अक्षर आकार:

रमाहृदय स्तोत्रम्

ramAhRidaya stotram

रमाहृदय स्तोत्रम्

रमाहृदय स्तोत्रम् श्रीः पद्मा कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी मा क्षीराब्धिसुता विरिञ्चिजननी विद्या सरोजासना । सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादश, प्रातः शुद्धतराः पठन्त्यभिमतान् सर्वान् लभन्ते शुभान् ॥ नामावलिः ॐ श्री श्रियै नमः । ॐ श्रीपद्मायै नमः । ॐ श्रीकमलायै नमः । ॐ श्रीमुकुन्दमहिष्यै नमः । ॐ श्रीलक्ष्म्यै नमः । ॐ श्रीत्रिलोकेश्वर्यै नमः । ॐ श्रीमायै नमः । ॐ श्रीक्षीराब्धिसुतायै नमः । ॐ श्रीविरिञ्चिजनन्यै नमः । ॐ श्रीविद्यायै नमः । ॐ श्रीसरोजासनायै नमः । ॐ श्रीसर्वाभीष्टफलप्रदायै नमः । इति रमाहृदय स्तोत्रं सम्पूर्णम् ।