अक्षर आकार:

श्रीरेणुकासहस्रनामस्तोत्रम्

shrI reNukAsahasranAmastotram

श्रीरेणुकासहस्रनामस्तोत्रम्

अथ श्रीरेणुकातन्त्रान्तर्गतं श्रीरेणुकासहस्रनामस्तोत्रम् । श्री गणेशाय नमः । श्री रेणुकायै नमः । गिरिपृष्ठे समासीनं शङ्करं लोकशङ्करम् । प्रणतः परिपप्रच्छ संशयस्थः षडाननः ॥ १॥ स्कन्द उवाच -- तात सर्वेश्वरस्त्वं हि सर्वज्ञः सर्वभावनः । कथयस्व प्रसादेन रहस्यं सकलार्थदम् ॥ २॥ विजयः सङ्कटे घोरे निर्विघ्नं बलमुत्कटम् । अन्येऽपि वाञ्छितार्थाश्च सिद्ध्यन्त्याशु विना श्रमम् ॥ ३॥ शङ्कर उवाच -- साधु पृष्टं महाबाहो संशयो मास्तु मास्तु ते । यदनुष्ठानमात्रेण सर्वान्कामानवाप्स्यसि ॥ ४॥ कस्यचिन्नयदाख्यातं तद्रहस्यं वदाम्यहम् । स्तोत्रं सहस्रनामाख्यं रेणुकायास्तु सिद्धिदम् ॥ ५॥ सद्यः प्रत्ययकामस्त्वं श‍ृणु षण्मुख भक्तितः । सर्वदेवाश्च वेदाश्चक्षीणवीर्या युगे युगे ॥ ६॥ अक्षीणफलदात्रीयं त्रिसत्यं मम भाषितम् । सर्वदेवमयी देवी रेणुका कामदार्चिता ॥ ७॥ पुरदाहे मया ध्याता तथैव गरलाशने । विष्णुना सागरोन्माथे ब्रह्मणा सृष्टिकर्मणि ॥ ८॥ गोत्रभेदे मघवता जगती धारणेऽहिना । कामेन शम्बरवधे रत्या तत्प्राप्तये पुनः ॥ ९॥ गणाधीशेन सततं विघ्नवारणकर्मणि । किं वत्स बहुनोक्तेन हैमवत्या मदाख्यया ॥ १०॥ ध्यात्वा सर्वार्थदा सा हि सर्वलोकैकसंश्रया । महत्कार्योद्यतैरन्यैर्बहुभिश्चिन्तिता शिवा ॥ ११॥ धर्मार्थकाममोक्षार्थमवाङ्मनसगोचरा । तस्या एव प्रसादात्तां स्तौमि नामावलिच्छलात् ॥ १२॥ ऋष्यादिकं च सङ्क्षेपात्कथयामि षडानन । त्र्यम्बकश्च ऋषिः प्रोक्तोऽनुष्टुप्छन्दः प्रकीर्तितम् ॥ १३॥ एकवीरा महामाया रेणुका दैवतं स्मृतम् । सर्वपापक्षयद्वारा प्रीत्यै देव्या मुहुर्मुहुः ॥ १४॥ सर्वाभीष्टफलप्राप्तौ विनियोग उदाहृतः । रेणुका राममातेति महापुरनिवासिनी ॥ १५॥ एकवीरा कालरात्रिरेकला नामभिः क्रमात् अङ्गुष्ठादि करन्यासो हृदयादि षडङ्गकम् । चतुर्थ्यन्तैर्नमोन्तैश्च प्रणवादिभिराचरेत् ॥ १६॥ अस्य श्री रेणुका सहस्रनामस्तोत्रमन्त्रस्य त्र्यम्बक ऋषिः श्रीरेणुका देवता । अनुष्टुप्छन्दः । सर्वपापक्षयद्वारा श्री जगदम्बा रेणुका प्रीत्यर्थं सर्वाभीष्टफलप्राप्त्यर्थं च जपे विनियोगः । अथ न्यासः - श्रीरेणुकायै नमः अङ्गुष्ठाभ्यां नमः । ॐ राममात्रे नमः तर्जनीभ्यां नमः । ॐ महापुरवासिन्यै नमः मध्यमाभ्यां नमः । ॐ एकवीरायै नमः अनामिकाभ्यां नमः । ॐ कालरात्र्यै नमः कनिष्ठिकाभ्यां नमः । ॐ एकलायै नमः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि- ॐ रेणुकायै नमः हृदयाय नमः । ॐ राममात्रे नमः शिरसे स्वाहा । ॐ महापुरवासिन्यै नमः शिखायै वषट् । ॐ एकवीरायै नमः कवचाय हुं । ॐ कालरात्र्यै नमः नेत्रत्रयाय वौषट् । ॐ एकलायै नमः अस्त्राय फट् । ध्यानम् -- ध्यायेन्नित्यमपूर्ववेषललितां कन्दर्पलावण्यदां देवीं देवगणैरुपास्यचरणां कारुण्यरत्नाकराम् । लीलाविग्रहिणीं विराजितभुजां सच्चन्द्रहासादिभि- र्भक्तानन्दविधायिनीं प्रमुदितां नित्योत्सवां रेणुकाम् ॥ १७॥ ॐ रेणुका रामजननी जमदग्निप्रिया सती । एकवीरा महामाया कालरात्रिः शिवात्मिका ॥ १८॥ महामोहा महादीप्तिः सिद्धविद्या सरस्वती । योगिनी चन्द्रिकासिद्धा सिद्धलक्ष्मीः शिवप्रिया ॥ १९॥ कामदा कामजननी मातृका मन्त्रसिद्धिदा । मन्त्रसिद्धिर्महालक्ष्मी मातृमण्डलवल्लभा ॥ २०॥ चन्द्रिका चन्द्रकान्तिश्च सूर्यकान्तिः शुचिस्मिता । योगेश्वरी योगनिद्रा योगदात्री प्रभावती ॥ २१॥ अनाद्यन्तस्वरूपा श्रीः क्रोधरूपा महागतिः । मनःश्रुतिस्मृतिर्घ्राणचक्षुस्त्वग्रसना रसा ॥ २२॥ मातृका पतिरुत्क्रोशा चण्डहासा महावरा । महावीरा महाशूरा महाचापा रथस्थिता ॥ २३॥ बर्हिपत्रप्रिया तन्वी बर्हिपत्रा चतुर्भुजा । नादप्रिया नादलुब्धा त्र्यक्षरा मृतजीवनी ॥ २४॥ अमृतामृतपानेष्टा सिन्धुपा पात्रशालिनी । चण्डहासधरा शूरा वीरा डमरुमालिनी ॥ २५॥ शिरोधरा पात्रकरा वरदा वरवर्णिनी । त्रिमूर्तिर्वेदजननी वेदविद्या तपोनिधिः ॥ २६॥ तपोयुक्ता तपोलक्ष्मीस्तपसः सिद्धिदापरा । ललिता सात्विकी शान्ता राजसी रक्तदन्तिका ॥ २७॥ एकला रेणुतनया कामाक्षी सत्परायणा । ऐन्द्री माहेश्वरी ब्राह्मी वैष्णवी वडवानला ॥ २८॥ कावेरी घनदा याम्या याम्याग्नेयी तनुर्निशा । ईशानी नैऋतिः सौम्या माहेन्द्री वारुणी समा ॥ २९॥ सर्वर्षिध्येयचरणा नृवारणा नरवल्लभा । भिल्लीवेषधरा भिल्लीवर्वरालक मण्डिता ॥ ३०॥ श‍ृङ्गीवादन सुरसा गुञ्जाहार विभूषणा । मयूर पिच्छाभरणा श्यामा नीलाम्बरा शिवा ॥ ३१॥ कालिका रेणुदुहिता शिवपूज्या प्रियंवदा । सृष्टिकृत् स्थितिकृत्क्रुद्धा पृथ्वी नारदसेविता ॥ ३२॥ संहारकारिणीन्द्राक्षी रक्षोघ्नी चन्द्रशेखरा । हुं फट् वौषट् वषड्रूपा स्वधा स्वाहा नमो मनुः ॥ ३३॥ सुषुप्तिर्जाग्रतिर्निद्रा स्वप्ना तुर्या च चक्रिणी । तारा मन्दोदरी सीताऽहल्याऽरुन्धतिका दितिः ॥ ३४॥ भगीरथी च कावेरी गौतमी नर्मदा मही । सरयूर्गौतमी भीमा त्रिवेणी गण्डकी सरी ॥ ३५॥ मानसं चन्द्रभागा च रेवा गङ्गा च वेदिका । हरिद्वारं मातृपुरं दत्तात्रेयनिवासभूः ॥ ३६॥ मातृस्थादिसंस्थाना मातृमण्डलमण्डिता । मातृमण्डलसम्पूज्या मातृमण्डलमध्यगा ॥ ३७॥ नानास्थानावताराद्या नानास्थानचरित्रकृत् । कमला तुलजात्रेयी कोह्लापुरनिवासिनी ॥ ३८॥ मन्दाकिनी भोगवती दत्तात्रेयानुसूयका । षट्चक्रदेवता पिङ्गा जमदग्नीश्वरार्द्धहृत् ॥ ३९॥ इडाख्या च सुषुम्नाख्या चन्द्रसूर्यगतिर्वियत् । चन्द्रसूर्यसमाख्याता सर्वस्त्रीनिलयाध्वनिः ॥ ४०॥ समस्तविद्यातत्त्वज्ञा सर्वरूपा सुखाश्रया । पुण्यपापेश्वरी कीर्तिर्भोक्त्री भोगप्रवर्तिनी ॥ ४१॥ जमदग्न्यस्य जननी कविशक्तिः कवित्वदा । ह्रीङ्काराम्बा तमोरूपा क्लीङ्कारा कामदायिनी ॥ ४२॥ वाक्प्रदैङ्काररूपा च मुक्तिदौङ्काररूपिणी । श्रीङ्काराखिलदानोक्ता सर्वबीजात्मिकात्मभूः ॥ ४३॥ जमदग्नि शिवाङ्कस्था धर्मार्थकाममोक्षदा । जमदग्निक्रोधहरा जमदग्निवचःकरी ॥ ४४॥ जमदग्नितमोहन्त्री जमदग्निसुखैकभूः । जितवीरा वीरमाता वीरभूर्वीरसेविता ॥ ४५॥ वीरदीक्षाकरी सौर्यदीक्षिता सर्वमङ्गला । कात्यायनी परीवारा कालकाला कलानिधिः ॥ ४६॥ अष्टसिद्धिप्रदा क्रूरा क्रूरग्रहविनाशिनी । साकारा च निराकाराहङ्काराकारणा कृतिः ॥ ४७॥ सम्मता विषमघ्नी च विषहन्त्री विषाशना । व्यालाभरणसंहृष्टा व्यालमण्डनमण्डिता ॥ ४८॥ अणुरूपा पराणुश्च सद्रूपा च महापरा । ह्रस्वा ह्रस्वपरा दीर्घा परदीर्घा परात्परा ॥ ४९॥ अद्वयाद्वयरूपा च प्रपञ्चरहिता पृथुः । स्थूलसूक्ष्मा निरीहा च स्नेहाञ्जनविवर्जिता ॥ ५०॥ ब्रह्मसूता महानिद्रा योगनिद्रा हरिस्तुता । हिरण्यगर्भरूपा च परब्रह्मस्वरूपिणी ॥ ५१॥ ब्रह्मशक्तिर्ब्रह्मविद्या विश्वबीजा निरञ्जना । अतुला कर्मरूपा च श्यामला परिघायुधा ॥ ५२॥ नारायणी विष्णुशक्तिः अवाङ्मनसगोचरा । घृतमारी पुण्यकरी पुण्यशक्तिरमाम्बिका ॥ ५३॥ रक्तबीजवधोद्रिक्ता रक्तचन्दनचर्चिता । सुरक्तपुष्पाभरणा रक्तदंष्ट्राभयप्रदा ॥ ५४॥ तीक्ष्णरक्तनखारक्ता निशुम्भप्राणकृन्तिनी । शुम्भप्राणनिहन्त्री च महामृत्युविनाशिनी ॥ ५५॥ सर्वदेवमहाशक्तिर्महालक्ष्मी सुरस्तुता । अष्टादशभुजार्च्यांशा दशदोर्दण्डमण्डिता ॥ ५६॥ निष्कलाष्टभुजा धात्री कल्पातीता मनोहरा । कल्पना रहितार्च्याद्या दारिद्र्यवनदाहिनी ॥ ५७॥ कौस्तुभा पारिजाता च हाहादिरूपधारिणी । तिलोत्तमाप्सरोरूपा नवनागस्वरूपिणी ॥ ५८॥ निधिरूपा समाधिस्था खड्गरूपा शवस्थिता । महिषासुरदत्तांघ्रिः सिंहगा सिंहगामिनी ॥ ५९॥ त्रिशूलधारिणी प्रौढा बाला मुग्धा सुधर्मिणी । शङ्खभृच्चक्रभृत्पाशा गदाभृत्पाशमण्डिता ॥ ६०॥ कालशक्तिः कृपासिन्धुर्मृगारिवरवाहना । गणराजमहाशक्तिः शिवशक्तिः शिवस्तुता ॥ ६१॥ हरिप्रिया श्राद्धदेवी प्रधाना गुहरूपिणी । गुहप्रीता गणेट्प्रीता कामप्रीता गुहस्थिता ॥ ६२॥ सर्वार्थदायिनी रौद्री नीलागतिरलोलुपा । चामुण्डा चित्रघण्टा च विश्वयोनिर्निरन्तरम् ॥ ६३॥ श्रावणी श्रमहन्त्री च संसारभ्रमनाशिनी । संसारफलसम्पन्ना संसारमतिरुच्चगा ॥ ६४॥ उच्चासनसमारूढा विमानवरगामिनी । विमानस्था विमानघ्नी पाशघ्नी कालनाशिनी ॥ ६५॥ कालचक्रभ्रमभ्रान्ता कालचक्रप्रवर्तिनी । चेतना चापिनी भव्या भव्याभव्यविनाशिनी ॥ ६६॥ सिंहासनसुखाविष्टा क्षीरसागरकन्यका । वणिक्कन्या क्षेमकरी मुकुटेशावनिस्थिता ॥ ६७॥ श्रुतिज्ञा च पुराणज्ञा स्मृतिज्ञा वेदवादनी । वेदवेदार्थतत्त्वज्ञा हिङ्गुला कालशालिनी ॥ ६८॥ इतिहासार्थविद्धर्म्या ध्येया हन्त्री शिशुप्रिया । स्तन्यदा स्तन्यधारा च वनस्था पार्वतीशिवा ॥ ६९॥ मेना मैनाकभगिनी सुरभिर्जलभुक्तडित् । सर्वबीजान्तरस्थात्री सकलागमदेवता ॥ ७०॥ स्थलस्थला जलस्था च वनस्था वनदेवता । क्षयहन्त्री निहन्त्री च निरातङ्कामरप्रिया ॥ ७१॥ त्रिकालज्ञा त्रिरूपा च लीलाविग्रहधारिणी । समाधिः पुण्यधिः पुण्या पापाज्ञानविनाशिनी ॥ ७२॥ दृश्या दृग्विषया दृष्टिः पापहन्त्री शमस्थिता । विरथा रथनिष्ठा च वरूथरथसंस्थिता ॥ ७३॥ मधुकैटभहन्त्री च सर्वदेवशरीरभृत् । त्रिपुरा पुण्यकीर्तिश्च नृपवश्यप्रदायिनी ॥ ७४॥ सांख्यविद्या त्रयीविद्या योगविद्या रविस्थिता । स्थावरा जङ्गमा क्षान्तिर्बलिशक्तिर्बलिप्रिया ॥ ७५॥ महिषासुरनिर्णाशी दैत्यसैन्यपरान्तकृत् । डमड्डमरुडाङ्कारा वीरश्रीर्जनदेवता ॥ ७६॥ उद्गीथोद्गीथमर्यादा क्षीरसागरशायिनी । वीरलक्ष्मीर्वीरकान्ता शिवदूती सनातनी ॥ ७७॥ शक्रादिसंस्तुता हृष्टा चण्डमुण्डविनाशिनी । पञ्चवक्त्रैकरूपा च त्रिनेत्रावलिमोहिनी ॥ ७८॥ धूम्रलोचननिर्नाशाहङ्कारोद्गारभाषिणी । एकमूर्तिस्त्रिधामूर्तिः त्रिलोकानन्ददायिनी ॥ ७९॥ भवानी दशमूर्तिश्च पञ्चमूर्तिर्जयन्तिका । दक्षिणा दक्षिणामूर्तिः अनेकैकादशाकृतिः ॥ ८०॥ एकचक्षुरनन्ताक्षी विश्वाक्षी विश्वपालिनी । चतुर्विंशतितत्त्वाद्या चतुर्विंशतितत्त्ववित् ॥ ८१॥ सोऽहं हंसाविशेषज्ञा निर्विशेषा निराकृतिः । यमघण्टामृतकला जयघण्टा जयध्वनिः ॥ ८२॥ पाञ्चजन्यस्फुरच्छक्तिर्हनुमच्छक्तिरास्तिका । शीलातरणशक्तिश्च रामशक्तिर्विराट्तनुः ॥ ८३॥ लङ्काप्रज्वलना वेला सागरक्रमणक्रमात् । नरनारायणप्रीतिर्लोकनीतिरघौघकृत् ॥ ८४॥ विपाशा पाशहस्ता च विश्वबाहुस्त्रिलिङ्गिका । प्राची प्रतीची विदिशा दक्षिणा दक्षकन्यका ॥ ८५॥ शिवलिङ्गप्रतिष्ठात्री शिवलिङ्गप्रतिष्ठिता । अज्ञाननाशिनी बुद्धिस्तत्त्वविद्या सुचेतना ॥ ८६॥ प्रकाशा स्वप्रकाशा च द्वयाद्वयवर्जिता । असद्रूपा च सद्रूपा सदसद्रूपशालिनी ॥ ८७॥ कैलासनिलया गौरी वृषगा वृषवाहना । सोमसूर्याग्निनयना सोमसूर्याग्निविग्रहा ॥ ८८॥ विषमेक्षणदुर्धर्षा लङ्कादाहकरी दितिः । वैकुण्ठविलसन्मूर्तिः वैकुण्ठनिलयानिला ॥ ८९॥ नमोमूर्तिस्तमोमूर्तिस्तेजोमूर्तिरमेयधीः । सूर्यमूर्तिश्चन्द्रमूर्तिः यजमानशरीरिणी ॥ ९०॥ आप्यमूर्तिरिलामूर्तिः नरनारायणाकृतिः । विषयाज्ञानभिन्ना च विषयाज्ञाननिर्वृतिः ॥ ९१॥ सुखवित्सुखिनी सौख्या वेदवेदाङ्गपारगा । स्रुक् स्रुवा च वसोर्धारा यागशक्तिरशक्तिहृत् ॥ ९२॥ यज्ञकृत् प्राकृतिर्यज्ञा यज्ञरागविवर्धिनी । यज्ञभोक्त्री यज्ञभागा सौभाग्यवरदायिनी ॥ ९३॥ व्यापिनी दशदिग्बाहुर्दिगन्ता बलिदायिनी । कृपा विश्वेश्वरी स्वङ्गा शताक्षी कामदेवता ॥ ९४॥ कामचारप्रिया कामा कामाचारपरायणा । चिकित्सा वेदविद्या च वैद्यमातामहौषधिः ॥ ९५॥ महौषधिरसप्रीता विकराला कलातिगा । मेघशक्तिर्महावृष्टिः सुवृष्टिः शिवशर्मदा ॥ ९६॥ रुद्राणी रुद्रवदना रुद्रपूज्यान्नपूर्णिका । अन्नदानरसान्नाद्या तृप्तिदा भोजनप्रिया ॥ ९७॥ कर्मपाशप्रदा पङ्क्तिः पाकशक्तिः पचिक्रिया । सुपक्वफलदा वाञ्छा वाञ्छाधिकफलप्रदा ॥ ९८॥ सर्वयन्त्रमयी पूर्णा सर्वभूताश्रयाम्बिका । ब्राह्मणी ब्रह्मशक्तिश्च चराचरविभाविनी ॥ ९९॥ चराचरगतिर्जैत्री लक्षालक्षेश्वरार्द्धहृत् । गुहशक्तिर्गणेट् शक्तिर्नारसिंही सहस्रदृक् ॥ १००॥ सर्पमालोत्तरीया च सर्प सर्वाङ्गभूषणा । वाराही च सहस्राक्षी कूर्मशक्तिः शुभालया ॥ १०१॥ शेषरूपा शेषशक्तिः शेषपर्यङ्कशायिनी । वराहदंष्ट्रा वलिधिः कामधीः काममोहिनी ॥ १०२॥ मायिनी चित्तसदना कामिकामप्रवर्धिनी । सर्वलक्षणसम्पूर्णा सर्वलक्षणनाशिनी ॥ १०३॥ नादरूपा बिन्दुरूपा कृतकर्मफलप्रदा । ध्रुवशक्तिः ध्रुवारोहा ध्रुवाटोपा ध्रुवार्थदा ॥ १०४॥ ध्रुवाकाराग्निहोत्राढ्या ध्रुवाचारा ध्रुवस्थितिः । ध्रुवाध्रुवमयी ध्रौव्या चिद्रूपानन्दरूपिणी ॥ १०५॥ हृद्रूपा बगला कृष्णा नीलग्रीवा कुधीहरा । पवित्रदृष्टिः पावित्र्यकारिणी ऋषिवत्सला ॥ १०६॥ शिशूत्सङ्गधरासङ्गा सङ्गरागप्रवर्धिनी । निःसङ्गा सङ्गबहुला चतुराश्रमवासिनी ॥ १०७॥ चतुर्वर्णपरिष्वङ्गा चतुर्वर्णबहिस्थिता । निराश्रया रागवती रागिमानससंश्रया ॥ १०८॥ ब्राह्मणी राजदुहिता वैश्या शूद्रा परासुरा । गृहाश्रमसमासीना गृहधर्मनिरूपिणी ॥ १०९॥ गृहधर्मा विषादघ्नी ब्रह्मचर्यनिषेविणी । वानप्रस्थाश्रमस्था च यतिधर्मा स्फुरत्तनुः ॥ ११०॥ संस्थितिः प्रलया सृष्टिः सर्गस्थित्यन्तखेलकृत् । ज्ञानशक्तिः क्रियाशक्तिः छायाशक्तिरपूर्वकृत् ॥ १११॥ नानावादविशेषज्ञा नानावादनिरङ्गता । शून्यवादनिराकारा धर्मवादनिरूपिणी ॥ ११२॥ नवचण्डी क्रियाहेतुः सङ्कल्पाकल्पनातिगा । निर्विकल्पा विकल्पाद्या सङ्कल्पाकल्पभूरुहा ॥ ११३॥ सृष्टिघ्नी च स्थितिघ्नी च विनाशघ्नी त्रिरूपभृत् । अयोध्या द्वारका काशी मथुरा काञ्च्यवन्तिका ॥ ११४॥ विशोका शोकमार्तण्डी पाञ्चाली शोकनाशिनी । शमनियमशक्तिश्च धर्मशक्तिर्जयध्वजा ॥ ११५॥ मुक्तिः कुण्डलिनी भुक्तिर्विषदृष्टिः समेक्षणा । कृपेक्षणा कृपार्द्राङ्गी कृपार्चिता कृपाश्रुतिः ॥ ११६॥ महापुराद्रिनिलया महापुरकृतस्थितिः । अज्ञानकल्पनानन्ता प्रपञ्जकलनातिगा ॥ ११७॥ साम्यदृष्टिः देहपुष्टिः कृतसृष्टिर्हृताखिला । वेणुपुण्यपरीपाकाऽयोनिजा वह्निसम्भवा ॥ ११८॥ महापुरसुखासीना डमड्डमरुदर्पिता । महापुरमहादेवी डमरुप्रीतिवल्गिता ॥ ११९॥ भद्रकाली पितृशक्तिर्ह्यालसा भुवनेश्वरी । गायत्री च चतुर्वक्त्रा त्रिपुरा वीरवन्दिता ॥ १२०॥ यमाम्बा त्रिगुणानन्दा कैवल्यपददायिनी । वडवा सदया भूस्था शाक्तसर्गप्रवर्तिनी ॥ १२१॥ इन्द्रादि देवजननी एलाम्बा कोलरूपिणी । कुम्भदर्पहरा दोला दोलाक्रीडनलालसा ॥ १२२॥ शीतला विष्णुमाया च चतुर्वक्त्रनमस्कृता । मातङ्गी विष्णुजननी प्रेतासननिवासिनी ॥ १२३॥ गरुत्मत्गमनानीला ब्रह्मास्त्रा ब्रह्मभूषिता । सिद्धिः पाशुपतास्त्रा च नीलेन्दीवरलोचना ॥ १२४॥ रुक्मा शङ्करजननी कर्मनाशा च शाम्भवी । त्रिगा वामनशक्तिश्च हिरण्यगर्भभूसुरा ॥ १२५॥ वाग्वादिनी च वर्णा च शङ्करार्धशरीरिणी । दारुणा मोहरात्रिश्च भ्रमादिगणरूपिणी ॥ १२६॥ दीपिका क्रीडवरदा मोहिनी गरलाशना । कपर्दार्चितसर्वाङ्गी कपर्दाभरणप्रिया ॥ १२७॥ सावित्री भैरवीविघ्ना पीतापीताम्बरप्रभुः । दशवक्त्रानवद्याङ्गी त्रिंशल्लोचनभूषिता ॥ १२८॥ दशांघ्रिर्दशदोर्दण्डा स्फुरद्दंष्ट्रातिभीषणा । कर्पूरकान्तिवदना नीलबाहुरनुत्तमा ॥ १२९॥ ब्रह्मगेया मुनिध्येया ह्रीङ्कारा कामविग्रहा । षड्बीजा नवबीजा च नवाक्षरतनुः खगा ॥ १३०॥ दशार्णा द्वादशार्णाढ्या षोडशार्णाविबीजगा । मालामन्त्रमयी जय्या सर्वबीजैकदेवता ॥ १३१॥ जपमाला च जयदा जपविघ्नविनाशिनी । जपकर्त्री जपस्तोत्रा मन्त्रयन्त्रफलप्रदा ॥ १३२॥ मन्त्रावरणरूपैका यन्त्रावरणदेवता । पद्मिनी पद्मपत्राक्षी शमी यज्ञाङ्गदेवता ॥ १३३॥ यज्ञसिद्धिः सहस्राक्षी सहस्राक्षपदप्रदा । रेणुवशावताराढ्या महिषान्तकरी समित् ॥ १३४॥ ऋग्वेदा च यजुर्वेदा सामवेदा त्रयीपरा । अभिचारप्रियाथर्वा पञ्चतन्त्राधिदेवता ॥ १३५॥ अभिचारक्रिया शान्तिः शान्तिमन्त्राधिदेवता । अभिचारोपशमनी सर्वानन्दविधायिनी ॥ १३६॥ अथर्वपाठसम्पन्ना लेखनी लेखकस्थिता । भूमलेख्या वर्णशक्तिः सर्वशक्तिः प्रसिद्धिदा ॥ १३७॥ कीर्तिकामा कलाकामा कामाक्षी सर्वमङ्गला । शूलेश्वरी कुशूलघ्नी चिन्ताशोकविनाशिनी ॥ १३८॥ चिन्तादिदेवता भूतनायका नलकूबरी । करालीत्यूर्ध्वकेशी च श्रीधरी च विनायकी ॥ १३९॥ कामेश्वरी च कौवेरी पद्मावत्यभिधागतिः । ज्वालामुखी च कौवेरी विजया मेघवाहना ॥ १४०॥ महाबला महोत्साहा महाभयनिवारिणी । कामिनी शाङ्करी काष्ठा सहस्रभुजनिग्रहा ॥ १४१॥ प्रभा प्रभाकरी भाषा सप्ताश्वरथसंस्थिता । अलकापुरसंस्थाना मृडानी विन्ध्यनिश्चला ॥ १४२॥ हिमाचलकृतक्रीडा पीडापापनिवारिणी । अर्धमात्राक्षरा सन्ध्या त्रिमात्रा भारती धृतिः ॥ १४३॥ वेदमाता वेदगर्भा कौशिकी त्र्यम्बका स्वरा । अम्बालिका क्षुधा तृष्णा धूम्रा रौद्रा दुरत्यया ॥ १४४॥ पानपात्रकरा जातिः श्रद्धावार्ता चितास्थिता । दुर्गाणी रक्तचामुण्डावृतिः सोमावतंसिनी ॥ १४५॥ शरण्यार्या दुर्गापरा सारा ज्योस्ला महास्मृतिः । ज्योत्स्ना जगत्प्रतिष्ठा कल्याणी छाया तुष्टिश्च तामसी ॥ १४६॥ तृष्णा वाग्धीश्च नद्धा च गदिनी चक्रधारिणी । लज्जा सहस्रनयना महिषासुरमर्दिनी ॥ १४७॥ भीमा भद्रा भगवती नवदुर्गाऽपराजिता । मेघाष्टादश दोर्दण्डा दुर्गा कात्यायनी रतिः ॥ १४८॥ सर्वतः पाणिपादोरुर्भ्रामरी चन्द्ररूपिणी । इन्द्राणी च महामारी सर्वतोऽक्षिशिरोमुखा ॥ १४९॥ सप्ताधिसंश्रया सत्ता सप्तद्वीपाब्धिमेखला । सूर्यदीप्तिर्वज्रपंक्तिः पानोन्मत्ता च पिङ्गला ॥ १५०॥ सर्वज्ञा विश्वमाता च भक्तानुग्रहकारिणी । विश्वप्रिया प्राणशक्तिरनन्तगुणनामधीः ॥ १५१॥ सर्वकल्याणनिलया शारदा त्र्यम्बिका सुधा ॥ १५२॥ श्री शङ्कर उवाच -- दिव्यं नामसहस्रं ते रेणुकाया मयेरितम् । सर्वकामसमृद्ध्यर्थमनेन भज षण्मुख ॥ १५३॥ समृद्धि अर्थं अनेन भुक्तिदो मुक्तिश्चापि भजतां कल्पपादपः । जयप्रदो विशेषेण नानेन सदृशो मनुः ॥ १५४॥ पुरश्चरणमुद्दिष्टं सहस्रं नवकं शुभम् । विजयार्थं विशेषेण प्रयोगं साधयेत्ततः ॥ १५५॥ हस्तयोर्भाजनं कृत्वा प्रसादं याचयेन्मुहुः । लब्धप्रसादो भक्तेभ्यश्चिन्तयेधृदि रेणुकाम् ॥ १५६॥ चिन्तयेत् हृदि भक्तितो योगिनीवृन्दं पूजयेत्तोषयेन्मुदा । तत्पात्रं पूरयेदन्नैः पूजयित्वोपचारकैः ॥ १५७॥ श‍ृङ्गिनादं समाकर्ण्य प्रार्थयेदुदयाशिषम् । सर्वेभ्यश्चाशिषो लब्ध्वा भुञ्जीत सहबान्धवैः ॥ १५८॥ नानाजातिभवान्भक्तान् प्रीयतां रेणुकेति च । उत्सर्गादिप्रसादेन तोषयेच्च मुहुर्मुहुः ॥ १५९॥ दीपकाडमरुध्वानैरुदयोद्दामकीर्तनैः । गोदोहसमये कुर्याद्गोदोहजमहोत्सवम् ॥ १६०॥ जगदम्बामयं पश्यन् सकलं दृष्टिगोचरम् । दीपिकाडमरूत्साहं भक्तैः सह निशां नयेत् ॥ १६१॥ अवर्षणे धराकम्पे संक्षोभे सागरस्य च । आवर्तनसहस्रेण निश्चिते जायते शुभम् ॥ १६२॥ दुष्टोत्पाते महाघोरे सङ्कटे दुरतिक्रमे । अयुतावर्तनान्नूनमसाध्यमपि साधयेत् ॥ १६३॥ निशीथे वा प्रदोषे वा जगदम्बालये शुचिः । नवरात्रं जपेद्यस्तु प्रत्यहं नववारकम् ॥ १६४॥ नामभिः पूजनं होमं प्रत्ययं कुरुते व्रती । प्रसन्नास्मै महामाया प्रत्यक्षं भवति ध्रुवम् ॥ १६५॥ त्रिवारं नियतं जप्त्वा षण्मासं व्रतवान् शुचिः । दारिद्र्यार्णवमुत्तीर्य विपुलां श्रियमाप्नुयात् ॥ १६६॥ विशेषसाधनं कुर्यात्पुरश्चर्यां पुनः सुधीः । साधयेत्सकलान्कामान् सत्वरं नात्र संशयः ॥ १६७॥ पुष्पाज्यपायसतिलैर्हरिद्रामधुचन्दनैः । नानापरिमलद्रव्यैर्भक्तियुक्तो यजेन्मुदा ॥ १६८॥ इदं पठति यो भक्त्या श‍ृणुयाद्वापि नित्यशः । निर्विघ्नं लभतेऽभीष्टं जीवेच्च शरदां शतम् ॥ १६९॥ शुक्लपक्षेऽथवा कृष्णे भूताधः षष्ठिकादिनात् । साधकः साङ्गविधिना साधयेत्स्तोत्रमन्त्रवित् ॥ १७०॥ इषे शुक्लनवम्यन्तमारभ्य प्रतिपत्तिथिम् । नवरात्रोक्तविधिना कलशं पूजयेन्मुदा ॥ १७१॥ सङ्कटे सत्वरे कृत्ये विधिनावर्तयेत् स्थितिम् । प्राप्नोति वाञ्छितं सद्यः सर्वविघ्नविनाशकृत् ॥ १७२॥ घृतद्वीपद्वयं कृत्वा दक्षिणोत्तरभागयोः । नानाभोगोपचारैश्च तोषयेज्जगदम्बिकाम् ॥ १७३॥ कुङ्कुमागरुकस्तूरीचन्दनाभिरर्चयेत् । कुमारीं पूजयेत्भक्त्या ब्राह्मणांश्च सुवासिनीम् ॥ १७४॥ षड्रसैः स्वादु पक्वान्नैर्भोजयेच्च चतुर्विधैः । शक्तितो दक्षिणां दद्याद्वासोधान्यं गवादिकम् ॥ १७५॥ वित्तशाठ्यं न कुर्वीत सर्वकार्यसमृद्धये । प्रणमेत् प्रणमेद्भक्त्या प्रोच्यतामुदयोस्त्वतिः ॥ १७६॥ भूषितो मङ्गलस्नानैः स्वालेप्याम्बरमाल्यवान् । विभूष्याङ्गं कपर्दैश्च प्रज्वाल्य घृतदीपिकाम् ॥ १७७॥ यद्यदारभ्यते कार्यं तदादौ च समापने । सम्पूज्याम्बां कुमारींश्च पूजयेज्जपपूर्वकम् ॥ १७८॥ भूताष्टम्यां नवम्यां च भौमे च नियतः पठेत् । सर्वान् कामानवाप्नोति नात्र कार्या विचारणा ॥ १७९॥ भूता रक्षः पिशाचाद्या वैरिणो दस्यवोपि च । पठ्यतेऽनुदिनं यत्र तद्गृहं न विशन्ति च ॥ १८०॥ अब्धिसञ्चरणे पोते लङ्घने गिरिरोहणे । चित्तक्षोभे प्रसादे च विषादे वा पठेदिदम् ॥ १८१॥ दुःस्वप्नदर्शने मार्गे विड्वरे कलहागमे । यात्राकाले पठेदेतत् सर्वमाङ्गलिकागमे ॥ १८२॥ निष्कामो वा सकामो वा पुरुषार्थप्रदं यतः । त्रैवर्णिकः पठेदेतदितरः पाठयेत् सदा ॥ १८३॥ सौभाग्यं लभते नारी कन्या सर्वोत्तमं वरम् । मृतवत्सा लभेत्पुण्यमायुष्मत्सन्ततिं शुभाम् ॥ १८४॥ असूतिर्लभते सूतिं सुसूतिं कष्टसूतिका । उदासीना लभेत्प्रीतिं पतिबालप्रियङ्करी ॥ १८५॥ न वैधव्यमवाप्नोति न सपत्नीं लभेत्क्वचित् । सुरूपा सुभगा धन्या विरहं नाप्नुयात्क्वचित् ॥ १८६॥ च्यवद्गर्भवती या च दृढगर्भवती भवेत् । वित्तापत्यपरीवारा पतिमण्डितविग्रहा ॥ १८७॥ सहस्रनामकं स्तोत्रं पठ्यते यत्र वेश्मनि । ग्रहाः कालग्रहाः पीडां नैव कुर्वन्ति कर्हिचित् ॥ १८८॥ यद्गृहे पूजितं ह्येतत् पुस्तकं वा सुभक्तितः । शक्तितो हवनं कुर्याद् विघ्नस्तत्र विनश्यति ॥ १८९॥ गर्भिणी स्रावयेन्नित्यं गर्भदोषान्निवर्तते । सूतिकायतने प्रोक्तं सूतिकाबालसौख्यदम् ॥ १९०॥ सर्वं मन्त्राधिकमिदं भक्त्या यः सर्वदा पठेत् । श्रावयेत् पाठयेद्वापि सर्वत्र लभते जयम् ॥ १९१॥ पुस्तकानि प्रदेयानि विप्रेभ्यो नवभक्तितः । सोपचाराणि विधिना रेणुका तुष्टिहेतवे ॥ १९२॥ पुत्रकामी शुभान् पुत्रान् धनार्थी विपुलं धनम् । कन्यार्थी लभते कन्यां कुलशीलादिमण्डिताम् ॥ १९३॥ विद्याकामो लभेद्विद्यां कवित्वं कविताप्रियः । प्रज्ञातिशयमासाद्य समर्थो ग्रन्थधारणे ॥ १९४॥ मुच्यते निगडाबद्धः स्खलद्गीः स्पष्टवाग्भवेत् । कामुकः काममाप्नोति भूपालं वशमानयेत् ॥ १९५॥ कुष्ठापस्माररहितो ज्वररोगविवर्जितः । रोगी रोगविनिर्मुक्तः शत्रुसङ्घाज्जयो भवेत् ॥ १९६॥ शीतलो जायते वह्निर्विषं स्यादमृतोपमम् । शस्त्राण्युत्पलतां यान्ति पठनादस्य भक्तितः ॥ १९७॥ अन्धो दृष्टिमवाप्नोति बधिरः श्रुतिमान् भवेत् । मूको वाचालतामेति रेणुकायाः प्रसादतः ॥ १९८॥ रेणुकेत्येकनामेदं धर्मार्थकाममोक्षदम् । फलं नामसहस्रस्य समर्थो वक्तुमस्ति कः ॥ १९९॥ रेणुकास्मरणान्नूनं विषं नाक्रमेत् तनौ । सर्वपीडोपशान्तिश्च सकलार्थसुखोदयः ॥ २००॥ नारायणः श्रिया युक्तः सावित्रीसहितो विधिः । अहं भवानीसहितो रेणुकार्चनतोऽर्चिता ॥ २०१॥ सर्वं यज्ञफलं तस्य पारायणफलं तथा । साङ्गयोगफलं तस्य रेणुका येन पूजिता ॥ २०२॥ उच्यते बाहुमुद्धृत्य बहुनोक्तेन षण्मुख । सेव्यते रेणुका यैस्ते सेव्यन्ते त्रिदशैरपि ॥ २०३॥ इति श्री पद्मपुराणे मायोपाख्याने रेणुकाप्रस्तावे रेणुकाप्रकृतिभावे शङ्करषण्मुखसंवादे शङ्करप्रोक्तं रेणुकासहस्रनामस्तोत्रं सम्पूर्णम् ॥