अक्षर आकार:

श्रीराधाकृष्णस्तोत्रम्

shrIrAdhAkRiShNastotram

श्रीराधाकृष्णस्तोत्रम्

॥ अथ ब्रह्मादिकृतं श्रीराधाकृष्णस्तोत्रं ॥ ब्रह्मोवाच । तव चरणसरोजे मन्मनश्चरीको भ्रमतु सततमीश प्रेमभक्त्या सरोजे । भवनमरणरोगात् पाहि शान्त्यौषधेन सुदृढसुपरिपक्वाम् देहि भक्तिं च दास्यम् ॥ १॥ शंकर उवाच । भवजलनिधिमग्नश्चित्तमीनो मदीयो भ्रमति सततमस्मिन् घोर्संसार्कूपे । विषयमतिविनिन्द्यं सृष्टिसंहाररूपम्- अपनय तव भक्तिं देहि पादारविन्दे ॥ २॥ धर्म उवाच । तव निजजनसार्धं संगमो मे सदैव भवतु विषयबन्धच्छेदने तिक्ष्णखङ्गः । तव चरणसरोजस्थानदानैकहेतुर्- जनुषि जनुषि भक्तिं देहि पादारविन्दे ॥ ३॥ ॥ इति श्रीब्रह्मवैवर्ते ब्रह्मादिकृतम् श्रीराधकृष्णस्तोत्रं सम्पूर्णम्॥