अक्षर आकार:

रात्रिसूक्त (ऋग्वेद)

rAtrisUkta (Rigveda)

रात्रिसूक्त (ऋग्वेद)

ऋग्वेद १०-१०-१२७ रात्रीति सूक्तस्य कुशिकः ऋषिः रात्रिर्देवता, गायत्रीच्छन्दः, श्रीजगदम्वा प्रीत्यर्थे सप्तशतीपाठादौ जपे विनियोगः । ॐ रात्री व्यख्यदायति पुरुत्रा देव्यक्षभिः । विश्वा अधि श्रियोऽधित ॥ १॥ ओर्वप्रा अमर्त्या निवतो देव्युद्वतः । ज्योतिषा वाधते तमः ॥ २॥ निरु स्वसारम्स्कृतोषसं देव्यायती । अपेदुहासते तमः ॥ ३॥ सा नो अद्य यस्या वयं नितेयामन्यविक्ष्महि । वृक्षेण् वसतिं वयः ॥ ४॥ नि ग्रामासो अविक्षत निपद्वन्तो निपक्षिणः । नि श्येनासश्चिदर्थिनः ॥ ५॥ यावया वृक्यं वृकं यवयस्तेनमूर्म्म्ये । अथा नः सुतरा भव ॥ ६॥ उप मा पेपिशत्तमः कृष्णं व्यक्तमस्थित । उष ऋणेव यातय ॥ ७॥ उप ते गा इवाकरं वृणीष्व दुहितर्द्दिवः । रात्रि स्तोमं न जिग्युषे ॥ ८॥ इति ऋग्वेदोक्तं रात्रिसुक्तं समाप्तम् । (सामविधान ब्राह्मण, ३-८-२) ॐ रात्रिं प्रपद्ये पुनर्भूं मयोभूं कन्यां शिखण्डिनीं पाशहस्तां युवतीं कुमारिणीमादित्यः । श्रीचक्षुषे वान्तः प्राणाय सोमो गन्धाय आपः स्नेहाय मनः अनुज्ञाय पृथिव्यै शरीरम् ॥ ॥ इति सामविधानब्राह्मणोक्तं रात्रिसूक्तम् ॥