अक्षर आकार:

श्रीराजराजेश्वर्याः स्तुतिः अथवा राजराजेश्वर्यष्टकम्

Shri Rajarajeshvari Stuti or Rajarajeshvaryashtakam

श्रीराजराजेश्वर्याः स्तुतिः अथवा राजराजेश्वर्यष्टकम्

ॐ नमः पराशक्तये । आदिक्षान्त समस्तवर्णविभवा यामातृकारूपिणी मन्त्रवीर्य परामृतरसा स्वादात्सुखदायिनी । भावव्रात समुद्रगर्भलहरी शब्दार्थतत्त्वव्यापिनी सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ १॥ वाच्य वाचक सारपूर्ण विभवा देवी षडध्वाश्रया श्रीचक्रान्तरवह्णिकोण निलयाया बिन्दुमात्रात्मिका । सूक्ष्मात्सूक्ष्मतरा परामृतमयी नित्यं जगत्तर्पिनी सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ २॥ पूर्णाहन्त्वविमर्श पावनकरी नित्यं मलक्षालिनी भक्तानां भवभीति भञ्जनकरी हृत्पङ्कजे संस्थिता । बाह्याभ्यन्तरचारिणी सुरसतो हंसेनया सेविता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ३॥ उर्ध्वाधः स्थितनाडिवृन्दविभवे सञ्जीविकामध्यमा स्वात्मामर्शन तत्परैश्च सततं भक्तैः खलु प्राप्यते । मूलाद् ब्रह्मबिलावधितडिदिवया ब्रह्मनाडी स्मृता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ४॥ वर्णावर्णनिवर्ण भेद निवहातत्राप्यभेदात्मिका वेदान्तागमतन्त्र सार महिमाषड्दर्शनोल्लङ्घिनी । सर्वाचार विचार पालन परायानिर्गता चारका सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ५॥ ॐ तत्सदितिनामभिर्निगदिता सर्वागमे योगिभिः तत्प्राणान्त विचार्यभक्त निबहैः ह्रीतमिव शष्पवत् । ऐन्द्रं-धाम विहाय क्षीणकलुषैर्मोक्षाय या स्वीकृता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ६॥ सौरं ज्योतिरिदमपि परिमितंह्रीतं तथा यत्पदात् ॐइत्येतद्विमर्शनेन सततं सर्वमिदं स्वात्मनि । रक्तेस्तत्पद प्रेप्सुभिञ्च मुनिभिःस्वस्थै सदास्वीकृतं सा मां पातु सरस्वती भगवती श्रीराजराजेश्वेरी ॥ ७॥ तैस्त्तैर्योगिवरैः सदा कवियशोनक्रं दिनं यत्पद- ध्यानावस्थित तद् गतेन मनसा प्राप्तं महत् निर्मलम । मोक्षं भोगं ददाति या प्रभुदिता विद्याधरैर्वन्दिता सा मां पातु सरस्वती भगवती श्रीराजराजेश्वरी ॥ ८॥ इति श्रीराजराजेश्वर्याः स्तुतिः राजानक विद्याधर विरचिता शुभायास्तु । इति शिवम् ।