अक्षर आकार:

श्रीरेणुकासप्तकम्

Renuka Saptakam

श्रीरेणुकासप्तकम्

श्रीगणेशाय नमः । पुरतो विलोक्य वृषभं पार्श्वे लिङ्गं परात्परस्य विभोः । पृष्ठे स्कन्दगणेशौ त्वां कालीं मन्महे मातः ॥ १॥ न त्वं लक्ष्मीमातः यल्लक्ष्मीनायकस्य माताऽसि । जनयित्रि राक्षसारेः तस्मात्त्वां मन्महे कालीम् ॥ २॥ संहारनायिकत्वात् मारीत्वादुग्रवेषरूपत्वात् । मध्यमलोकनिवासात् त्वां कालीं मन्महे मातः ॥ ३॥ जमदग्निः शिवभागः भागस्त्वं देवि शैलकन्यायाः । एवं ज्ञात्वा यस्त्वां भजति स धन्यो महाभागः ॥ ४॥ त्वां चण्डिकां प्रचण्डामाहुस्तन्त्राणि जनिमतां मातः । तस्मात्त्वं शिवकान्ता न श्रीर्न प्रेयसी च विधेः ॥ ५॥ गौरी श्रीर्वा वाग्वा न विशेषो जगति भक्तलोकस्य । मम तु विशिष्टा गौरी साक्षादस्याः सुतो यदहम् ॥ ६॥ तिसृषु परदेवतासु श्रेष्ठत्वं नोच्यते मयैकस्याः । प्रीतिर्मे गिरिजायां लक्ष्मीतो भारतीतश्च ॥ ७॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः रेणुकासप्तकं समाप्तम् ॥ From Complete works of Shri Vasishtha Ganapati Muni Vol. 2.13