अक्षर आकार:

श्रीरेणुकाषट्कम्

Renuka Shatkam

श्रीरेणुकाषट्कम्

श्रीगणेशाय नमः । जयदेवसमूहनुते जमदग्निमुनेर्दयिते । जननं विबुधावनि ते जगतामुपकारकृते ॥ १॥ विपिने विप्ने विनुता नगरे नगरे नमिता । जयति स्थिरचित्तहिता जमदग्निमुनेर्वनिता ॥ २॥ मतिकैरविणीन्दुकला मम हृत्कमले कमला । जयति स्तुतिदूरबला जमदग्निवधूर्विमला ॥ ३॥ कलिपक्षजुषां दमनी कलुषप्रततेः शमनी । जयति स्तुवतामवनी जगतामवतुर्जननी ॥ ४॥ निखिलामयतापहरी निजसेवकभव्यकरी । जमदग्निनदोपझरी जयतीश्वरचिल्लहरी ॥ ५॥ सकलामयनाशचणे सततं स्मरतः सुगुणे । मम कार्यगतेः प्रथमं मरणं न भवत्वधमम् ॥ ६॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोर्गणपतेः कृतिः रेणुकाषट्कम् समाप्तम् ॥ From Complete works of Shri Vasishtha Ganapati Muni Vol. 2.12