अक्षर आकार:

श्रीराकिणीकेशवसहस्रनामस्तोत्रम्

shrIrAkiNIkeshavasahasranAmastotram

श्रीराकिणीकेशवसहस्रनामस्तोत्रम्

श्रीगणेशाय नमः । आनन्दभैरवी उवाच । कथयामि महाकाल परमाद्भुतसाधनम् । कुण्डलीरूपिणी देवी राकिण्याः कुलवल्लभ ॥ १॥ मानसं द्रव्यमानीय चाथवा बाह्यद्रव्यकम् । अनष्टहृष्टचित्तश्च पूजयेत् सावधानतः ॥ २॥ भक्त्या जपेन्मूलमन्त्रं मानसं सर्वमेव च । पूजयित्वा ततो जप्त्वा होमं कुर्यात् परामृतैः ॥ ३॥ समासैः पक्वनैवेद्यैः सुगन्धिकुसुमैस्तथा । स्वयम्भूकुसुमैनीत्यमर्घ्यं कृत्त्वा निवेदयेत् ॥ ४॥ सुमुखं पूजयेन्नित्यं मधुमांसेन शङ्कर । हुत्वा हुत्वा पुनर्हुत्वा प्राणवाय्वग्निसङ्गमैः ॥ ५॥ भ्रामयित्त्वा मनो बाह्ये स्थापयित्त्वा पुनः पुनः । पुनरागम्यगमनं कारयित्त्वा सुमङ्गलम् ॥ ६॥ वाचयित्त्वा सुवाणीभिर्याचयित्त्वा सवापिकम् । तर्पणं चाभिषेकञ्च केवलासवमिश्रितैः ॥ ७॥ मांसैर्मुद्रादिभिर्मत्स्यैः सारद्रव्यैः सपिष्टकैः । घृतादिसुफलैर्वापि यद् यदायाति कौलिके ॥ ८॥ अचलां भक्तिमाप्नोति विश्वामित्रो यथा वशी । तत्तद्द्रव्यैः साधकेन्द्रो नित्यं सन्तर्प्य सञ्जपेत् ॥ ९॥ एतन्मन्त्रं पाठित्त्वा च तर्पणञ्च समाचरेत् । तर्पणान्ते चाभिषेकं सदा कुर्याच्च तान्त्रिकः ॥ १०॥ मूलान्ते चाभिषिञ्चामि नमः स्वाहा पदं ततः । ततो हि प्रणमेद्भक्त्या अष्टाङ्गनतिभिः प्रभो ॥ ११॥ सहस्रनाम्ना स्तवनमष्टोत्तरसमन्वितम् । अर्धाङ्ग राकिणीयुक्तं राकिणीकेशवस्तवम् ॥ १२॥ श‍ृणु तं सकलं नाथ यत्र श्रद्धा सदा तव । श्रवणार्थं बहूक्तं तत् कृपया ते वदाम्यह ॥ १३॥ एतत् श्रवणमात्रेण सर्वपापक्षयो भवेत् । राकिणीसङ्गमं नाथ स्तवनं नाम पावनम् ॥ १४॥ ये पठन्ति श्रद्धया चाश्रद्धया वा पुनः पुनः । तस्य सर्वः पापराशिः क्षयं याति क्षणादिह ॥ १५॥ काले काले महावीरो भवत्येव हि योगिराट् । संसारोत्तारणे युक्तो महाबलपराक्रमः ॥ १६॥ ॐ श्रीकृष्णो महामाया यादवो देवराकिणी । गोविन्दो विश्वजननी महाविष्णुर्महेश्वरी ॥ १७॥ मुकुन्दो मालती माला विमला विमलाकृतिः । रमानाथो महादेवी महायोगी प्रभावती ॥ १८॥ वैकुण्ठो देवजननी दहनो दहनप्रिया । दैत्यारिर्दैत्यमथिनी मुनीशो मौनभाविता ॥ १९॥ नारायणो जयकला करुणो करुणामयी । हृषीकेशः कौशिकी च केशवः केशिघातिनी ॥ २०॥ किशोरापि कैशोरी महाकाली महाकला । महायज्ञो यज्ञहर्त्री दक्षेशो दक्षकन्यका ॥ २१॥ महाबली महाबाला बालको देवबालिका । चक्रधारी चक्रकरा चक्राङ्गः चक्रमदीका ॥ २२॥ अमरो युवती भीमो भया देवो दिविस्थिता । श्रीकरो वेशदा वैद्यो गुणा योगी कुलस्थिता ॥ २३॥ समयज्ञो मानसज्ञा क्रियाविज्ञः क्रियान्विता । अक्षरो वनमाला च कालरूपी कुलाक्षरा ॥ २४॥ विशालाक्षो दीर्घनेत्रा जयदो जयवाहना । शान्तः शान्तिकरी श्यामो विमलश्याम विग्रहा ॥ २५॥ कमलेशो महालक्ष्मी सत्यः साध्वी शिशुः प्रभा । विद्युताकारवदनो विद्युत्पुञ्जनभोदया ॥ २६॥ राधेश्वरो राकिणी च कुलदेवः कुलामरा । दक्षिणो दक्षिणी श्रीदा क्रियादक्षो महालया ॥ २७॥ वशिष्ठगमनो विद्या विद्येशो वाक्सरस्वती । अतीन्द्रियो योगमाता रणेशी रणपण्डिता ॥ २८॥ कृतान्तको बालकृष्णा कमनीयः सुकामना । अनन्तो अनन्तगुणदा वाणीनाथो विलक्षणा ॥ २९॥ गोपालो गोपवनिता गोगोप कुलात्मजा । मौनी मौनकरोल्लासा मानवो मानवात्मजा ॥ ३०॥ सर्वाच्छिन्नो मोहिनी च मायी माया शरीरजा । अक्षुण्णो वज्रदेहस्था गरुडस्थो हि गारुडी ॥ ३१॥ सत्यप्रिया रुक्मिणी च सत्यप्राणोऽमृतापहा । सत्यकर्मा सत्यभामा सत्यरूपी त्रिसत्यदा ॥ ३२॥ शशीशो विधुवदना कृष्णवर्णो विशालधीः । त्रिविक्रमो विक्रमस्था स्थितिमार्गः स्थितिप्रिया ॥ ३३॥ श्रीमाधवो माधवी च मधुहा मधुसूदनी । वैकुण्ठनाथो विकला विवेकस्थो विवेकिनी ॥ ३४॥ विवादस्थो विवादेशी कुम्भकः कुम्भकारिका । सुधापानः सुधारूपा सुवेशो देवमोहिनी ॥ ३५॥ प्रक्रियाधारको धन्या धन्यार्थो धन्यविग्रहा । धरणीशो महानन्ता सानन्तो नन्दनप्रिया ॥ ३६॥ प्रियो विप्रियहरा च विप्रपूज्यो द्विजप्रिया । कान्तो विधुमुखी वेद्यो विद्या वागीश्वरोऽरुणा ॥ ३७॥ अकामी कामरहिता कम्रो विलचरप्रिया । पुण्डरीको विकुण्डस्था वैकुण्ठो बालभाविनी ॥ ३८॥ पद्मनेत्र पद्ममाला पद्महस्तोऽम्बुजानना । पद्मनाभिः पद्मनेत्रा पद्मस्थः पद्मवाहना ॥ ३९॥ वासुदेवो बृहद्गर्भा महामानी महाञ्जना । कारुण्यो बालगर्भा च आकाशस्थो विभाण्डजा ॥ ४०॥ तेजोराशिस्तैजसी च भयाच्छन्नो भयप्रदा । उपेन्द्रो वर्णजालस्था स्वतन्त्रस्थो विमानगा ॥ ४१॥ नगेन्द्रस्थो नागिनी च नगेशो नागनन्दिनी । सार्वभौमो महाकाली नगेन्द्रः नन्दिनीसुता ॥ ४२॥ कामदेवाश्रयो माया मित्रस्थो मित्रवासना । मानभङ्गकरो रावा वारणारिप्रियः प्रिया ॥ ४३॥ रिपुहा राकिणी माता सुमित्रो मित्ररक्षिका । कालान्त कलहा देवी पीतवासाम्बरप्रिया ॥ ४४॥ पापहर्ता पापहन्त्री निष्पापः पापनाशिनी । परानन्दप्रियो मीना मीनरूपी मलापहा ॥ ४५॥ इन्द्रनीलमणिश्यामो महेन्द्रो नीलरूपिणी । नीलकण्ठप्रियो दुर्गा दुर्गादुर्गतिनाशिनी ॥ ४६॥ त्रिकोणमन्दिरश्रीदो विमाया मन्दिरस्थिता । मकरन्दरसोल्लासो मकरन्दरसप्रिया ॥ ४७॥ दारुणारिनिहन्ता च दारुणारिविनाशिनी । कलिकालकुलाचारः कलिकालफलावहा ॥ ४८॥ कालक्षेत्रस्थितो रौद्री व्रतस्थो व्रतधारिणी । विशालाक्षो विशालास्या चमत्कारो करोद्यमा ॥ ४९॥ लकारस्थो लाकिनी च लाङ्गली लोलयान्विता । नाकस्थो नाकपदका नाकाक्षो नाकरक्षका ॥ ५०॥ कामगो नामसम्बन्धा सामवेदविशोधिका । सामवेदः सामसन्ध्या सामगो मांसभक्षिणी ॥ ५१॥ सर्वभक्षो रात्रभक्षा रेतस्थो रेतपालिनी । रात्रिकारी महारात्रिः कालरात्रो महानिशा ॥ ५२॥ नानादोषहरो मात्रा मारहन्ता सुरापहा । चन्दनाङ्गी नन्दपुत्री नन्दपालः विलोपिनी ॥ ५३॥ मुद्राकारी महामुद्रा मुद्रितो मुद्रिता रतिः । शाक्तो लाक्षा वेदलाक्षी लोपामुद्रा नरोत्तमा ॥ ५४॥ महाज्ञानधरोऽज्ञानी नीरा मानहरोऽमरा । सत्कीर्तीस्थो महाकीर्तीः कुलाख्यो कुलकीर्तीता ॥ ५५॥ आशावासी वासना सा कुलवेत्ता सुगोपिता । अश्वत्थवृक्षनिलयो वृक्षसारनिवासिनी ॥ ५६॥ नित्यवृक्षो नित्यलता क्लृप्तः क्लृप्तपदस्थितः । कल्पवृक्षो कल्पलता सुकालः कालभक्षिका ॥ ५७॥ सर्वालङ्कारभूषाढ्यो सर्वालङ्कारभूषिता । अकलङ्की निराहारा दुर्नीरीक्ष्यो निरापदा ॥ ५८॥ कामकर्ता कामकान्ता कामरूपी महाजवा । जयन्तो याजयन्ती च जयाख्य जयदायिनी ॥ ५९॥ त्रिजीवनो जीवमाता कुशलाख्यो विसुन्दरा । केशधारी केशिनी च कामजो कामजाड्यदा ॥ ६०॥ किङ्करस्थो विकारस्था मानसंज्ञो मनीषिणी । मिथ्याहरो महामिथ्या मिथ्यासर्गो निराकृति ॥ ६१॥ नागयज्ञोपवीतश्च नागमालाविभूषिता । नागाख्यो नागकुलपा नायको नायिका वधूः ॥ ६२॥ नायकक्षेमदो नारी नरो नारायणप्रिया । किरातवर्णो रासज्ञी तारको गुणतारिका ॥ ६३॥ शङ्कराख्योऽम्बुजाकारा कृपणः कृपणावती । देशगो देशसन्तोषा दर्शो दर्शनिवासिनी ॥ ६४॥ दर्शनज्ञो दर्शनस्था दृग् दृदिक्षा सुरोऽसुराः । सुरपालो देवरक्षा त्रिरक्षो रक्षदेवता ॥ ६५॥ श्रीरामसेवी सुखदा सुखदो व्यासवासिनी । वृन्दावनस्थो वृन्दा च वृन्दावन्यो महत्तनू ॥ ६६॥ ब्रह्मरूपी त्रितारी च तारकाक्षो हि तारिणी । तन्त्रर्थज्ञः तन्त्रविद्या सुतन्त्रज्ञः सुतन्त्रिका ॥ ६७॥ तृप्तः सुतृप्ता लोकानां तर्पणस्थो विलासिनी । मयूरा मन्दिररतो मथुरा मन्दिरेऽमला ॥ ६८॥ मन्दिरो मन्दिरादेवी निर्मायी मायसंहरा । श्रीवत्सहृदयो वत्सा वत्सलो भक्तवत्सला ॥ ६९॥ भक्तप्रियो भक्तगम्या भक्तो भक्तिः प्रभुः प्रभा । जरो जरा वरो रावा हविर्हेमा क्षमः क्षिति ॥ ७०॥ क्षोणीपो विजयोल्लासा विजयोजयरूपिणी । जयदाता दातृजाया बलिपो बलिपालिका ॥ ७१॥ कृष्णमार्जाररूपी च कृष्णमार्जाररूपिणी । घोटकस्थो हयस्था च गजगो गजवाहना ॥ ७२॥ गजेश्वरो गजाधारा गजो गर्जनतत्परा । गयासुरो गयादेवी गजदर्पो गजापीता ॥ ७३॥ कामनाफलसिद्ध्यर्थी कामनाफलसिद्धिदा । धर्मदाता धर्मविद्या मोक्षदो मोक्षदायिनी ॥ ७४॥ मोक्षाश्रयो मोक्षकर्त्री नन्दगोपाल ईश्वरी । श्रीपतिः श्रीमहाकाली किरणो वायुरूपिणी ॥ ७५॥ वाय्वाहारी वायुनिष्ठा वायुबीजयशस्विनी । जेता जयन्ती यागस्थो यागविद्या शिवः शिवा ॥ ७६॥ वासवो वासवस्थी च वासाख्यो धनविग्रहा । आखण्डलो विखण्डा च खण्डस्थो खण्डखञ्जनी ॥ ७७॥ खड्गहस्तो बाणहस्ता बाणगो बाणवाहना । सिद्धान्तज्ञो ध्वान्तहन्त्री धनस्थो धान्यवर्द्धीनी ॥ ७८॥ लोकानुरागो रागस्था स्थितः स्थापकभावना । स्थानभ्रष्टोऽपदस्था च शरच्चन्द्रनिभानना ॥ ७९॥ चन्द्रोदयश्चन्द्रवर्णा चारुचन्द्रो रुचिस्थिता । रुचिकारी रुचिप्रीता रचनो रचनासना ॥ ८०॥ राजराजो राजकन्या भुवनो भुवनाश्रया । सर्वज्ञः सर्वतोभद्रा वाचालो लयधातिनी ॥ ८१॥ लिङ्गरूपधरो लिङ्गा कलिङ्गः कालकेशरी । केवलानन्दरूपाख्यो निर्वाणमोक्षदायिनी ॥ ८२॥ महामेघगाढ महानन्दरूपा महामेघजालो महाघोररूपा । महामेघमालः सदाकारपाला महामेघमालामलालोलकाली ॥ ८३॥ वियद्व्यापको व्यापिका सर्वदेहे महाशूरवीरो महाधर्मवीरा । महाकालरूपी महाचण्डरूपा विवेकी मदैकी कुलेशः कुलेशी ॥ ८४॥ सुमार्गी सुगीता शुचिस्वो विनिता महार्को वितर्का सुतर्कोऽवितर्का । कृतीन्द्रो महेन्द्री भगो भाग्यचन्द्रा चतुर्थो महार्था नगः कीर्तीचन्द्रा ॥ ८५॥ विशिष्टो महेष्टिर्मनस्वी सुतुष्टिर्महाषड्दलस्थो महासुप्रकाशा । गलच्चन्द्रधारामृतस्निग्धदेहो गलत्कोटिसूर्यप्रकाशाभिलाषा ॥ ८६॥ महाचण्डवेगो महाकुण्डवेगी महारुण्डखण्डो महामुण्डखण्डा । कुलालभ्रमच्चक्रसारः प्रकारा कुलालो मलाका रचक्रप्रसारी ॥ ८७॥ कुलालक्रियावान् महाघोरखण्डः कुलालक्रमेण भ्रमज्ञानखण्डा । प्रतिष्ठः प्रतिष्ठा प्रतीक्षः प्रतीक्षा महाख्यो महाख्या सुकालोऽतिदीक्षा ॥ ८८॥ महापञ्चमाचारतुष्टः प्रचेष्टा महापञ्चमा प्रेमहा कान्तचेष्टा । महामत्तवेशो महामङ्गलेशी सुरेशः क्षपेशी वरो दीर्घवेशा ॥ ८९॥ चरो बाह्यनिष्ठा चरश्चारुवर्णा कुलाद्योऽकुलाद्या यतिर्यागवाद्या । कुलोकापहन्ता महामानहन्त्री महाविष्णुयोगी महाविष्णुयोगा ॥ ९०॥ क्षितिक्षोभहन्ता क्षितिक्षुब्धबाधा महार्घो महार्घा धनी राज्यकार्या । महारात्रि सान्द्रान्धकारप्रकाशो महारात्रि सान्द्रान्धकारप्रवेशा ॥ ९१॥ महाभीमगम्भीरशब्दप्रशब्दो महाभीमगम्भीरशब्दापशब्दा । कुला ज्ञानदात्री यमो यामयात्रा वशी सूक्ष्मवेशाश्वगो नाममात्रा ॥ ९२॥ हिरण्याक्षहन्ता महाशत्रुहन्त्री विनाशप्रियो बाणनाशप्रिया च । महाडाकिनीशो महाराकिणीशो महाडाकिनी सा महाराकिणी सा ॥ ९३॥ मुकुन्दो महेन्द्रो महाभद्रचन्द्रा क्षितित्यागकर्ता महायोगकर्त्री । हितो मारहन्त्री महेशेश इन्द्रा गतिक्षोभभावो महाभावपुञ्जा ॥ ९४॥ शशीनां समूहो विधोः कोटिशक्तिः कदम्बाश्रितो वारमुख्या सतीना । महोल्लासदाता महाकालमाता स्वयं सर्वपुत्रः स्वयं लोकपुत्री ॥ ९५॥ महापापहन्ता महाभावभर्त्री हरिः कार्तीकी कार्तीको देवसेना । जयाप्तो विलिप्ता कुलाप्तो गणाप्ता सुवीर्यो सभाषा क्षितीशोऽभियाता ॥ ९६॥ भवान् भावलक्ष्मीः प्रियः प्रेमसूक्ष्मा जनेशो धनेशी कृपो मानभङ्गा । कठोरोत्कटानां महाबुद्धिदाता कृतिस्था गुणज्ञो गुणानन्दविज्ञा ॥ ९७॥ महाकालपूज्यो महाकालपूज्या खगाख्यो नगाख्या खरः खड्गहस्ता । अथर्वोऽथर्वान्दोलितस्थः महार्था खगक्षोभनाशा हविः कूटहाला ॥ ९८॥ महापद्म मालाधृतो गाणपत्या गणस्थो गभीरा गुरुः ज्ञानगम्या । घटप्राणदाता घनाकाररूपा भयार्थोङबीजाङवारीङकर्ता ॥ ९९॥ भवो भावमाता नरो यामध्याता चलान्तोऽचलाख्या चयोऽञ्जालिका च । छलज्ञश्छलाढ्या छकारश्छकारा जयो जीवनस्था जलेशो जलेशा ॥ १००॥ जपञ्जापकारी जगज्जीवनीशा जगत्प्राणनाथो जगदाल्हादकारी । झरो झर्झरीशा झनत्कारशब्दो झनञ्झञ्जनानादझङ्काररावा ॥ १०१॥ ञचैतन्यकारी ञकैवल्यनारी हनोल्लासधारी टनत्टङ्कहस्ता । ठरेशो पविष्टश्ठकारादिकोटी डरो डाकिनीशो डरेशो डमारा ॥ १०२॥ ढमेशो हि ढक्का वरस्थानबीजो णवर्णा तमालतनुः स्थाननिष्ठा । थकारार्णमानस्थनिस्थोऽसंख्या दयावान् दयार्द्रा धनेशो धनाढ्या ॥ १०३॥ नवीनो नगेभागतीर्णाङ्गहारो नगेशी परः पारणी सादिपाला । फलात्मा फला फाल्गुनी फेणनाशः फलाभूषणाढ्या वशी वासरम्या ॥ १०४॥ भगात्मा भवस्त्री महाबीजमानो महाबीजमाला मुकुन्दः सुसूक्ष्मा । यतिस्था यशस्था रतानन्दकर्ता रतिर्लाकिनीशो लयार्थ प्रचण्डा ॥ १०५॥ प्रवालाङ्गधारी प्रवालाङ्गमाला हलोहालहेलापदः पादताला । वशीन्द्रः प्रकाशो वरस्थानवासा शिवः श्रीधराङ्गः शलाका शिला च ॥ १०६॥ षडाधारवासी षडाधारविद्या षडाम्भोजसंस्थः षडब्जोपविष्टा । सदा साधरोग्रोपविष्टाऽपरागी सुसूक्तापयस्था पलाश्रयस्थिता ॥ १०७॥ हरस्थोग्रकर्मा हरानन्दधारा लघुस्थो लिपिस्था क्षयीक्षुब्धक संख्या । अनन्तो निर्वाणाहराकारबीजा उरस्थोऽप्युरुस्था उरा ऊर्ध्वरूपा ॥ १०८॥ ऋचस्थो हि ॠगालसो दीर्घलृस्था त्वमेको हि चैम्बीजगुर्वी गुणस्था । सदौङ्कारवर्णा ह्सौंकारबीजा असङ्कारचन्द्रो ह्युसः कारवीरा ॥ १०९॥ हरीन्द्रो हरीशा हरिः कृष्णरूपा शिवो वेदभाषा च शौरिः प्रसङ्गा । गणाध्यक्षरूपी परानन्दभक्षा परेशो गणेशी रसो वासपूज्या ॥ ११०॥ चकोरि कुलप्राणबुद्धिस्थितिस्था स्वयं कामधेनुस्वरूपी विरूपा । श्रीहिरण्यप्रभः श्री हिरण्यप्रभाङ्गी प्रभातार्कवर्णोऽरुणाकारणाङ्गी ॥ १११॥ विभा कोटिधारा धराधार कोषा रणीशो प्रत्यादिकूटोऽधरो धारणा शौरिरार्या । महायज्ञसंस्थो महायज्ञनिष्ठा सदाकर्मसङ्गः सदामङ्गरङ्गा ॥ ११२॥ किरातीपति राकिणी कालपुत्री शिलाकोट निर्माणदोहा विशाला । कलार्ककलस्थो कलाकिङ्किणीस्था किशोरः किशोरी कुरुक्षेत्रकन्या ॥ ११३॥ महालाङ्गलिश्री बलोद्धामकृष्णः कुलालादिविद्याऽभयो भावशून्या । महालाकिनी काकिनी शाकिनीशो महासुप्रकाशा परो हाकिनीशा ॥ ११४॥ कुरुक्षेत्रवासी कुरुप्रेममूर्तीर्महाभूतिभोगी महायोगिनी च । कुलाङ्गारकारो कुलाङ्गीशकन्या तृतीयस्तृतीयाऽद्वितीयोऽद्वितीया ॥ ११५॥ महाकन्दवासी महानन्दकाशी पुरग्रामवासी महापीठदेशा । जगन्नाथ वक्षः स्थलस्थो वरेण्या च्युतानन्दकर्ता रसानन्दकर्त्री ॥ ११६॥ जगद्दीपकलो जगद्दीपकाली महाकामरूपी महाकामपीठा । महाकामपीठस्थिरो भूतशुद्धिर्महाभूतशुद्धिः महाभूतसिद्धिः ॥ ११७॥ प्रभान्तः प्रवीणा गुरुस्थो गिरिस्था गलद्धारधारी महाभक्तवेषा । क्षणक्षुन्निवृत्तिनीवृत्तान्तरात्मा सदन्तर्गतस्था लयस्थानगामी ॥ ११८॥ लयानन्दकाम्या विसर्गाप्तवर्गो विशालाक्षमार्गा कुलार्णः कुलार्णा । मनस्था मनःश्रीः भयानन्ददाता सदा लाणगीता गजज्ञानदाता महामेरुपाया ॥ ११९॥ तरोर्मूलवासी तरज्ञोपदर्शा सुरेशः समेशः सुरेशा सुखी खड्गनिष्ठा । भयत्राणकर्ता भयज्ञानहन्त्री जनानां मखस्थो मखानन्दभङ्गा ॥ १२०॥ महासत्पथस्थो महासत्पथज्ञा महाबिन्दुमानो महाबिन्दुमाना । खगेन्द्रोपविष्टो विसर्गान्तरस्था विसर्गप्रविष्टो महाबिन्दुनादा ॥ १२१॥ सुधानन्दभक्तो विधानन्दमुक्तिः शिवानन्दसुस्थो विनानन्दधात्री । महावाहनाह्लादकारी सुवाहा सुरानन्दकारा गिरानन्दकारी ॥ १२२॥ हयानन्दकान्तिः मतङ्गस्थदेवो मतङ्गाधिदेवी महामत्तरूपः । तदेको महाचक्रपाणिः प्रचण्डा खिलापस्थलस्थोऽविहम्नीशपत्नी ॥ १२३॥ शिखानन्दकर्ता शिखासारवासी सुशाकम्भरी क्रोष्टरी वेदवेदीसुगन्धा । युगो योगकन्या दवो दीर्घकन्या शरण्यः शरण्या मुनिज्ञानगम्या सुधन्यः सुधन्या ॥ १२४॥ शशी वेदजन्या यमी यामवामा ह्यकामो ह्यकामा सदा ग्रामकामा । धृतीशः धृतीशा सदा हाटकस्थाऽ यनेशोऽयनेशी भकारो भगीरा ॥ १२५॥ चलत्खञ्जनस्थः खलत्खेलनस्था विवाती किराती खिलाङ्गोऽखिलाङ्गी । बृहत्खेचरस्थो बृहत्खेचरी च महानागराजो महानागमाला ॥ १२६॥ हकारार्द्धसंज्ञा वृतोहारमाला महाकालनेमिप्रहा पार्वती च । तमिस्रा तमिस्रावृतो दुःखहत्या विपन्नो विपन्ना गुणानन्दकन्या ॥ १२७॥ सदा दुःखहन्ता महादुःखहन्त्री प्रभातार्क वर्णः प्रभातारुणश्रीः । महापर्वतप्रेमभावोपपन्नो महादेवपत्नीशभावोपपन्ना ॥ १२८॥ महामोक्षनीलप्रिया भक्तिदाता नयानन्द भक्तिप्रदा देवमाता ॥ १२९॥ इत्येतत्कथितं नाथ महास्तोत्रं मनोरमम् । सहस्रनामयोगाऽङ्गमष्टोत्तरसमन्वितमम् ॥ १३०॥ यः पठेत् प्रातरुत्थाय शुचिर्वाशुचिमानसः । भक्त्या शान्तिमवाप्नोति अनायासेन योगिराट् ॥ १३१॥ प्रत्यहं ध्यानमाकृत्य त्रिसन्ध्यं यः पठेत् शुचिः । षण्मासात् परमो योगी सत्यं सत्यं सुरेश्वर ॥ १३२॥ अकालमृत्युहरणं सर्वव्याधिविनाशनम् । अपमृत्य्वादिहरणं वारमेकं पठेद्यदि ॥ १३३॥ पठित्त्वा ये न गच्छन्ति विपत्काले महानिशि । अनायासेन ते यान्ति महाघोरे भयार्णवे ॥ १३४॥ अकाले यः पठेन्नित्यं सुकालस्तत्क्षणाद्भवेत् । राजस्वहरणे चैव सुवृत्तिहरणादिके ॥ १३५॥ मासैकपठनादेव राजस्वं स लभेद् ध्रुवम् । विचरन्ति महावीराः स्वर्गे मर्त्ये रसातले ॥ १३६॥ गणेशतुल्यवलिनो महाक्रोधशरीरिणः । एतत्स्तोत्रप्रसादेन जीवन्मुक्तो महीतले ॥ १३७॥ महानामस्तोत्रसारं धर्माधर्मनिरूपणम् । अकस्मात् सिद्धिदं काम्यं काम्यं परमसिद्धिदम् ॥ १३८॥ महाकुलकुण्डलिन्याः भवान्याः साधने शुभे । अभेद्यभेदने चैव महापातकनाशने ॥ १३९॥ महाघोरतरे काले पठित्वा सिद्धिमाप्नुयात् । षट्चक्रस्तम्भनं नाथ प्रत्यहं यः करोति हि ॥ १४०॥ मनोगतिस्तस्य हस्ते स शिवो न तु मानुषः । योगाभ्यासं यः करोति न स्तवः पठ्यते यदि ॥ १४१॥ योगभ्रष्टो भवेत् क्षिप्रं कुलाचारविलङ्घनात् । कुलीनाय प्रदातव्यं न खल्वकुलेश्वरम् ॥ १४२॥ कुलाचारं समाकृत्य ब्राह्मणाः क्षत्रियादयः । योगिनः प्रभवन्त्येव स्तोत्रपाठात् सदामराः ॥ १४३॥ आनन्दभैरव उवाच वद कान्ते रहस्यं मे मया सर्वञ्च विस्मृतम् । महाविषं कालकूटं पीत्त्वा देवादिरक्षणात् ॥ १४४॥ कण्ठस्थाः देवताः सर्वा भस्मीभूताः सुसम्भृताः । महाविषज्वालया च मम देहस्थदेवताः ॥ १४५॥ कैवल्यनिरताः सर्वे प्रार्थयन्ति निरन्तरम् । षट्चक्रं कथयित्वा तु सन्तोषं मे कुरु प्रभो । षट्चक्रभेदकथनममृतश्रवणादिकम् ॥ १४६॥ कथित्वा मम सन्तोषं कुरु कल्याणि वल्लभे । अमृतानन्दजलधौ सुधाभिः सिक्तविग्रहम् ॥ १४७॥ कृत्त्वा कथय शीघ्रं मे चायुषं परिवर्धय । आनन्दभैरवी उवाच निगूढार्थ महाकाल कालेश जगदीश्वर ॥ १४८॥ भैरवानन्दनिलय कालकूटनिषेवण । इदानीं श‍ृणु योगार्थ मयि संयोग एव च ॥ १४९॥ श्रुत्वा चैतत्क्रियाकार्यं नरो योगीश्वरो भवेत् । ममोद्भवः खेऽमले च सर्वाकारविवर्जीते ॥ १५०॥ भ्रूमध्ये सर्वदेहे च स्थापयित्वा च मां नरः । भाव्यते चापरिच्छन्नं ब्रह्मविष्णुशिवात्मकम् ॥ १५१॥ मम रूपं महाकाल सत्त्वरजस्तमः प्रियम् । केवलं रजोयोगेन शरीरं नापि तिष्ठति ॥ १५२॥ तथा केवलयोगेन तमसा नापि तिष्ठति । तथा केवलसत्त्वेन कुतो देही प्रतिष्ठति । अतस्त्रिगुणयोगेन धारयामि नवाङ्गकम् ॥ १५३॥ शनैः शनैः विजेतव्याः सत्त्वरजस्तमोगुणाः । आदौ जित्वा रजोधर्मं पश्चात्तामसमेव च ॥ १५४॥ सर्वशेषे सत्त्वगुणं नरो योगीश्वरो भवेत् । गुणवान् ज्ञानवान् वाग्मी सुश्रीर्धर्मी जितेन्द्रियः ॥ १५५॥ शुद्धनिर्मलसत्वं तु गुणमाश्रित्य मोक्षभाक् । सदा सत्त्वगुणाच्छन्नं पुरुषं काल एव च ॥ १५६॥ पश्यतीह न कदाचिज्जरामृत्युविवर्जीतम् । तं जनं परमं शान्तं निर्मलं द्वैतवर्जीतम् ॥ १५७॥ सर्वत्यागिनमात्मानं कालः सर्वत्र रक्षति । जले वा पर्वते वापि महारण्ये रणस्थले ॥ १५८॥ भूगर्त्तनिलये भीते संहारे दुष्टविग्रहे । सन्तिष्ठति महायोगी सत्यं सत्यं कुलेश्वर ॥ १५९॥ महायोगं श‍ृणु प्राणवल्लभ श्रीनिकेतन । योगार्थं परमं ब्रह्मयोगार्थ परन्तपः ॥ १६०॥ ये जानन्ति महायोगं मिरयन्ते न च ते नराः । कृत्वा कृत्वा षड्दलस्य साधनं कृत्स्नसाधनम् ॥ १६१॥ ततः कुर्यान्मूलपद्मे कुण्डलीपरिचालनम् । मुहुर्मुहुश्चालनेन नरो योगीश्वरो भवेत् ॥ १६२॥ एकान्तनिर्मले देशे दुर्भीक्षादिविवर्जीते । वर्षमेकासने योगी योगमार्गपरो भवेत् ॥ १६३॥ पद्मासनं सदा कुर्याद् बद्धपद्मासनं तथा । महापद्मासनं कृत्वा तथा चासनमञ्जनम् ॥ १६४॥ तत्पश्चात् स्वस्तिकाख्यञ्च बद्धस्वस्तिकमेव च । योगाभ्यासे सदा कुर्यात् मन्त्रसिद्ध्यादिकर्मणि ॥ १६५॥ चक्रासनं सदा योगी योगसाधनकर्मणि । बद्धचक्रासनं नाम महाचक्रासनं तथा ॥ १६६॥ कृत्वा पुनः प्रकर्तव्यं बद्धयोगेश्वरासनम् । योगेश्वरासनं कृत्वा महायोगेश्वरासनम् ॥ १६७॥ वीरासनं ततः कुर्यात् महावीरासनं तथा । बद्धवीरासनं कृत्वा नरो योगेश्वरो भवेत् ॥ १६८॥ ततः कुर्यान्महाकाल बद्धकुक्कुटासनम् । महाकुक्कुटमाकृत्य केवलं कुक्कुटासनम् ॥ १६९॥ मयूरासनमेवं हि महामयूरमेव च । बद्धमयूरमाकृत्य नरो योगेश्वरो भवेत् ॥ १७०॥ एतत् सर्वं प्रवक्तव्यं विचार्य सुमनःप्रिय । अभिषेकप्रकरणे आसनादिप्रकाशकम् ॥ १७१॥ कथितव्यं विशेषेण इदानीं श‍ृणु षट्क्रमम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ १७२॥ ततः परशिवो देवः षट्शिवाः षट्प्रकाशकाः । एतेषां षड्गुणानन्दाः शक्तयः परदेवताः ॥ १७३॥ षट्चक्रभेदनरता महाविद्याधिदेवताः । एतेषां स्तवनं कुर्यात् परदेवसमन्वितम् ॥ १७४॥ एतत्प्रकारकरणे यश्च प्रत्यहमादरात् । क्रियानिविष्टः सर्वत्र भावनाग्रहरूपधृक् ॥ १७५॥ स पश्यति जगन्नाथं कमलोपगतं हरिम् । आदौ हरेर्दर्शनञ्च कारयेद्येन कुण्डली ॥ १७६॥ ततो रुद्रस्य सञ्ज्ञायां लाकिन्याः शुभदर्शनम् । सर्वशः क्रमशो नाथ दर्शनं प्राप्यते नरः ॥ १७७॥ शनैः शनैर्महाकाल कैलासदर्शनं भवेत् । क्रमेण सर्वसिद्धिः स्यात् अष्टाङ्गयोगसाधनात् ॥ १७८॥ अष्टाङ्गसाधने काले यद्यत् कर्मं करोति हि । तत्सर्वं परियत्नेन श‍ृणु सादरपूर्वकम् । तत्क्रियादिकमाकृत्य शीध्रं योगी भविष्यति ॥ १७९॥ ॥ इति श्रीरुद्रयामले उत्तरतन्त्रे भैरवीभैरवसंवादे श्रीराकिणीकेशवसहस्रनामस्तोत्रं सम्पूर्णम् ॥