अक्षर आकार:

राज्ञीस्तोत्रम्

Rajni Stotram

राज्ञीस्तोत्रम्

ओङ्काररूपेऽखिलवेदसारे वेदान्तविज्ञानचणैः प्रगीते । मूर्ध्ना महाराज्ञि महार्हपीठे वन्दे त्वदीयं चरणारविन्दम् ॥ १॥ भूरादिलोके कृतलक्षणेऽजे राज्ञि प्रपन्नार्तिहरे नमस्ते । आक्रन्दमाकर्णय मे शरण्ये भक्तार्तिनाशे ह्यपरः प्रभुः कः ॥ २॥ भुवोऽवकाशे रविचन्द्रदीप्तिर्देदीप्यते त्वामनु चित्प्रदीप्तिम् । तमःप्रपञ्चं प्रविलाप्य हार्दं पद्मं ममाबोधय राज्ञि मातः ॥ ३॥ स्वःशाखिदर्पं हरतीष्टदानादाशाधिकाद्यत्स्मृतमात्रमेव । मातर्महाराज्ञि तदाननं ते वन्दे शरत्सुन्दरचन्द्ररम्यम् ॥ ४॥ तद्वाङ्मनोदूरमचिन्तनीयं रूपं स्वकीयं भवदुःखहारि । पीयूषपीयूषमयूखतुल्यं राज्ञि प्रकाश्याम्ब कदा दयेथाः ॥ ५॥ सवितुः शक्तिभूता त्वं सूयसेऽदश्चराचरम् । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ६॥ वरेण्यं त्वत्पदाभ्यर्चामृतचर्वणमस्तु मे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ७॥ भर्गो भर्गेऽपि संसारभर्जको यस्तवैव सः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ८॥ देवस्य त्रिपुरारातेराहोपुरुषिके शिवे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ९॥ धीमहिम्नापि केनापि यां स्तोतुं न प्रभूयते । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १०॥ धियो मे घोरसंसारलङ्घने सन्तु सञ्जिताः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ११॥ योऽर्चति त्वां स देवेशि मघवादिभिरर्च्यते । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १२॥ नस्तितोष्ट्रवदम्बाहं कर्मपाशैः प्रपीडितः । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १३॥ प्रचोदयात्तवेच्छा मां तवैवाङ्घ्रिनिषेवणे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १४॥ मातुः स्नेहः सर्वपुत्रेषु तुल्यः श्लाघ्याश्लाघ्येष्वम्ब चेत्सत्यमेतत् । दुर्वृत्तस्याप्तात्मजस्यास्ति किं मे त्यागो युक्तोऽयुक्तदोषौघहर्त्रि ॥ १५॥ राज्ञीस्तोत्रमिदं पुण्यं यः पठेद्भक्तिसंयुतः । तस्य सिध्यति सर्वेष्टमचिराद्देव दुर्लभम् ॥ १६॥ इति श्रीराज्ञीस्तोत्रं समाप्तमनाथक्षेमाय भवतु ।