अक्षर आकार:

राकिणीराधिकास्तवम्

Rakini Radhika Stavam

राकिणीराधिकास्तवम्

आन्दोलिता रसनिधौ कुलचञ्चला या मायामयो सकलदुःखविनाशवीरा । वीरासना स्थितिगता सुलभा मुनीनां भव्या प्रपातु भविका कुलराकिणी माम् ॥ ४१-१८॥ आनन्दसिन्धु जडिताखिलसारपाना बाला कुलीननमिता दलषट्कुलस्था । कालीकलामलगुणा धनिनां धनस्था । कृष्णेश्वरी समुदयं कुरु राकिणी मे ॥ ४१-१९॥ या राकिणी त्रिजगतामुदयाय चेष्टा संज्ञामयी कुलवती कुलवल्लभस्था । विश्वेश्वरी स्मरहरप्रियकर्मनिष्ठा कृष्णप्रिया मम सुखं परिपातु देवी ॥ ४१-२०॥ षड्वर्गनाथकरपद्मनिषेविता या राधेश्वरी प्रियकरी सुरसुन्दरी सा । माता कुलेशजननी जगतां मनुस्था । विद्या परा रिपुहरावत मे शरीरम् ॥ ४१-२१॥ गोविन्दरामरमणी नवमालिनी या राज्येश्वरी स्मरहरा नवकामिनी वा । मे षड्दलाश्रितसुरं परिपातु नित्यं श्रीकुण्डली सुविमला कुलराकिणी सा ॥ ४१-२२॥ श्रीसुन्दरी कुलपरा कुलवृन्दवन्द्या सन्ध्याविधि प्रभवतामतिकामतीर्था । श्रीदायिनी कुलगणामलभावदात्री नित्यं प्रपातु विषयं कुलषड्दलानाम् ॥ ४१-२३॥ चैतन्यदाननिरतां त्रिगुणाभिरामां श्यामां नितम्बधृतसुन्दररत्नघण्टाम् । नीलाचलस्थितकरां वरदानहस्तां श्रीकृष्णवाम कमलोपरि पूजयामि ॥ ४१-२४॥ तां राकिणीं त्रिरमणीं समलापहन्त्रीं सर्वस्थितां गगनमातरमम्बुजस्थाम् । पद्मासनां श्रुतिभुजां गुरुजामनन्तां शान्तां षडम्बुजदलोपरि पूजयामि ॥ ४१-२५॥ शान्तिं कृपाकपटकोपरि नाशमुक्तिं शिवां परमवैष्णवपूजिताङ्घ्रिम् । राधां सुधां वरमयीं जगतां गुणस्थां धर्मार्णवां रसदले परिपूजयामि ॥ ४१-२६॥ कर्त्तीकरां सकरुणां रमणीं त्रिसर्गाम् । तां राकिणीमतिदयाममलार्थचिन्ताम् । भ्रान्तिं भ्रमागमवरां स्मृतिमादिपूज्याम् । भार्यां हरेरतिसुखां परिपूजयामि ॥ ४१-२७॥ या कातरं निरवधिप्रणयस्ववस्था वागीश्वरी भगवती यतिकोटिनम्रा । ताम्राकृतिप्रकृतिचेतसि रक्तवर्णा मायामयी सुरकलावति पातु मेऽङ्गम् ॥ ४१-२८॥ कल्पद्रुमाशयलता फलरूपिणी या भर्गस्थिता पुरुषकोटिमुनिस्तुवन्ती । सा मे कुलेश्वररसं हरिहस्तपूज्या क्षान्तिः सदा मम धनं परिपातु राधा ॥ ४१-२९॥ क्षेमङ्करी वरकरी सुकरी हरिस्था या सौकरी भवकरी त्रिपुरा महेशी । वायुस्थिता लयमयी स्थितिमार्गसङ्गा भङ्गपिरया सकलका परिपातु राधा ॥ ४१-३०॥ गङ्गा निर्मलभावदा ममशिरोदेशं सदा रक्षतु श्रीराधा कुलराकिणी मम कपालोर्ध्वं महावाक्प्रिया । मन्त्रस्था जयदा मुदा कुमुदिनी भालं भ्रुवोरन्तरं विद्या वाग्भवकुण्डलीफलवलाबाला च नेत्रत्रयम् ॥ ४१-३१॥ गण्डं चण्डसरस्वती श्रुतिकुलं कैलासशैलस्थिता मेधा टं घटवासिनी शशीमुखी सूक्ष्मातिसूक्ष्माशया । जिह्वाग्रं चिबुकं रदावधिवहा कण्ठं गलं स्कन्धगं स्कन्देशी दशनप्रभामलमति -- वैकुण्ठधामेश्वरी ॥ ४१-३२॥ नानावर्णविलासिनी मृदुरसं शम्भोर्भवानी शिवा पृष्ठं कर्मसु पृष्ठगा गतिकरी नित्योल्बणी भास्वती । पार्श्वं मे कुलमालिनी मम कटिं लिङ्गं नितम्बाम्बरं कामाख्या धनदायिनी सकरुणा पादद्वयं पातु सा ॥ ४१-३३॥ मातृक्रोधनिवारिणी मम शिवं षट् पत्रशोभाकरं पातु श्रीचरुवासिनी कुलतरुं गौरी परानन्ददा । चैतन्यस्थलवासिनी मम गता गोविन्दमातृप्रिया चैतन्यं सततं प्रपातु धरणी धात्री वरक्षेत्रगा ॥ ४१-३४॥ धन्या पिङ्गललोचनाम्बुजमुखी चैतन्यकर्मप्रिया सर्वत्र प्रियमाकरोतु नियतं शक्तिः क्षमाकर्तृका । कीर्तिस्था मम कीर्तिचक्रनिलयं लाक्षारुणा बल्वरी नीचा चक्रनिवासिनी मम जया जीवं मुदा पातु माम् ॥ ४१-३५॥ एतत्स्तोत्रं पठेन्नित्यं प्राणवायुवराशुभे । षट्चक्रभेदसमये सदा पाठ्यं सुयोगिभिः ॥ ४१-३६॥ कुलविन्याससमये कुलचक्रप्रवेशने । अवश्यं प्रपठेद्विद्वान् राकिणीराधिकास्तवम् ॥ ४१-३७॥ त्रिसन्ध्यं चेदमाकुर्यात् पठित्वा च पुनः पुनः । ध्यात्वा भावपरो भूत्वा मुच्यते भवबन्धनात् ॥ ४१-३८॥ अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी । पठनात् पामरो याति ब्रह्मलोकं कुलाधिप ॥ ४१-३९॥ एतत्पठनमात्रेण शीतलो गुणवान् भवेत् । अप्रकाश्यमिदं स्तोत्रं सर्वान्तकविनाशनम् ॥ ४१-४०॥ समभावं समाकृत्य जीवन्मुक्तो भवेद्वशी । पञ्चाचाररतो भूत्वा साधयेद् यदि साधनम् ॥ ४१-४१॥ कुण्डलीयोगकाले च कुलाचारं न वर्जयेत् । कुलाचारवर्जनेन महाहानिः प्रजायते ॥ ४१-४२॥ ब्राह्मणः क्षत्रियो वापि वैश्यो वा शूद्र एव च । समभावं सदा कृत्वा कुलाचारं समाश्रयेत् ॥ ४१-४३॥ कुण्डली पृथिवी देवी राकिणी स्वारिदेवता । तद्गेहगामिनी देवी राधिका राज्यकामिनी ॥ ४१-४४॥ अस्याः साधनकाले च समयाचारमाश्रयेत् । समभावे महामोक्ष इति तन्त्रार्थनिर्णयः ॥ ४१-४५॥ समभावार्थकथनं त्यक्त्वा योगी भवेत्कृती ॥ ४१-४६॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे स्वाधिष्ठानराकिणीस्तोत्रं नामैकचत्वारिंशत्तमः पटलः ॥ ४१॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.