुराणे रेणुकामाहात्म्ये श्रीरेणुकास्तोत्रं मुचुकुन्दकृतम् ॥