अक्षर आकार:

राज्ञीस्तोत्रम्

rAjnIstotram

राज्ञीस्तोत्रम्

ॐ शीतांशुबालार्ककृशानुनेत्रां चतुर्भुजामेणत्वगासनस्थाम् । शङ्खाब्जशूलासिधरां महेशीं राज्ञीं भजेऽहं तुहिनाद्रिरूपाम् ॥ १॥ स्मृतैवान्तर्गता पुंसां हरन्ती सकलं मलम् । जयत्येषा महाराज्ञी भक्तानां क्षेमदायिनी ॥ २॥ त्रिजगन्मोहिनीमीडे मयूरीभूतसद्गुणे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ३॥ शेषाशेषमुखैर्गुण्ये गुणीगुणगणप्रिये । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ४॥ सुरासुरमुनीन्द्राद्यैर्वन्दनीयपदाम्बुजे । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ५॥ चराचरजगत्सृष्टिस्थितिसंहृतिकारिणि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ६॥ भक्तकल्पलतेऽनल्पवाङ्माधुर्याजिताखिले । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ७॥ ब्रह्मविष्णुमहेशानवन्दिते गिरिनन्दिनि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ८॥ भक्तानां भीमसंसारपारावारप्रतारिणि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ ९॥ निर्गुणे निष्क्रिये नित्ये सच्चिदानन्दरूपिणि । नमोऽस्तु ते महाराज्ञि पाहि मां शरणागतम् ॥ १०॥ राज्ञीस्तोत्रमिदं पुण्यं त्रिसन्ध्यं प्रयतः पठन् । असंशयं विशेषेण वशयेदखिलं जगत् ॥ ११॥ इति राज्ञीस्तोत्रं सम्पूर्णम् ।