अक्षर आकार:

रेणुकास्तोत्रम् श्रीमातापुरनिवासिनी

Matapura Nivasini Renuka Stotram

रेणुकास्तोत्रम् श्रीमातापुरनिवासिनी

श्रीगणेशाय नमः । नमस्तेऽस्तु ते महादेवि शिवे कल्याणशाम्भवि । प्रसीद वेदविनुते जगदम्ब नमोऽस्तु ते ॥ १॥ जगतामादिभूता त्वं जगत्त्वं जगदाश्रया । एकाऽप्यनेकरूपाऽसि जगदम्ब नमोऽस्तु ते ॥ २॥ सृष्टिस्थिते विनाशानां हेतुभूते मुनिस्तुते । प्रसीद देवविनुते जगदम्ब नमोऽस्तु ते ॥ ३॥ सर्वेश्वरि नमस्तुभ्यं सर्वसौभाग्यदायिनि । सर्वशक्तियुतेऽनन्ते जगदम्ब नमोऽस्तु ते ॥ ४॥ विविधारिष्टशमनि त्रिविधोत्पातनाशिनि । प्रसीद देवि ललिते जगदम्ब नमोऽस्तु ते ॥ ५॥ प्रसीद करुणासिन्धो त्वत्तः कारुणिका परा । यतो नास्ति महादेवि जगदम्ब नमोऽस्तु ते ॥ ६॥ शत्रूञ्जहि जयं देहि सर्वान् कामांश्च देहि मे । भयं नाशय रोगांश्च जगदम्ब नमोऽस्तु ते ॥ ७॥ जगदम्ब नमोऽस्तु ते हिते जय शम्भोर्दयिते महामते । कुलदेवि नमोऽस्तु ते सदा हृदि मे तिष्ठ यतोऽसि सर्वदा ॥ ८॥ मातापुरनिवासिन्याः देव्याः स्तोत्रमिदं परम् । यः पठेत्प्रयतो भक्त्या सर्वान् कामान् स आप्नुयात् ॥ ९॥ इति श्रीवासुदेवानन्दसरस्वतीपण्डितविरचितं श्रीमातपुरवासिन्याः देव्याः स्तोत्रं सम्पूर्णम् ॥