अक्षर आकार:

रेणुकास्तवराजस्तोत्रम् कौलार्णवे भैरवोक्तम्

Renuka Stavaraj Stotram Kaularnava

रेणुकास्तवराजस्तोत्रम् कौलार्णवे भैरवोक्तम्

श्री गणेशाय नमः । सदाशिवं नमस्कृत्य उमां दुर्गां गणेश्वरम् । वक्ष्यामि रेणुकास्तोत्रं भुक्ति-मुक्ति-फलप्रदम् । गुप्तप्रकट-सिद्धानां योगिनी चक्र-पादुकाम् । नमामि शिरसा नाथं काल कौलेश्वरं प्रभुम् ॥ आनन्द-पीठ-मध्यस्थमानन्द-परवेष्टितम् । प्रणम्य च कुलानन्दं ज्ञानानन्द-प्रकाशकम् ॥ अक्षरं क्षरमाद्यन्तं प्रकृतिं पुरुषं परम् । तं वन्दे सच्चिदानन्दमेकवीरं सशाम्भवम् ॥ सिंहपर्वतमासीनं देवदेवेश्वरोत्तमम् । तत्रस्थञ्च सुरवासिनमात्रेयं ब्रह्मवादिनम् ॥ अनुसूया वरं प्राप्तं पुत्रस्नेहेन वत्सलाम् । यत्र योगीश्वरो विष्णुः सम्भविष्यत्वयोनिजाम् ॥ नानाभोगसमाकीर्णं क्रीडते प्रमदादिभिः । मदिरानन्दचैतन्यं ज्ञानानन्दप्रबोधकम् ॥ जमदग्नेस्तु या भार्या रेणुका नाम विश्रुता । राममातेति विख्याता त्रिषु लोकेषु विस्तृता ॥ दत्तात्रयो महात्माऽसौ नागपिङ्गलपूर्वकम् । रेणुकायाः विनिक्षिप्तं सद्भावं बीजमुत्तमम् ॥ माया बीजेन संयुक्तं महापीठोद्भवं शुभम् । तत्रस्था शाम्भवी शक्तिः सोमया च कुलान्वया ॥ कुलाकुलविभागेन वाम-दक्षिण-सञ्ज्ञकम् । सन्तानं त्रिः प्रकारं चतुः सिंहासने सदा ॥ क्रमपीठेः सदा युक्तं द्वीप-द्वीपान्तरे स्थितम् । पञ्चाशद्वर्णभेदेन मन्त्रयन्त्राणि वै स्थितम् ॥ चतुष्कं पञ्चकं षट्कं चतुष्कं पञ्चकन्त्रिकम् । वषट्कारः समुत्पन्नः कौमार्या बटुकाद्वयः ॥ षड्भिः चक्रैस्तु वै देव्याः श्रीकण्ठाद्याश्चैव भैरवाः । श्रिया क्रमेण संयुक्ता चतुःषष्ठ्यास्तु देवताः ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा च शिवोद्भवा ॥ प्रयोगे वारुणं कौलं आदावाह्य जयन्तिका । चरत्रिकं प्रतञ्चैव देवी कोष्ठेन चाष्टधा ॥ माहेन्द्री च तथाग्नेयी याम्यां नैऋत्य वारुणी । वायव्यां हि च कौवेरी ईशान्यां दिव्ययोगिनी ॥ उड्यायनी जलन्धरी कामरूपा च या स्थिता । कौलार्णवे स्थिता या च मन्त्रे चक्रे तु या स्थिता ॥ प्रसन्ना प्रकटा चैव सहजा कुलजादयः । क्षेत्रपालाश्च दिक्पाला वेतालाश्चैव राक्षसाः ॥ पिशाचा गणगन्धर्वा शाकिनी डाकिनी तथा । ख़ेचरा भूचराश्चैव पातालाश्चान्तरिक्षगाः ॥ नानारूपधरा सर्वे बलिपूजाभिकाङ्क्षिणः । अधिकारस्वरूपेण विचरन्ति महीतले ॥ क्रीडते योगिनी वृन्दं क्षेत्रमातृगृहे स्थितम् । केचिद् गायन्ति नृत्यन्ति पूजयन्ति स्तुवन्ति च ॥ हसन्ति किलकिलायन्ति गर्जयन्ति महाबलाः । मातृपादोद्भवा सर्वे मातृमण्डलसंस्थिता ॥ तन्मध्ये शाम्भवी शक्तिर्रेणुका सुरपूजिता । श्रावण्यश्चैव शाक्तेयमष्टव्या शाम्भवीपदम् ॥ तेन सा शाम्भवी प्रोक्ता हकाराद्धि कलास्मृता । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरः शिव एव च ॥ मालाबीजसमुत्पन्ना सा शक्तिर्रेणुका मता । नमोऽस्तु ते महादेवि महामाये नमोऽस्तु ते ॥ नमोऽस्तु ते वीरभद्रे वीरमात्रे नमोऽस्तु ते । राममात्रे नमस्तुभ्यं त्रिषु लोकेषु पूजिता ॥ नमोऽस्तु कुलकौलेशि नमोऽस्तु ज्ञानभैरवि । नमोऽस्तु ज्ञानगे सर्वे सर्वेश्वरि नमोऽस्तु ते ॥ रामेश्वरि नमस्तुभ्यं कामेश्वरि नमोऽस्तु ते । भद्रकालि नमस्तुभ्यं कामेश्वरि नमोऽस्तु ते ॥ जमदग्निप्रिये शुभ्रे रेणुके त्वां नमोऽस्तु ते । चैतन्यविग्रहे नित्ये व्यापके त्वां नमोऽस्तु ॥ त्रैलोक्यव्यापिनी देवी विष्णुमाये नमोऽस्तु ते । शङ्कर-प्रेमपात्रत्वं पार्वति त्वां नमोऽस्तु ते ॥ हरकायार्द्धवासित्वं शङ्करि त्वां नमोऽस्तु ते । भक्तिप्रिये महाशुभ्रे मालिनि त्वां नमोऽस्तु ते ॥ पञ्चमुद्रे महामुद्रे भूतपञ्चकमुद्रिते । महामुद्रात्मिके शान्ते रेणुकायै नमोऽस्तु ते ॥ सद्भावबीजमुत्पन्नं भावेन तव संस्थितम् । स्वात्मभावात्मजात्मस्था रेणुकायै नमोऽस्तु ॥ स्वच्छन्दविहरिणी शक्तिः स्वच्छन्देन च संस्थिता । स्वच्छन्दोन्मत्तमातङ्गी रेणुकायै नमोऽस्तु ते ॥ प्रमत्ते मदिरानन्दे मदिरानन्दविग्रहे । चिद्रुपे परमानन्दे रेणुकायै नमोऽस्तु ते ॥ जगद्बीजे जगद्रूपे जगद्भूते जगन्मये । जगन्माते जगन्मातः रेणुकायै नमोऽस्तु ते ॥ वैष्णवी विष्णुमाया त्वं मोहितं सचराचरम् । वाञ्छितार्थप्रदादेवि तां वन्दे रेणुकामहम् ॥ स्वच्छन्दभैरवीचण्डे मातङ्गी मत्तरूपिणी । योगिनीवृन्दमध्यस्थे एकवीरे नमोऽस्तु ते ॥ ब्रह्मवैकुण्ठरुद्राद्या मुनीन्द्राः सिद्धकिन्नराः । त्वत्पदं पूजयन्तीह मातृपीठे नमोऽस्तु ॥ त्वं परा त्वं च पश्यन्ती मध्यमा त्वं च वैखरी । ऋग्यजुः सामाथर्वाणि शब्दब्रह्मात्मिके नमः ॥ यज्ञविद्या त्रिसन्ध्या त्वं वेदगर्भा सुरेश्वरि । गङ्गा गया च गायत्री मातापुरनिवासिनी ॥ त्वं स्वाहा त्वं स्वधा चैव पञ्चयज्ञमहामख़े । यस्य जाति द्विजेन्द्राणां मातृलिङ्गमहेश्वरि ॥ त्वं च काली महाकाली महालक्ष्मी सरस्वती । त्रिपुरा त्वरिता त्वं च रेणुकायै नमोऽस्तु ते ॥ कपालिनी कालिकात्वं भैरवी त्वं चाम्बिका । माहेन्द्री त्वं विशालाक्षी रेणुकायै नमोऽस्तु ते ॥ क्षेत्रजा पीठजा त्वं च मन्त्रजा त्वं कलाम्बिके । प्रसन्ना प्रकटा त्वं च सहजा त्वं च रेणुके ॥ वामे ज्येष्ठे च रौद्रे च मालिनी मन्त्रयोगिनी । वेद सिद्धान्तयानित्यं तां वन्दे रेणुकामहम् ॥ सुरज्येष्ठे सुरानन्दे सर्वदेवमयी शिवे । सच्चिदानन्दचिद्रूपे विश्वेश्वरि नमोऽस्तु ते ॥ पीठक्षेत्रे श्मशाने च क्रीडते वृन्दभैरवी । चत्वारि योगिनी वृन्दे रेणुकायै नमोऽस्तु ते ॥ चतुःषष्ठिस्तु योगिन्याः सिद्धसङ्घट्टमेलके । मातृमण्डलमध्यस्थे रेणुकायै नमोऽस्तु ते ॥ मन्त्रयन्त्रकुलाद्ये तु कुलकौलेश्वरि शिवे । ज्ञानानन्दसुरापूर्णे रेणुकायै नमोऽस्तु ते ॥ चतुरष्टकपीठा त्वं माया सा चण्डिका मता । बिन्दु-नाद-कला-ज्योतिः शिवशक्तिः सुशाम्भवी ॥ पञ्चबीजसमायुक्ता पञ्चप्रणवसम्भवा । उकारविग्रहा शक्तिः समया चञ्चलाम्बिका ॥ कौलान्वयसमुद्भूते कौलिकान्वयपूजिते । भारती चैकवीरा त्वं कुलकौलान्तरालिनी ॥ राजराजेश्वरी त्वं च सिंहे चण्डेश्वरी मते । स्वच्छन्दा श्रीभवा प्रोक्ता सा शक्तिर्मातृमण्डले ॥ आदि सूत्रक्रमैर्युक्तं मध्यसूत्रं तथैव च । संवर्त्तमण्डलान्तस्थे वीरमात्रे नमोऽस्तु ते ॥ कुलावलिमथा वृक्षा अम्बा श्रीनाथपादुका । अकृष्टकेतकि त्वं च कुब्जे चण्डि नमोऽस्तु ते ॥ दूती बटुककौमार्या भैरवी क्षेत्रपालका । सिद्धसङ्घट्टयोगिन्यां क्रीडते मातृमण्डले ॥ योगिनी पीठमध्यस्थं महापीठं सशाम्भवम् । एकवीराक्षरं ब्रह्म सूरसिद्धालयं परम् ॥ हंसपर्यङ्कमारूढं त्रिकोणं बीजपूरकम् । एकवीरामिदं बीजं वाग्भवं परमेश्वरम् ॥ त्रिबीजं बाणसंयुक्तं त्रिशट्कोष्ठदले स्थितम् । तन्मध्ये शाम्भवी बीजमेकवीरं चिदात्मकम् ॥ त्रिकोणान्येकबीजञ्च मायाबीजेन वेष्टितम् । आनन्द कन्दकल्लोलं हसन्तं मातृमण्डलम् ॥ ब्रह्मा विष्णुर्महादेव इन्द्राद्याश्चैव देवता । यद्बीजं मातृपीठस्थं शाम्भवं तं नमाम्यहम् ॥ अकारस्याष्टमं बीजं शिवशक्तिसमन्वितम् । तन्मध्ये वस्तुनिष्क्रान्तं एकवीरं सशाम्भवम् ॥ हृदिमध्ये स्थितं पद्मं हृदि पद्मं सकर्णकम् । तन्मध्ये वस्तुनिष्क्रान्तमेकवीरं सशम्भवम् ॥ सर्वनारीशुभत्वञ्च कूटस्थं बीजमव्ययम् । हकरार्धकुलधरमेकवीरे नमोऽस्तु ते ॥ नित्यक्लिन्ने मदद्रावे प्राणजीवात्मसञ्ज्ञके । हृल्लेख़े सच्चिदानन्दे विश्वेश्वरि नमोऽस्तु ते ॥ कुलपङ्कजमार्तण्डे हंसाक्षे प्राणधारिणी । चैतन्यविग्रहे नित्ये रेणुकायै नमोऽस्तु ते ॥ कदम्बगोलकाकारे ब्रह्मरन्ध्रविलम्बिनी । सूक्ष्मसूक्ष्मान्तरे नित्ये रेणुकायै नमोऽस्तु ते ॥ केन्दुः स्रवलित शक्तिः षट्चक्रक्रमभेदिनी । ब्रह्मरन्ध्रे विनिष्क्रान्ते रेणुका व्योममण्डले ॥ लिङ्गत्रयान्ते निष्क्रान्ते शून्ये नादविनिग्रहे । निरालम्बे निराभासे रेणुकायै नमोऽस्तु ते ॥ नाभिमूलेषु या शक्तिः कुण्डिल्याः सर्परूपिणी । षट्चक्रविन्दुनादान्ते रेणुका व्योममण्डले ॥ इडा पिङ्गलमध्यस्थे ब्रह्ममार्गप्रवाहिनी । मृणालतन्तुरूपेण हिमांशु नित्यं चिदाम्बिके ॥ द्वासप्तति-सहस्राणि नाडी वृन्दानि चालयेत् । सोम-सूर्याग्निभिन्नेऽसि चिद्रूपे परमामृते ॥ शशिकोटि समाभासे अवसीः ब्रह्ममण्डले । अचले सर्वभूतस्थे राममात्रे नमोऽस्तु ते ॥ अन्तःकरणसम्बन्धि नाडीयन्त्रप्रवाहिनी । प्रणवात्मक हः सम्यक् हृत्प्रष्ठे प्रतितिष्ठति ॥ आधारे नाभि मध्यस्थे हृत्पद्म-कण्ठ-तालुके । प्राणस्यान्तर्गते सूक्ष्मे षोडश चैव रेणुके ॥ स्थानत्रयविनिष्क्रान्ते मात्रात्रयविनिष्ठिते । मातृकेत्येकवीरे च व्योमातीते परात्परे ॥ पीठस्थे पीठमध्यस्थे मायातीत-परात्परे । हङ्कारार्धकलापूर्णे रेणुकायै नमोऽस्तु ते ॥ त्वया विनैकभेदेन व्यापितं सचराचरम् । इच्छा-ज्ञान-क्रिया-शक्ति रेणुकायै नमोऽस्तु ते ॥ गिरिमध्ये तथारण्ये मेरुमध्ये हिमाचले । नन्दा कात्यायनी दुर्गे रेणुकायै नमोऽस्तु ते ॥ स्वर्गपातालमर्त्येषु विचरन्ती त्वनेकधा । प्रचण्डयोगिनी चण्डे एकवीरे नमोऽस्तु ते ॥ तेजोमण्डलदुर्धर्षे सूर्यकोटि-समप्रभे । दुर्निरीक्ष्ये दुराधारे एकवीरे नमोऽस्तु ते ॥ ऐं बीजं व्यापितं येन वज्रेयं सचराचरम् । त्रैलोक्यं क्षोभयन्तीं त्वा मायाबीजेन रेणुकाम् ॥ त्वमेव परमं जाप्यं त्वमेव परमं तपः । त्वमेव परमं ज्ञानं रेणुकायै नमोऽस्तु ते ॥ त्वं माता त्वं पिता भ्राता त्वं सखा त्वं गुरुप्रभुः । त्वमेव जगतां धात्री त्राहि मां भक्तवत्सले ॥ अधर्मः कुरु ते धर्म धनवान् धनमीश्वरि । अजातिः कुरु ते जातिस्त्वयाज्ञा परमेश्वरि ॥ अपवित्रं पवित्रेयं कुरुषे त्वं सदाम्बिके । त्वमेव परमं तीर्थं त्रैमूर्तिस्त्वं जगन्मये ॥ जातिभ्रष्टा कुलभ्रष्टा व्रतभ्रष्टा च ये नराः । एकवीराप्रसादेन शुद्धास्ते नात्र संशयः ॥ द्विजाति म्लेक्ष पर्यन्तं पापं यः कुरुते नरः । तत्सर्वं दह्यते क्षिप्रं रेणुकादर्शनेन तु ॥ वर्णावर्णो न तस्यास्ति त्वन्मार्गे ये यथेरितम् । तीर्थं भूतासि मातङ्गी रेणुकायै नमोऽस्तु ते ॥ विरजे रजनीमूर्ते निर्धूते धूतकल्मषे । त्रैलोक्य पावनि पुण्ये एकवीरे नमोऽस्तु ते ॥ समनो घ्राणाङ्घ्रि पाणिश्च दद्रुस्फोटकमेव च । दारिद्र्य-दुःख-रोगघ्नीं तां वन्दे रेणुकामहम् ॥ कल्पद्रुम-समाख्याता चिन्तामणि-विभूषिता । रेजनाः किं पश्यन्ति रेणुकां कामधेनुकाम् ॥ धर्मार्थकाममोक्षाणां पुरुषाणां चतुर्विधाम् । एकवीराप्रसादेन सिध्यन्ते नात्र संशयः ॥ सर्वं तीर्थाभिषेकं तु सर्वयज्ञफलं लभेत । आषाढे चैव कार्तिक्यां रेणुकादर्शनेन तु ॥ पृथिव्यां यानि तीर्थानि समुद्रा सरितानि च । एकवीरा परं नास्ति सद्यः प्रत्ययकारकम् ॥ कार्तिक्यां कृत्तिकायोगे यः पश्यन्तीह रेणुकाम् । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ॥ श्रीसिंहामलकं देव देवदेवेन सेवितम् । मुक्तिगता समासाद्य द्विसप्ततिचतुर्मुखाः ॥ देवदेवो तथा रुद्रः सम्भेदो भास्करालयम् । तोयं मेरुस्तडागस्य सद्यः पापहराणि षट् ॥ कुरुक्षेत्रे सकृत्तीर्थे राहुग्रस्ते दिवाकरे । प्रयागं च सदातीर्थं गया गङ्गा च रेणुका ॥ आधारभूतनिलयो ललनारूपधारिणी । क्षुधा तृषा च दुःखघ्नीं तां वन्दे रेणुकामहम् ॥ ये पश्चिमास्तु ये सिद्धा पूर्वायै ये च संस्थिताः । एकवीरा परं बीजं शाश्वतं पदमव्ययम् ॥ मायाबीजेन या प्रोक्ता हङ्कारार्द्धकलास्मृता । सा योनिः सर्वमन्त्राणां सा शक्तिः रेणुका स्मृता ॥ किं तस्य बहुभिर्मन्त्रैर्वेदसिद्धान्तविस्तरैः ॥ एकवीरामहामन्त्रं सर्व-काम-फलप्रदम् ॥ मूलमन्त्रमिदं प्रोक्तं हंसभेदेन संस्थितम् । स साक्षाद् भैरवे प्रोक्तमेकवीरं परात्परम् ॥ शिवशक्तिमिदं बीजं रेणुकामिदमव्ययम् । सर्वमङ्गलमाङ्गल्ये पवित्रं पापनाशनम् ॥ य इदं पठते नित्यं त्रिसन्ध्यं श्रद्धयान्वितम् । आयुरारोग्यमैश्वर्यं पदं निर्वाणमाप्नुयात् ॥ अचलां श्रियामाप्नोति पुत्रदारादि सम्पदाम् । भुञ्जते विपुलान्भोगान् त्रैलोक्यं मोहयेद्ध्रुवम् ॥ एकवीरा इदं बीजं त्रैलोक्ये यः पठेन्नरः । ऐश्वर्यं लभते राज्यं वागैश्वर्यं च जायते ॥ दुर्वृत्तानामशेषेण तथा दुःस्वप्नदर्शने । रक्षोभूत-पिशाचेभ्यो ग्रहपीडां व्यपोहति ॥ रेणुकापरमं स्तोत्रं ये जपन्ति च मानवाः । प्राप्नुयात्परमां सिद्धिमणिमादि गुणाष्टधाम् ॥ मातापुरस्थिता देवी मातृपीठोद्भवा शिवा । महादेवेन संस्तुत्य भुक्ति-मुक्ति-फलप्रदाम् ॥ रेणुकाया इदं स्तोत्रं पठिष्यति दिने दिने । स गच्छेत् परमं स्थानं यत्र देवो महेश्वरः ॥ इति श्रीकौलार्णवे श्रीभैरवप्रोक्तं रेणुकास्तवराजस्तोत्रं सम्पूर्णम् । ॥ श्री रेणुकार्पणमस्तु ॥