अक्षर आकार:

आगमरहस्ये रेणुकास्तोत्रम्

Renuka Stotram from Agam rahasya

आगमरहस्ये रेणुकास्तोत्रम्

श्रीगणेशाय नमः । श्रीरेणुकायै नमः । भैरवी उवाच देव देव महेशान महादेव दयानिधे । यत्त्वया पठ्यते नाथ रेणुकास्तोत्रमुत्तमम् ॥ ह्रीं रेणुकायै विद्महे राममात्रे च धीमहि । तन्नो गौरी प्रचोदयात् ॥ इति श्रीरेणुकागायत्रीमन्त्रः । तदहं श्रोतुमिच्छामि सर्वकामसमृद्धिदम् । सर्वार्थसाधकं दिव्यं साधकनां सुखावहम् ॥ महाभैरव उवाच श‍ृणु देवि प्रवक्ष्यामि रेणुका स्तोत्रमुत्तमम् । यस्य स्मरणमात्रेण सर्वान् कामानवाप्नुयात् ॥ स्तोत्रस्यास्य ऋषिः सोऽहं छन्दोऽनुष्टुप्प्रकीर्तितम् । देवता तु पराशक्तिः रेणुका जगदम्बिका ॥ न्यासं जालं तथा ध्यानं मूलमन्त्रेण वै चरेत् । ध्यानम् मध्ये बद्धमयूरपिच्छनिकरां श्यामां प्रबालाधरां गुञ्जाहारधरां धनुष्शरकरां नीलाम्बरामम्बराम् । श‍ृङ्गीवादनतत्परां सुनयनां मूर्द्धालकैर्बर्बरां भिल्लीवेषधरां नमामि शबरीं त्वामेकवीरां पराम् ॥ मानसे योनिमुद्रां प्रदर्श्य /-/- ॐ ह्रीङ्काररूपिणी देवी रेणुका सुखदायिनी । क्लीङ्काररूपिणी श्रद्धा सिद्धिसौभाग्यदायिनी ॥ वाग्भवा कामरूपा च कामकल्लोलमालिनी । षड्बीजा च त्रिबीजा च नवबीजा न वा नवा ॥ नवभैरवपूज्या च नवमी नव वल्लभा । नमस्तस्यै नमस्तस्यै रेणुकायै नमो नमः ॥ चैतन्यरूपिणी विद्या निर्गुणा गुणपारगा । नमस्तस्यै नमस्तस्यै रेणुकायै नमो नमः ॥ प्रपञ्चरहिता पृथ्वी लक्षणातीतविग्रहा । नमस्तस्यै नमस्तस्यै रेणुकायै नमो नमः ॥ या कामधेनुः सकलार्थदात्री सर्वेश्वरी सर्वभयापहन्त्री । या सच्चिदानन्दकरी जनानां सा रेणुका पातु निरन्तरं माम् ॥ या राममाता रमणीयरूपा रमाधवाद्यैरभिपूजितान्ध्रिः । नित्योत्सवा निर्जरवन्दिता च सा रेणुका पातु निरन्तरं माम् ॥ या कालरात्रिः कलिकल्मषघ्नी कल्याणशैलामलवासवासा । योगेश्वराराधितपादपद्मा सा रेणुका पातु निरन्तरं माम् ॥ या भर्गपत्नी भवरोगहन्त्री भक्तेश्वरी भक्तजनाभिनन्दिनी । भव्या भवानी भवपूजिता या सा रेणुका पातु निरन्तरं माम् ॥ या एकलाऽनेकशरीरधारिणी दिव्याम्बरा दिव्यसुरत्वपूजिता । शिवाऽपरा सर्वसुखैकभूमिदा सा रेणुका पातु निरन्तरं माम् ॥ नमस्ते राममात्रे ते नमः कल्याणदायिनी । नमः सकलसङ्घात्र्यै रेणुकायै नमोऽस्तु ते ॥ ब्रह्मरूपे नमस्तेऽस्तु नमस्ते शिवरूपिणी । विष्नुरूपे नमस्तेऽस्तु रेणुकायै नमोऽस्तु ते ॥ सर्वशक्त्यै नमस्तेऽस्तु सर्वव्यापिणि सर्वदा । सर्वार्थसाधिके नित्यं रेणुकायै नमोऽस्तु ते ॥ नमो नमस्ते भैरव्यै भवभीतिनिवारिणी । भवान्यै भक्तवश्यायै रेणुकायै नमोऽस्तु ते ॥ विश्वाधारे विश्वमये विश्वेश्वरविलासिनी । विश्वम्भरि विशालाक्षि रेणुकायै नमोऽस्तु ते ॥ कमले कमलावासे कमलोद्भवपूजिते । कामदे कामवरदे रेणुकायै नमोऽस्तु ते ॥ विश्वबीजे विराटायै विरजाम्बरधारिणि । यन्त्रेश्वरि महामाये रेणुकायै नमोऽस्तु ते ॥ निखिलनिगमगीते शम्भुवामाङ्कसंस्थे शरणजनसुतारे तारमन्त्रादिरूढे । सुरवरमुनिवर्यैः पूजिते पात्रहस्ते परमसुखसुखाब्धे रेणुके त्वं प्रसीद ॥ भैरव उवाच रेणुकास्तोत्रमेतत्ते कथितं भुवनेश्वरि । सर्वकामप्रदं नॄणां सर्वारिष्टविनाशकृत् ॥ सर्वाभीष्टकरं दिव्यं पठनीयं प्रयत्नतः । इत्यागमरहस्ये वै भैरवेण समीरितम् ॥ इति श्र्यागमरहस्ये भैरवप्रोक्तं रेणुकस्तोत्रं सम्पूर्णम् ॥ अथ श्रीरेणुकामन्त्रः अस्य श्रीरेणुकामन्त्रस्य श्रीरुद्र ऋषिः श्रीरेणुकादेवी देवता विराट् छन्दः क्लीं बीजं श्रीरेणुकादेवी शक्तिः क्लीं कीलकं ममाभीष्टसिद्धये जपे विनियोगः ॥ ध्यानम् प्रफुल्लहारकेयूरकुण्डलादि विराजिताम् । प्रसन्नवदनां शान्तां श्रीदेवीं रेणुकां भजे ॥ मन्त्रः १। क्लीं क्लीं क्लीं रेणुकादेव्यै नमः । २। क्लीं क्लीं क्लीं स्वाहा । ३। क्लीं रेणुकायै स्वाहा । ध्यानम् लोलल्यालिलसत्प्रफुल्लसुमनो जालोल्लसत्कानने भिल्लीवेषमनङ्गवेगजनकं धृत्वा चलन्ती शनैः । लोलापाङ्गतरङ्गरङ्गसुदृशा सम्मोहयन्ती शिवं चञ्चच्चञ्चलनूपुरध्वनियुता वर्वर्ति सर्वार्थदा ॥ ॥ इति ॥